यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौका, स्त्री, (नौरेव । नौ + स्वार्थे कन् ।) नद्यादि- सन्तरणार्थकाष्ठादिनिर्म्मितयानविशेषः । वारि- रथः । इति त्रिकाण्डशेषः ॥ तत्पर्य्यायः । नौः २ तरिका ३ तरणिः ४ तरणी ५ तरिः ६ तरी ७ तरण्डी ८ तरण्डः ९ पादालिन्दा १० उत्प्लवा ११ होडः १२ वाधूः १२ वार्व्वटः १४ वहित्रम् १५ पोतः १६ । इति शब्दरत्नावली ॥ वहनम् १७ । इति जटाधरः ॥ * ॥ अथ निष्पदयानोद्देशः । “नौकाद्यं निष्पदं यानं तस्य लक्षणमुच्यते । अश्वादिकन्तु यद्यानं स्थले सर्व्वं प्रतिष्ठितम् ॥ जले नौकैव यानं स्यादतस्तां यत्नतो वहेत् ॥” अथ कालः । “सुवारवेलातिथिचन्द्रयोगे चरे विलग्ने मकरादिषट्के । ऋक्षेऽन्त्यसप्तष्वतिरेकतोऽन्ये व्रदन्ति नौकाघटनादि कर्म्म ॥ * ॥ अश्विखरांशुसुधानिधिपूर्ब्बा- मित्रघनाच्युतभे शुभलग्ने । तारकयोगतिथीन्दुविशुद्धौ नौगमनं शुभदं शुभवारे ॥” * ॥ “वृक्षायुर्व्वेदगदिता वृक्षजातिश्चतुर्व्विधा । समासेनैव गदितं तेषां काष्ठं चतुर्व्विघम् ॥” तद्यथा, -- “लघु यत् कोमलं काष्ठं सुघटं ब्रह्मजाति तत् । दृढाङ्गं लधु यत् काष्ठमघटं क्षत्त्रजाति तत् ॥ कोमलं गुरु यत् काष्ठं वैश्यजाति तदुच्यते । दृढाङ्गं गुरु यत् काष्ठं शूद्रजाति तदुच्यते ॥ लक्षणद्बययोगेन द्विजातिः काष्ठसंग्रहः ॥ क्षत्त्रियकाष्ठैर्घटिता भोजमते सुखसम्पदं नौका अन्ये लघुभिः सुदृढैर्व्विदधति जलदुष्पदे नौकाम् ॥ विभिन्नजातिद्वयकाष्ठजाता न श्रेयसे नापि सुखाय नौका । नैषा चिरं तिष्ठति पच्यते च विभिद्यते वारिणि मज्जते च ॥ न सिन्धुगाद्यार्हति लौहबन्धं तल्लोहकान्तैर्ह्रियते हि लौहम् । विपद्यते तेन जलेषु नौका गुणेन बन्धं निजगाद भोजः ॥” अथ लक्षणानि । “सामान्यञ्च विशेषश्च नौकाया लक्षणद्वयम् ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौका¦ स्त्री नौ + स्वार्थे॰ क। नौशब्दार्थे अमरः निष्पदशब्दे

४१

२० पृ॰ तल्लक्षणादि दृश्यम्।
“क्षणमिह सज्जनसङ्ग-तिरेका भवति भवार्णवतरणे नौका” मोहमुद्गरः चतुरङ्गक्रीडाङ्गे पदार्थभेदे स्त्री तस्यास्तदाकारत्वात् तथात्वम्। चतुरङ्गशब्दे

२८

६३ पृ॰ दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौका¦ f. (-का) A boat. E. कन् added to the preceding.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौका [naukā], A small boat, a boat in general; क्षणमिह सज्जन- संगतिरेका भवति भवार्णवतरणे नौका Moha M.6. -Comp. -दण्डः an oar.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौका f. a small boat or ship MBh. R. etc.

नौका f. the rook or castle (in the game चतुर्-अङ्ग) L.

नौका f. N. of sev. Comms.

"https://sa.wiktionary.org/w/index.php?title=नौका&oldid=500734" इत्यस्माद् प्रतिप्राप्तम्