नृत्यम्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नृत्यम्, क्ली, (नृत् + “ऋदुपधाच्चाकॢपिचृतेः ।” २ । १ । ११० । इति क्यप् ।) तालमानरसा- श्रयसविलासाङ्गविक्षेपः । नाच इति भाषा । तत्पर्य्यायः । ताण्डवम् २ नटनम् ३ नाट्यम् ४ लास्यम् ५ नर्त्तनम् ६ । इत्यमरः । ४ । ७ । १० ॥ नृत्तम् ७ । उद्धृतं नृत्यं ताण्डवम् । सुकुमारन्तु लास्यम् । भावाश्रयं नृत्तम् । ताललयाश्रयं नृत्यमिति भेदोऽत्र नादृतः । इति भरतः ॥ नाटः ८ लासः ९ लास्यकम् १० नृतिः ११ इति शब्दरत्नावली ॥ * ॥ तस्य लक्षणादि यथा, -- “देवरुच्या प्रतीतो यस्तालमानरसाश्रयः । सविलासोऽङ्गविक्षेपो नृत्यमित्युच्यते बुधैः ॥ * ॥ ताण्डवञ्च तथा लास्यं द्बिविधं नृत्यमुच्यते । पेवलिर्बहुरूपञ्च ताण्डवं द्बिविधं मतम् ॥ अङ्गविक्षेपबाहुल्यं तथाभिनयशून्यता । यत्र सा पेवलिस्तस्याः सङ्गादेशीति लोकतः ॥ छेदनं भेदनं यत्र बहुरूपा मुखावली । ताण्डव बहुरूपन्तद्बारुणागलमुद्बतम् ॥ * ॥ छरितं यौवतञ्चेति लास्यं द्विविधमुच्यते । यत्राभिनयाद्यैर्भावै रसैराश्लेषचुम्बनैः ॥ नायिकानायकौ रङ्ग नृत्यतश्छुरितं हि तत् ॥ मधुरं बद्धलीलाभिर्नटीभिर्यत्र नृत्यते । वशीकरणविद्याभं तल्लास्यं यौवतं मतम् ॥ * ॥ गेयादुत्तिष्ठते वाद्यं वाद्यादुत्तिष्ठते लयः । लयतालसमारब्धं ततो नृत्यं प्रवर्त्तते ॥” इति सङ्गीतदामोदरः ॥ अरूपस्य नृत्यं व्यर्थम् । यथा, -- “नृत्येनालमरूपेण सिद्धिर्नाट्यस्य रूपतः । चार्व्वधिष्ठानवन्नृत्यं नृत्यमन्यद्विडम्बना ॥” इति मार्कण्डेयपुराणम् ॥ विष्णुगृहे नृत्यफलं यथा, -- “नृत्यमानस्य वक्ष्यामि तच्छृणुष्व वसुन्धरे ! । मनुजा येन गच्छन्ति छित्वा संसारसागरम् ॥ त्रिंशद्वर्षसहस्राणि त्रिंशद्बर्षशतानि च । पुष्करद्वीपमासाद्य मोदते वै यदृच्छया ॥ पुष्कराच्च परिभ्रष्टः स्वच्छन्दगमनालयः । फलं प्राप्नोति सुश्रोणि ! मम कर्म्मपरायणः ॥ रूपवान् गुणवान् शूरः शीलवान् सुपथे स्थितः । मद्भक्तश्चैव जायेत संसारपरिमोचितः ॥” इति वाराहे शौकरमाहात्म्यम् ॥ “दृष्ट्वा संपूजितं देवं नृत्यमानोऽनुमोदयेत् । असंशयमतिः शुद्धः परं ब्रह्म स गच्छति ॥” इत्यग्निपुराणम् ॥ अपि च । द्बारकामाहात्म्ये श्रीभागवते । “यो नृत्यति प्रहृष्टात्मा भावैर्बहुसुभक्तितः । स निर्द्दहति पापानि जन्मान्तरशतेष्वपि ॥” हरिभक्तिसुधोदये । “बहुधोत्सार्य्यते हर्षाद्विष्णुभक्तस्य नृत्यतः । पद्भ्यां भूमेर्दिशोऽक्षिभ्यां दोर्भ्याञ्चामङ्गलं दिवः ॥” विष्णुधर्म्मोत्तरे । “नृत्यं दत्त्वा तथाप्नोति रुद्रलोकमसंशयम् । स्वयं नृत्येन संपूज्य तस्यैवानुत्तरो भवेत् ॥” अन्यत्र च नारदोक्तौ । “नृत्यतां श्रीपतेरग्रे तालिकावादनैर्भृशम् । उड्डीयन्ते शरीरस्थाः सर्व्वे पातकपक्षिणः ॥” इति हरिभक्तिविलासः ॥