यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पावः, पुं, (निष्पूयते तुषाद्यपनयनेन शोध्यते इति । निर् + पू + णिच् + घञ् ।) धान्यादीनां निस्तुषीकरणम् । बहुलीकरणम् । तत्पर्य्यायः । पवनम् २ पवः ३ । इत्यमरः । ३ । २ । २४ ॥ पूतीकरणम् ४ । यथा, -- “धान्यादिनिस्तुषीकार्य्यबहुलीकरणादिषु । तथा च पूतीकरणे निष्पावः पवनं पवः ॥” इति शब्दरत्नावली ॥ राजशिम्बीबीजम् । भटवासु इति भृष्टवांसु इति वा हिन्दीभाषा ॥ तत्पर्य्यायगुणाः । “निष्पावो राजशिम्बी स्याद्बल्लकः श्वेतशिम्बिकः । निष्पावो मधुरो रूक्षो विपाकेऽम्लो गुरुः सरः ॥ कषायस्तन्यपित्तास्रमूतवातविबन्धकृत् । विदाह्युष्मो विषश्लेष्मशोथहृच्छुक्रनाशनः ॥” इति भावप्रकाशः ॥ (निष्पूयतेऽनेनेति । करणे घञ् ।) सूर्पवायुः । राजमाषः । (यथा, मार्कण्डेयपुराणे । १५ । २४ । “मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलिकः । चोरयित्वा तु निष्पावान् जायते गृहगोलकः ॥”) कडङ्गरः । समीरणः । शिम्बिका । निर्व्विकल्पे, त्रि । इति मेदिनी । वे, ३८ ॥ श्वेतशिम्बी । इति रत्नमाला ॥ (यथा, -- “क्षारातितीक्ष्णोष्णविदाहितैल- निष्पावपिण्याककुलत्थयूषैः ॥” इति माधवकृतरुग्विनिश्चये शूलाधिकारे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पाव पुं।

धान्यादीनाम्_बहुलीकरणम्

समानार्थक:निष्पाव,पवन,पव

3।2।24।1।4

लवोऽभिलावो लवने निष्पावः पवने पवः। प्रस्तावः स्यादवसरस्त्रसरः सूत्रवेष्टनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पाव¦ पु॰ निष्पूयते तुषाद्यपनयनेन शोध्यतेऽनेन निर् +पू--करणे घञ् षत्वम्।

१ सूर्पादिवायौ तेन हि खलस्थ-धान्यादिकं कडङ्गरादिशून्यं करोति। कर्मणि घञ्।

२ कडङ्गरे (आगडा)

३ राजमाषे (वरवटी)

४ श्वेतशि-म्बीधान्ये

५ निर्विकल्पे त्रि॰ मेदि॰। भावे घञ्।

६ धान्यादीनां वितुषीकरणे अमरः।
“चौरयित्वा तुनिष्पावान् जायते गृहगोलकः” मार्क॰ पु॰

१५ अ॰संज्ञायां कन्। श्वेतशिम्ब्यां राजनि॰
“निष्पावो मधुरोरूक्षो बिपाकेऽम्लो गुरुः सरः। कषायस्त्वल्यपित्ता-अमूत्रवातविबन्धकृत्। विदाह्युष्मविषश्लेष्मशोधहृत् शत्रु-गाशनः” भावप्र॰। ततः सिष्मा॰ अस्त्यर्थे लच्। निष्पावल वितुषीकरणयुक्ते धान्यादौ त्रि॰ गौरा॰ङीष्। निष्पावी शिम्बीभेदे स्त्री राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पाव¦ mfn. (-वः-वा-वं) Certain, indubitable. m. (-वः)
1. Winnowing, cleaning corn, &c.
2. Wind, air.
3. The wind of the winnowing sieve or basket.
4. Straw, chaff.
5. A legume, a pod.
6. A sort of pulse, (Phaseolus radiatus.) E. निर् before, पू to purify, aff. करणे घञ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पाव [niṣpāva], a. Certain.

वः Winnowing, cleaning corn &c.

The wind caused by the winnowing sieve or basket.

Wind.

A legume, pod.

A kind of pulse.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पाव/ निष्- m. id. L.

निष्पाव/ निष्- m. the wind caused by the winnowing sieve L.

निष्पाव/ निष्- m. Dolichos Sinensis or a similar species Bhpr.

निष्पाव/ निष्- m. straw , chaff L.

निष्पाव/ निष्- mfn. = निर्-विकल्पL.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the eight सौभाग्यम्स्। M. ६०. 8, २७.

"https://sa.wiktionary.org/w/index.php?title=निष्पाव&oldid=431946" इत्यस्माद् प्रतिप्राप्तम्