यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नित्यम्, क्ली, (नियमेन भवम् । नि + “अव्ययात् त्यप् ।” ४ । २ । १०४ । इति त्यप् ।) निरन्तरक्रिया- वचनम् । तत्पर्य्यायः । सततम् २ अनारतम् ३ अश्रान्तम् ४ सन्ततम् ५ अविरतम् ६ अनि- शम् ७ अनवरतम् ८ अजस्रम् ९ । इत्यमरः । १ । १ । ६९ ॥ प्रसक्तम् १० आसक्तम् ११ अल- द्धम् १२ । इति जटाधरः ॥ तद्बति, त्रि । इत्य- मरः ॥ प्रत्यवायजनकीभूताभावप्रतियोगि । यथा एकादश्यामुपोषणं नित्यम् । ध्वंसप्राग- भावाप्रतियोगि । यथा, गगनं नित्यम् । अह- रहर्ज्जायमानम् । यथा, नित्यं क्रीडन्ति कुमाराः । अहरहःक्रियमाणत्वेन विधिबोधि- तम् । यथा, स्नानतर्पणादिकं नित्यम् । अन- वच्छिन्नपरम्पराकः । यथा, वर्णा नित्याः ॥

नित्यः, त्रि, (नियमेन भवः । नि + “अव्ययात् त्यप् ।” ४ । २ । १०४ । इत्यत्र “त्यप् नेर्घ्रुव इति वक्तव्यम् ।” इति वार्त्तिकोक्त्या त्यप् ।) काल- त्रयव्यापी । तत्पर्य्यायः । शाश्वतः २ ध्रुवः ३ सदातनः ४ सनातनः ५ । इत्यमरः । ३ । १ । ७२ ॥ (यथा, महाभारते । १ । १०० । २ । “दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् । नित्यान्यासन् महासत्त्वे शान्तनौ पुरुषर्षभे ॥”) समुद्रे, पुं । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नित्य नपुं।

अविरतम्

समानार्थक:सतत,अनारत,अश्रान्त,सन्तत,अविरत,अनिश,नित्य,अनवरत,अजस्र

1।1।66।1।1

नित्यानवरताजस्रमप्यथातिशयो भरः। अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

नित्य वि।

नित्यम्

समानार्थक:शाश्वत,ध्रुव,नित्य,सदातन,सनातन,निज,सना

3।1।72।2।3

ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ। शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नित्य¦ त्रि॰ नियमेन नियतं वा भवं नि + त्यप्।

१ सततेअमरः। अहरहः क्रियामाणत्वेन

२ विधिबोधिते

३ प्र-त्यवायसाधनाभावप्रतियोगिनि कर्मणि यथा अहरहःसन्ध्यामुपासीतेति अत्र सन्ध्याभावे प्रत्यवायसाधनत्व-बोधः।

४ अविच्छिन्नपरम्पराके च यथा वर्णा नित्याः।

५ उत्पत्तिविनाशरहिते

६ शाश्वते कालत्रयस्थे वस्तुनिच त्रि॰

७ ससुद्रे पु॰ राजनि॰। शास्त्रबोधितसदातन-कर्त्तव्यताकं च नित्यं तद्बोधकं ति॰ त॰ समाहृत्योक्तंयथा
“नित्यं

१ सदा

३ यावदायु

३ र्न कदाचिदति-क्रमेत्

४ । उपेत्यातिक्रमे दोषश्रुतेरत्यागदर्शनात्। फला-श्रुतेर्वीप्सया च तन्नित्यमिह कीर्त्तितम्”। अत्र पूर्वा-र्द्धोक्तार्थकशब्दाः स्वान्वितपदार्थस्य नित्यत्वबोधकाः। उत्तरश्लोकबोध्यार्थास्तु परम्परया नित्यतासमर्पका इतिभेदः
“तस्मादस्मिन् सदायुक्तो नित्यं स्यादात्मवाय् द्विजः”
“विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु” मनुःनित्यत्वञ्च ध्वंसाप्रतियोगित्वे सति प्रागभावाप्रतियोगि-त्वम् तेन उत्पत्तिविनाशशून्यत्वात् कालत्रयस्थत्वं गम्यते।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नित्य¦ mfn. adj. (-त्यः-त्या-त्यं)
1. Eternal, everlasting, continual, perpe- tual, past, present, and future.
2. Regular, fixed, invariable.
3. Ordinary.
4. Necessary. n. adv. (-त्यं) Always, eternally, conti- nually. sub. Indispensable rite or act. m. (-त्यः) The ocean. f. (-त्या)
1. A name of PA4RVATI
4.
2. The goddess MANASA
4.
3. A Sakti4, a form of DURGA4, or personified energy of SIVA. E. नि particle implying perpetually, and त्यप aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नित्य [nitya], a. [नियमेन नियतं वा भवं नि-त्य-प्; cf. P.IV.2.14. Vārt.]

