निष्क्रमण
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निष्क्रमणम्, क्ली, (निस् + क्रम + भावे ल्युट् ।) दशसंस्कारान्तर्गतसंस्कारविशेषः । तदनुष्ठानं यथा, जाते कुमारे जन्मवासराद्यस्तृतीयः शुक्लपक्षस्तस्य तृतीयायां तिथौ प्रातः कुमारं स्नापयित्वा सायं सन्ध्यायामतीतायां चन्द्राभि- मुखः कृताञ्जलिः पिता तिष्ठेत् । अथ माता शुचिना वस्त्रेण कुमारमाच्छाद्य दक्षिणस्यां दिशि भर्त्तुर्वामपार्श्वे पश्चिमाभिमुखीभूय उत्तर- शिरसं कुमारं पित्रे समर्पयति । ततो माता भर्त्तुः पृष्ठदेशेन उत्तरस्यां दिशि गत्वा चन्द्रा- भिमुखीभूय भर्त्तुर्दक्षिणपार्श्वे तिष्ठति । अथ पिता जपति प्रजापतिरृषिरनुष्टुप् छन्दश्चन्द्रो देवता कुमारस्य चन्द्रदर्शने विनियोगः । ओ~ यत्ते सुषीमे हृदयं हितमन्तः प्रजापतौ वेदाहं मन्ये तद्ब्रह्ममाहं पौत्त्रमघं निगाम् । ततः प्रजापतिरृषिरनुष्टुप् छन्दश्चन्द्रो देवता कुमा- रस्य चन्द्रदर्शने विनियोगः । ओ~ यत् पृथिव्या अनामृतं दिवि चन्द्रमसि श्रितं वेदमृतस्याहं नाममाहं पोत्त्रमघं ऋषम् । ततः प्रजापति- रृषिरनुष्टुप्छन्द इन्द्राग्नी देवते कुमारस्य चन्द्रदर्शने विनियोगः । ओ~ इन्द्राग्नी शर्म्म यच्छतं प्रजायै मे प्रजापती यथायं न प्रमीयेत पुत्त्रो अनित्र्या अधि । इति मन्त्रत्रयं जप्त्वा कुमारं चन्द्रं दर्शयति । पिता चन्द्राय अर्घ्यं ददाति च । ततः पिता तथाभूतमेव कुमार- मुत्तरशिरसं मात्रे दत्त्वा वामदेव्यगानान्तं कर्म्म कृत्वाच्छिद्रमवधार्य्य गृहं प्रविशेदिति । अत ऊर्द्धमपरशुक्लपक्षत्रयेऽपि तृतीयायां तिथौ सायंसन्ध्यामतिक्रम्य चन्द्राभिमुखः पिता जला- ञ्जलिं गृहीत्वा प्रजापतिरृषिरनुष्टुप्छन्दश्चन्द्रो देवता कुमारस्य चन्द्रदर्शने विनियोगः । ओ~ यददश्चन्द्रमसि कृष्णं पृथिव्या हृदयं श्रितं तदहं विद्बांस्तत् पश्यन्माहं पौत्त्रमघं रुदमिति पठित्वा जलाञ्जलिं त्यजेत् । वारद्वयं तूष्णीम् । ततो वामदेव्यं गीत्वाच्छिद्रमवधार्य्य गृहं प्रविशे- दिति । एतच्च निष्क्रमणकर्म्माङ्गभूतमुदीच्यं कर्म्म पत्नी पुत्त्रोपादानविरहात् प्रवासिनापि कर्त्तव्य- मेव । इति निष्क्रमणम् ॥ इति भवदेवभट्टः ॥ * ॥ तत्र विहितदिनं यथा । रिक्तातिरिक्तास्तिथयः । शनिमङ्गलवासरेतरे वाराः । आर्द्राश्लेष्मा- कृत्तिकाभरणीमघाविशाखापूर्ब्बफल्गुनीपूर्ब्बा- षाढापूर्ब्बभाद्रपत्शतभिषाभिन्नानि नक्षत्राणि । कन्यातुलाकुम्भसिंहसंज्ञकानि लग्नानि । बाल- कस्य चतुर्थे मासि तृतीये वा चन्द्रादिशोभने कर्त्तव्यम् । इति ज्योतिषम् ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निष्क्रमण¦ न॰ निर् + क्रम--ल्युट्।
१ गृहादितो बहिर्गमनेचतुर्थे मासि शिशोः कर्त्तव्ये प्रथमनिष्क्रमनिमित्ते
२ संस्कारभेदे च। तन्मुहूर्त्तादिकं मुहू॰ पी॰ उक्तं यथा
“दोलाधिरूढिरथ निष्क्रमणं चतुर्थमासे गमोक्तसम-येऽर्कमितेऽह्नि वा स्यात्” सू॰
“अथ निष्क्रमणमुहूर्त्तःतत्र चतुर्थमासे गमोक्तसमये यात्राभिहितसमीचीनति-थिवारनक्षत्रादिसहिते काले शिशूनां निष्क्रमणम्। निष्क्रमाख्यसंस्कारपूर्वं गृहाद्बहिर्गमनं कुर्य्यात्। वाअथवाऽर्कमितेऽह्नि द्वादशे दिवसे निष्क्रमणं कुर्य्यात्। यदाह मनुः
