यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नायिका, स्त्री, (नयति या । नी + ण्वुल् । टाप् अत इत्वञ्च ।) दुर्गाशक्तिः । सा अष्टधा । यथा, -- “ततोऽष्टनायिका देव्या यत्नतः परिपूजयेत् ॥ उग्रचण्डां प्रचण्डाञ्च चण्डोग्रां चण्डनायिकाम् । अतिचण्डाञ्च चामुण्डां चण्डां चण्डवतीन्तथा ॥ पद्मे चाष्टदले चैताः प्रागादिक्रमतस्तथा । पञ्चोपचारैः संपूज्य भैरवान्मध्यदेशतः ॥” इति प्रकृतिखण्डे ६१ अध्यायः ॥ शृङ्गाररसालम्बनविभावरूपा नारी । सा च त्रिविधा । स्वीया परकीया सामान्यवनिता चेति । तत्र स्वामिन्येवानुरक्ता स्वीया । स्वीयापि त्रिविधा । मुग्धा मध्या प्रगल्मा च । तथा अङ्कुरितयौवना मुग्धा । सा च ज्ञातयौवना अज्ञातयौवना च । सैव क्रमशो लज्जाभय- पराधीनरतिर्नवोढा । सैव क्रमशो जात- प्रश्रया विश्रब्धनवोढा । समानलज्जामदना मध्या । एषैव चातिप्रश्रयादतिविश्रब्धनवोढा । पतिमात्रविषयकेलिकलापकोविदा प्रगल्भा । मध्याप्रगल्मे मानावस्थायां प्रत्येकं त्रिविधे । धीरा अधीरा धीराधीरा चेति । व्यङ्ग्य- कोपप्रकाशा धीरा । अव्यङ्ग्यकोपप्रकाशा अधीरा । व्यङ्ग्याव्यङ्ग्यकोपप्रकाशा धीराधीरा । एते धीरादयस्त्रयो भेदा द्बिधा भवन्ति । ज्येष्ठा कनिष्ठा च । परिणीतत्वे सति भर्त्तुरधिकस्नेहा ज्येष्ठा । परिणीतत्वे सति भर्त्तुर्न्यूनस्नेहा कनिष्ठा ॥ अप्रकटपरपुरुषानुरागा परकीया । सा च द्विविधा । परोढा कन्यका च । गुप्ता विदग्धा लक्षिता कुलटा अनुशयानामुदिताप्रभृतीनां परकीयायामेवान्तर्भावः । गुप्ता त्रिविधा । वृत्त- सुरतगोपना च । वर्त्तिष्यमाणसुरतगोपना । वर्त्त- मानसुरतगोपना च । विदग्धा द्विविधा । वाग्वि- दग्धा क्रियाविदग्धा चेति । अनुशयाना त्रिविधा । वर्त्तमानस्थानविघट्टनेन भाविस्यानाभावशङ्कया स्वानधिष्ठितसङ्केतस्थले भर्तुर्गमनानुमानेन ॥ * ॥ वित्तमात्रोपाधिकसकलपुरुषाभिलाषा सामान्य- वनिता । एता अन्यसम्भोगदुःखिता । वक्रोक्ति- गर्व्विता मानवत्यश्च तिस्रो भवन्ति । वक्रोक्ति- गर्व्विता द्बिविधा । प्रेमगर्व्विता सौन्दर्य्यगर्व्विता च । मानवती यथा । प्रियापराधसूचिका चेष्टा मानः । स च लघुर्मध्यमो गुरुश्चेति । अल्पा- पनेयो लघुः । कष्टापनेयो मध्यमः । कष्टतमा- पनेयो गुरुः ॥ * ॥ एताः षोडश अष्टाभिरव- स्थाभिः प्रत्येकमष्टविधा । प्रोषितभर्त्तृका खण्डिता उत्कण्ठिता कलहान्तरिता विप्र- लब्धा वासकसज्जा स्वाधीनपतिका अभिसा- रिका चेति गणनादष्टाविंशत्यधिकं शतं भेदा भवन्ति । तासामुत्तममध्यमाधमगणनया चतु- रधिकाशीतिशतत्रयं भेदा भवन्ति । तत्रासां दिव्य-अदिव्य-दिव्यादिव्यभेदेन गणनया द्विपञ्चा- शदधिकशतयुतसहस्रं भेदा भवन्ति । इति रस- मञ्जरी ॥ * ॥ अङ्गुष्ठाग्रेण लिखति सकटाक्षं निरीक्षते । दशति स्वाधरं चापि ब्रूते प्रियमधोमुखी ॥ न मुञ्चति च तं देशं नायको यत्र दृश्यते । आगच्छति गृहं चास्य कार्य्यव्याजेन केनचित् ॥ दत्तं किमपि कान्तेन धृत्वाङ्गे मुहुरीक्षते । नित्यं हृष्यति तद्योगे वियोगे मलिना कृशा ॥ मन्यते बहु तच्छीलं तत्प्रियं मन्यते प्रियम् । प्रार्थयतेऽल्पमूल्यानि सुप्ता न परिवर्त्तते ॥ विकारान् सात्त्विकानस्य सम्मुखी नाधिगच्छति । भाषते सूनृतं स्निग्धमनुरक्ता नितम्बिनी ॥ एतेष्वधिकलज्जानि चेष्टितानि नवस्त्रियाः । मध्यव्रीडानि मध्यायाः स्रंसमानत्रपाणि तु ॥ अन्यस्त्रियाः प्रगल्भायास्तथा स्युर्वारयोषितः ॥ लेख्यप्रस्थापनैः स्निग्धैर्वीक्षितैर्मृदुभाषितैः । दूतीसम्प्रेषणैर्नार्य्या भावाभिव्यक्तिरिष्यते ॥” * ॥) कस्तूरीविशेषः । यथा, राजनिर्घण्टे । “चूर्णाकृतिस्तु खरिका तिलका तिलाभा कौलत्थवीजसदृशी च कुलत्थिकाख्या । स्थूला यतः कियदियं किल पिण्डिका स्या- त्तस्याश्च किञ्चिदधिकापि च नायिकैषा ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नायिका¦ स्त्री नी--ण्वुल् कापि अत इत्त्वम्।

