सम्स्कृतम्

सम्पाद्यताम्

अवमर्षः,

निन्दयति,

यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्दा, स्त्री, (निन्दनमिति । निदि + “गुरोश्च हलः ।” ३ । ३ । १०३ । इति स्त्रियां अः ।) अपवादः । दुष्कृतिः । इति शब्दरत्नावली ॥ निन्दनम् । तत्पर्य्यायः । अवर्णः २ आक्षेपः ३ निर्व्वादः ४ परीवादः ५ अपवादः ६ उपक्रोशः ७ जुगुप्सा ८ कुत्सा ९ गर्हणम् १० । इत्यमरः ॥ गर्हा ११ कुत्सनम् १२ परिवादः १३ जुगु- प्सनम् १४ अपक्रोशः १५ भर्त्सनम् १६ अव- वादः १७ । इति शब्दरत्नावली ॥ गर्हणा १८ धिक्क्रिया १९ । इति हेमचन्द्रः ॥ (यथा, मनुः । २ । २०० । “गुरोर्यत्र परीवादो निन्दा वापि प्रवर्त्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥”) हरकेशवभक्तादिनिन्दायां दोषो यथा, -- “हरकेशवयोर्भक्तं ये च निन्दन्ति पापिनः । भूदेवान् ब्राह्मणांश्चैव स्वगुरूंश्च पतिव्रताः ॥ यतिभिक्षुकब्रह्मचारिसृष्टिबीजान् सुरांस्तथा । पच्यन्ते कालसूत्रे ते यावच्चन्द्रदिवाकरौ ॥ श्लेष्ममूत्रपुरीषेषु शेरते ते दिवानिशम् । भक्षिताः कीटनिकरैः शब्दं कुर्व्वन्ति कातराः ॥ ये निन्दन्ति च ब्रह्माणं स्रष्टारं जगतां गुरुम् । शिवं सुराणां प्रवरं दुर्गां लक्ष्मीं सरस्वतीम् ॥ सीताञ्च तुलसीं गङ्गां वेदांश्च वेदमातरम् । व्रतं तपस्यां पूजाञ्च मन्त्रं मन्त्रप्रदं गुरुम् ॥ ते पच्यन्तेऽन्धकूपे वै चायुषोऽर्द्धं विधेरहो । भक्षिताः सर्पसंघैश्च शब्दं कुर्व्वन्ति सन्ततम् ॥ यो निन्दन्ति हृषीकेशं देवसाम्यं विधाय च । विष्णुभक्तिप्रदञ्चैव पुराणञ्च श्रुतेः परम् ॥ राधां तदङ्गजा गोपीर्ब्राह्मणांश्च सदाच्चितान् । ते पच्यन्तेऽवटे देव ! विधातुरायुषा समम् ॥ अधोमुखा ऊर्द्ध्वजङ्घा सर्पसंघैश्च वेष्टिताः । भक्षिता विकृताकारैः कीटैः सर्पैः समाहृतैः ॥ अतीवकातरा भीताः शब्दं कुर्व्वन्ति सन्ततम् । श्लेष्ममूत्रपुरीषाणि ध्रुवं भक्षन्ति क्षोभिताः ॥ उल्कां ददति रुष्टाश्च तन्मुखे यमकिङ्कराः । त्रिसन्ध्यं तर्जनं कृत्वा कुर्व्वन्ति दण्डताडनम् ॥ कुर्व्वन्ति मूत्रपानञ्च प्रहारैस्तृषिता भिया । तदा कल्पान्तरे स्रष्टुं सृष्टेश्च प्रथमे पुनः ॥ तेषां भवेत् प्रतीकार इत्याह कमलोद्भवः । परनिन्दा विनाशाय स्वनिन्दा यशसे परम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ४० । ४१ अः ॥ “वेदनिन्दारतान् मर्त्यान् देवनिन्दारतांस्तथा । द्विजनिन्दारतांश्चैव मनसापि न चिन्तयेत् ॥ न चात्मानं प्रशंसेद्बा परनिन्दाञ्च वर्ज्जयेत् । वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्ज्जयेत् ॥ यस्तु देवानृषींश्चैव वेदं या निन्दति द्विजः । न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः ! ॥ निन्दयेद्वै गुरुं देवं वेदं वा सोपबृंहणम् । कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ॥ तूष्णीमासीत निन्दायां न ब्रूयात् किञ्चिदुत्तरम् । कर्णौ पिधाय गन्तव्यं न चैनानवलोकयेत् ॥ वर्ज्जयेद्वै परेषान्तु गृहेषु गर्हणां बुधः । न निन्देद्योगिनः सिद्धान् व्रतिनो वा यतीं- स्तथा ॥ देवतायतनं प्राज्ञो देवानामाकृतिन्तथा ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्दा स्त्री।

जुगुप्सा

समानार्थक:अवर्ण,आक्षेप,निर्वाद,परीवाद,अपवाद,उपक्रोश,जुगुप्सा,कुत्सा,निन्दा,गर्हण,घृणा,कु

1।6।13।2।4

अवर्णाक्षेपनिर्वादपरीवादापवादवत्. उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्दा¦ स्त्री निन्दि--भावे अ। अविद्यमानदोषाभिधाने

१ गर्हणे
“वेदनिन्दारतान् मर्त्यान् देवनिन्दारतांस्तथा। द्विज-निन्दारतांश्चैव मनसापि न चिन्तयेत्। न चात्मानंप्रशंसेद्वा परनिन्दाश्च वर्जयेत्। वेदनिन्दां देवनिन्दांप्रयत्नेन विवर्जयेत्” कौर्म पु॰

१५ अ॰।

२ अनिष्टसाघनत्वबो-धनद्वारा विध्यर्थप्रशंसावचने च
“न हि निन्दा निन्द्यंनिन्दितुं प्रवर्त्तते अपि तु विधेयं स्तोतुम्” न्याय॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्दा¦ f. (-न्दा)
1. Censure, reproach, reproof, blame, abuse, reviling, defamation.
2. Injury, injuring.
3. Wickedness. E. णिद् to abuse, &c. affixes अङ् and टाप् or निन्दि भावे अ |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्दा f. blame , censure , reproach , reviling , defamation , controversy , injury , outrage. AV. Mn. MBh. etc.

निन्दा f. (with Buddh. )one of the eight worldly conditions Dharmas. lxi

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the ten लक्षणस् of a ब्राह्मण. वा. ५९. १३४. [page२-240+ ३४]

"https://sa.wiktionary.org/w/index.php?title=निन्दा&oldid=500650" इत्यस्माद् प्रतिप्राप्तम्