यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कजम्, क्ली, (पङ्के पङ्कात् वा जायते इति । पङ्क + जन + कर्त्तरि + डः ।) पद्मम् । इति राज- निर्घण्टः ॥ (यथा रघुः । ३ । ८ । “तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोषयोः श्रियम्” ॥ अयं हि योगरूढशब्दः । यदुक्तम् । “रूढा गष्मदयः प्रोक्ता यौगिकाः पाचकादयः । योगरूढाश्च विज्ञेयाः पङ्कजाद्या मनीषिभिः” ॥)

"https://sa.wiktionary.org/w/index.php?title=पङ्कजम्&oldid=145926" इत्यस्माद् प्रतिप्राप्तम्