१ प्रापिकायांस्त्रियां

२ शृङ्गाररसालम्बनभूतायां स्त्रियां च तद्भेदादिसा॰ द॰ उक्तं यथा
“अथ नायिका त्रिविधा स्वाऽन्या साधारणस्त्रीति। नायकसामान्यगुणैर्भवति यथासम्भवैर्युक्ता। विनयार्जवा-दियुक्ता गृहकर्मपरा पतिव्रता स्वीया। साऽपि कथितात्रिविथा मुग्धा मध्या प्रगल्भेति। प्रथमावतीर्णयौवनभ-दनविकारा रतौ वामा। कथिता मृदुश्च माने समधिकल-ज्जावती मुग्धा। मध्या विचित्रसुरता प्ररूढस्मरयौवना। ईषत्प्रगल्भवचना मध्यमव्रीडिता मता। स्मरान्धा नाढ-तारुण्या समस्तरतकोविदा। भावोन्नता दरव्रीडाप्रगल्भाक्रान्तनायका। ते धीरा चाप्यधीरा च धीरा-धीरेति षडिविधे। प्रियं सोत्प्रासवक्रोक्त्या मध्या-धीरा दहेद्रुषा। धीराधीरा तु रुदितैरधीरा परुषो-क्तिभिः। प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा। उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः। धीराधीरातु सोल्लुण्ठभाषितैः खेदयेदमुम्। तर्जयेत्ताडयेदन्याप्रत्येकं ता अपि द्विधा। कनिष्ठज्येष्ठरूपत्वान्नायकप्रणयं प्रति। मध्याप्रगल्भयोर्भेदास्तस्माद्द्वादश की-र्त्तिताः। मुग्धा त्वेकैव तेन स्युः स्वीयाभेदास्त्रयोदश। परकीया द्विधा प्रोक्ता परोदा कन्यका तथा। यात्रादि-निरताऽन्योढा कुलटा गलितत्रपा। कन्या त्वजातोपयमा सलज्जा नवयौवना। धीरा कलाप्रगल्भा स्या-द्वेश्या सामान्यनायिका। निर्गुणानपि न द्वेष्टि नरज्यति गुणिष्वपि। वित्तमात्रं समालोक्य सा रामं दर्श-येद् बहिः। काममङ्गीकृतमपि परिक्षीणधनं नरम्। मात्रा निष्क्रामयेदेषा पुनःसन्धानकाङ्क्षया। तस्कराःपण्ड्रकामूर्खाः सुखप्राप्तधनास्तथा। सिङ्गिनश्छन्नका-माद्या आसां प्रायेण वल्लभाः। एषापि मदमायत्ताक्वापि सत्यानुरागिणी। रक्तायां वा विरक्तायां रतमस्यांसुदुर्लभम्। अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः। स्वाधीनभर्तृका तद्वत् खण्डिताऽथाभिसारिका। कल-[Page4043-a+ 38] हान्तरिता विगसब्धा प्रोषितमर्तृका। अन्या वासक-सज्जा स्याद्विरहोत्कण्ठिता तथा। कान्तोरतिगुणाकृष्टोम जहाति यदन्तिकम्। विचित्रविभ्रमासक्ता सा स्यात्स्ताघीनभर्तृका। पार्श्वमेति प्रियो यस्या अन्यसम्मो-नचिह्नितः। सा खण्डितेति कथिता धीरैरीर्ष्याकषा-यिता। अभिसारयते कान्तं या मन्मथवशंवदा। स्वयं वाऽभिसरत्येषा धीरैरुक्ताऽमिसारिका। चाटु-कारमपि प्राणनाथं रोषादपास्य या। पश्चात्तापमवाप्नोतिकलहान्तरिता तु सा। प्रियः कृत्वापि सङ्केतं यस्या ना-याति सन्निधिम्। विप्रलब्धा तु सा ज्ञेया नितान्तमवमा-निता। नानाकार्य्यवशाद् यस्या दूरदेशं गतः पतिः। सा मनोभवदुःखार्त्ता भवेत् प्रोषितभर्तृका। कुरुते मण्डनंयस्याः सज्जिते वासवेश्मनि। सा तु वासकसज्जा स्याद्वि-दितप्रियसङ्गमा। आगन्तुं कृतचित्तोऽपि दैवान्नायातियत्प्रियः। तदनागमदुःखार्त्ता विरहोत्कण्ठिता तु सा। इति साष्टविंशतिशतमुत्तममध्यमाधमस्वरूपतः। चतर-धिकाशीतियुतं शतत्रयं नायिकाभेदानां स्यात्”।