(a.) Continual, perpetual, constant, everlasting, eternal, uninterrupted; यथा त्वमसि दुर्धर्षो धर्मनित्यः प्रजाहितः Rām.7.37.8; यदि नित्यमनित्येन लभ्यते H.1.48; नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः Me. (regarded by Malli. as an interpolation); Ms.2.26. (b) Imperishable, indestructible; पृथिवी द्विविधा नित्या$नित्या च Tarka K.

Invariable, regular, fixed, not optional, regularly prescribed (opp. काम्य).

Necessary, obligatory, essential.

Ordinary, usual (opp. नौमित्तिक).

(At the end of comp.) Constantly dwelling in, perpetually engaged in or busy with; जाह्नवीतीर˚, अरण्य˚, आदान˚, ध्यान˚ &c. -त्यः The ocean.

स्या An epithet of the goddess Durgā.

A plough-share.-त्यम् An indispensable or inevitable act. -त्यम् ind. Daily, constantly, always, ever, perpetually, enternally.-Comp. -अनध्यायः invariable suspension of Vedic studies; नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च Ms.4.17.-अनित्य a. eternal and perishable. -अनुबद्ध a. always approached or resorted to. -अनुवादः a bare statement of fact; स्याज्जुह्वप्रतिषेधान्नित्यानुवादः MS.4.1.45. -अभियुक्तa. One who is completely absorbed in yogic practices.-ऋतु a. regularly recurring at the seasons. -कर्मन् n.,-कृत्यम्, क्रिया any daily and necessary rite, a constant act or duty, as the five daily Yajñas. -कालम्ind. always, at all times; ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् Ms.2.58,73. -गतिः air, wind. -जात a. constantly born; अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् Bg.2.26.-दानम् daily alms-giving. -नियमः an invariable rule.-नैमित्तिकम् an occasional act regularly recurring, or any ceremony constantly performed to accomplish a particular object, e. g. (a पर्वश्राद्ध). -पुष्ट a. always well-supplied.

प्रलयः the constant dissolution of living beings.

sleep. -बुद्धिः a. considering anything as constant or eternal. -भावः eternity. -मुक्तः the Supreme Spirit. -युक्त a. always busy or intent upon.-युज् a. having the mind always fixed upon one object; दृग्भिर्हृदीकृतमलं परिरभ्य सर्वास्तद्भावमापुरपि नित्ययुजां दुरापम् Bhāg.1.82.4. -यौवना (ever youthful) an epithet of Draupadī. -व्रतम् a perpetual observance (lasting for life). -शङ्कित a. perpetually alarmed, ever suspicious. -समः the assertion that all things remain the same; Sarva. S. -समासः 'a necessary compound', a compund the meaning of which cannot be expressed by its constituent members used separately (the separate ideas having merged in one); e. g. जमदग्नि, जयद्रथ &c.; इवेन नित्यसमासः &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नित्य mf( आ)n. (fr. नि; See. नि-ज)innate , native MBh. iii , 13941

नित्य mf( आ)n. one's own ( opp. to अरण) RV.

नित्य mf( आ)n. continual , perpetual , eternal RV. etc.

नित्य mfn. ifc. constantly dwelling or engaged in , intent upon , devoted or used to(See. तपो-न्, धर्म-न्, ध्यान-न्, शस्त्र-न्) Mn. MBh. etc.

नित्य mf( आ)n. ordinary , usual , invariable , fixed , necessary , obligatory ( opp. to काम्य, नैमित्तिकetc. ) Br. S3rS. Mn. etc. (with समासm. a compound the meaning of which is not expressed by its members when not compounded Pa1n2. 2-1 , 3 Sch. ; with स्वरितm. = जात्य, the independent स्वरितTPra1t. ii , 8 )

नित्य m. the sea , ocean L.

नित्य m. N. of दुर्गाBrahmaP.

नित्य m. of a शक्तिTantras.

नित्य m. of the goddess मनसाL.

नित्य n. constant and indispensable rite or act W.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a ब्रह्मवादिन्। M. १४५. १०६.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नित्य न.
(द्वि.व.) (नि+त्यप्) (इष्टकाओं के चयन के समय अनुष्ठित ‘सादन’ एवं ‘सूददोहस्’) के दो अवश्यकरणीय (नित्य) कृत्य, का.श्रौ.सू. 17.1.9 (चयन); आप.श्रौ.सू. 6.4.3.9; गार्हपत्य के बारे में इस अर्थ में कथित कि (‘काम्य’ और) नैमित्तिक कर्मों के विपरीत) इसका अनुरक्षण जीवन भर के लिए होता है, आप.श्रौ.सू. 6.2.12.

"https://sa.wiktionary.org/w/index.php?title=नित्य&oldid=500643" इत्यस्माद् प्रतिप्राप्तम्