“चतुर्थे मासि कर्त्तव्यं शिशोर्निष्क्रमणंगृहात्”। गुरुरपि
“गृहात् निष्क्रमणं सूतेश्चतुर्थेमासि कारयेत्। यात्रोक्ते समये मासि तृतीये द्वाद-शेऽहनि” अत्र तृतीयमासोऽप्युक्तः। राजमार्त्तण्डे-[Page4118-b+ 38] नापि
“मासे तृतीये शशिवृद्धिपक्षे क्षपाकरे शोभनगोचरस्थे। उत्पातपापग्रहवर्जिते भे निष्कासनं सौख्य-करं शिशूनाम्”। तदेतयोः पक्षयोर्यथागृह्यं व्यवस्था। मुहूर्त्तसंग्रहे तु निष्क्रमणे विशिष्य तिथ्याद्युक्तं यथा
“पूर्वः पक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकं विना। रिक्ता-षष्ठ्यष्टमीदर्शद्वादशीश्च विवर्जयेत्। चत्वार्यार्यम्णतस्त्रीणिवैश्वात् त्रीणि च बुध्न्यभात्”। बुध्न्यभादुत्तराभाद्रपदा-तस्त्रीणि भानि।
“मैत्रमादित्यपुष्यौ च रोहिणी चशुभावहाः। झषालिमेषा वर्ज्याः स्युस्तथैवाधोमुखानिच। सतां तु वारवर्गाश्च शुभदास्तूदयास्तथा। केन्द्रत्रिकोणगाः सौम्याः पापाः षष्ठत्रिलाभगाः। उपनिष्क्रसणे शस्ता मातुलो वाहयेच्छिशुमिति”। अधोमुखानि मूलाहिमिश्रोग्रमधोमुखं भवेदित्युक्तानि। उदयाः लग्नानि। एवंविधे सुलग्ने क्रियमाणस्य शिशु-निष्क्रमण फलमाह वृहस्पतिः।
“अथ निष्क्रमण्णं नामगृहात् प्रथमनिर्गमः। अकृतायां क्रियायां स्यादायुः-श्रीनाशनं शिशोः”। कृते संपद्विवृद्धिः स्यादायुर्वर्द्धनमेवचेति” अत्र विशेषमाह यमः
“तृतीये मासि कर्त्तव्यंशिशोः सूर्यस्य दर्शनम्। चतुर्थे मासि कर्त्तव्यमग्नेश्च-न्द्रस्य दर्शनम्” इति। वेदभेदेन व्यवस्था ज्यो॰ त॰ दर्शितायथा
“चतुर्थमासीति ऋग्वेदियजुर्वेदिनोः। यथाहविष्णुः
“चतुर्थमास्यादित्यदर्शनमिति”। शौनकोऽपि
“चतुर्थे मासि पुण्यर्क्षे शुक्ले निष्क्रमणं शिशोः” पार-स्करः
“चतुर्थे मासि नष्क्रमणिक्यं सूर्यमुदीक्षयतितच्चक्षुरितीति” मासे तृतीय इति तु छन्दोगानां गोभि-लेन जननान्तरं तृतीयशुक्लपक्षतृतीयायां चन्द्रदर्शनरूप-निष्क्रामणविधानात् यथा गोभिलः
“जननाद्यस्तृतीयो-ज्यौत्स्नस्तत्तृतीयायामित्यादि”। ज्यौत्स्नः शुक्लपक्षः। अत्रैव कृत्यचिन्तामणिः
“तस्मात् स्वस्वविधानतोऽर्क-शशिनोरर्घ्यं शिशुं दापयेत्”। ततः तारका॰ संजा-तार्थे इतच्। निष्क्रमणित संजातनिष्क्रमणे त्रि॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निष्क्रमण¦ n. (-णं)
1. Going forth or out.
2. Taking a child for the first time out of the house, in the fourth month, considered as an essential ceremony, and accompanied by sacrifice, &c. E. निर् forth, क्रम to go, ल्युट् aff.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निष्क्रमणम् [niṣkramaṇam], 1 Going forth or out.
= निष्क्रम (3) above; चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् Ms.2.34.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निष्क्रमण/ निष्- n. going forth or out , departing Ka1tyS3r. R. Pan5c.
निष्क्रमण/ निष्- n. taking a child for the first time out of the house in the fourth month after birth to see the sun Mn. ii , 34 RTL. 253 ; 258
निष्क्रमण/ निष्- f( आ, इका). (also णिकाPa1rGr2. )ceasing , disappearing Cat.