३ देव्याः शक्तिभेदे
“ततोऽष्ट नायिका देव्याः यत्नतः परि-पूजयेत्। उग्रचण्डां प्रचण्डां च चण्डोग्रां चण्डना-यिकाम्। अतिचण्डां च चामुण्डां चण्डां चण्डवतींतथा” ब्रह्मवै॰ प्रकृतिख॰

६० अ॰।

४ कस्तूरीभेदे
“चूर्णा-कृतिस्तु खरिका तिलका तिलाभा कौलत्थवीजसदृशी चकुलत्थिकाख्या। स्थूला ततः कियदियं किल पिण्डिकास्यात्तस्याश्च किञ्चिदधिकापि च नायिकैषा” राजनि॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नायिका [nāyikā], 1 A mistress.

A wife.

The heroine of a poetic composition. (According to S. D. a नायिका is of three kinds स्वा or स्वीया, अन्या or परकीया, and साधारणस्त्री. For further classification, see S. D.97-112, and Rasamañjarī 3-94; cf. अन्यस्त्री also).

A kind of musk.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नायिका f. See. नायिका

नायिका f. (of यकSee. )a noble lady Vet.

नायिका f. mistress , courtezan(See. नाका-धिप-)

नायिका f. the heroine in a drama Sa1h. etc.

नायिका f. an inferior form or शक्तिof दुर्गा(of which there are 8 , viz. उग्र-चण्डा, प्र-चण्डा, चण्डोग्रा, चण्ड-नायिका, अति-चण्डा, चामुण्डा, चण्डा, and चण्ड-वती; See. कुल-न्) Cat.

नायिका f. a class of female personifications representing illegitimate sexual love (they are called बलिनी, कामेश्वरी, विमला, अरुणा, मेदिनी, जयिनी, सर्वेश्वरी, कौलेशी) RTL. 188

नायिका f. =next L. =

"https://sa.wiktionary.org/w/index.php?title=नायिका&oldid=500614" इत्यस्माद् प्रतिप्राप्तम्