यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतितः, त्रि, (पतति भ्रष्टो भवति स्वधर्म्मात् शास्त्र- विहितकर्म्मणः सदाचारादिभ्यो वा यः । पत् + कर्त्तरि क्तः चलितः । गलितः । पतनाश्रयः । पडा इति भाषा । तत्पर्य्यायः । प्रस्कन्नः २ । इति हेमचन्द्रः ॥ पातित्यविशिष्टः । स्वधर्म्मच्युतः । तस्य लक्षणं यथा, मार्कण्डेयपुराणे । “स्वधर्म्मं यः समुच्छिद्य परधर्म्मं समाश्रयेत् । अनापदि स विद्बद्भिः पतितः परिकीर्त्तितः ॥” कृतेन प्रायश्चित्तेन पितुः पापनाशे मानाभावः । आत्मघाते तु वचनादस्तु । महापातके तु कथं स्यादिति । स स्वयमेव आत्मवधप्रायश्चित्तस्य जातिवधनिमित्तेन समुच्चयं वदन् हृदयशून्य एव । नहि जातिवधनिमित्तं पुत्त्रैः कार्य्यमिति वचनमस्ति पुत्त्रकर्त्तृकसर्व्वप्रायश्चित्तादिविप्लवा- पत्तेः । प्रागुक्तवौधायनवचनाच्चेति दिक् । इदं प्रायश्चित्तार्हाणामेव । प्रायश्चित्तानर्हाणान्तु पति- तौदकमात्रं कार्य्यमिति केचित् । मदनपारि- जातादिस्वरसोऽप्येवम् । वस्तुतस्तु तदर्हानर्हयो- र्व्वचनेऽनुपांदानात् अविशेषात् तत्रापि नारा- यणवलिर्गयाश्राद्धञ्चेति युक्तम् ॥ * ॥ पतितोदक- विधिस्तु मित्राद्यतिरिक्तविषय इत्यपरे । स यथा । हेमाद्रौ ब्राह्मे । “पतितस्य तु कारुण्यात् यस्तृप्तिं कर्त्तुमिच्छति । स हि दासीं समाहूय सर्व्वगां दत्तवेतनाम् ॥ अशुद्धघटहस्तान्तां यथावृत्तं ब्रवीत्यपि । हे दासि ! गच्छ मूल्येन तिलानानय सत्वरम् ॥ तोयपूर्णं घटञ्चेमं सतिलं दक्षिणामुखी । उपविष्टा तु वामेन चरणेन ततः क्षिप ॥ कीर्त्तयेः पातकिसंज्ञां त्वं पिबेति मुहुर्व्वद । निशम्य तस्य वाक्यं सा लब्धमूल्या करोति तत् ॥ एवं कृते भवेत्तृप्तिः पतितानां न चान्यथा ॥” इति । इदञ्च मृताहे कार्य्यम् । पतितस्य दासी मृताह्नि पदा घटमपवर्जयेदेतावतायमुपचरितो भव- तीति मदनरत्ने विष्णूक्तेः । इदञ्चात्मत्यागि- विषयम् । आत्मत्थागिनः पतितास्तेनाशौचोदक- भाजः स्युरित्युपक्रम्य विष्णुना एतस्याभिधाना- दिति गौडाः । उपलक्षणत्वात् सर्व्वेषामिति तु युक्तम् । इति निर्णयसिन्धौ ५ परिच्छेदः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतित¦ त्रि॰ पत--गत्यर्थत्वात् कर्त्तरि क्त सनि वेट्कत्वे-ऽपि पतेः पृथग्ग्रहणात् इट् प्रतधातौ पित्सती-त्येकरूपलिखनं प्रमादात् पणे पिपतिषतीति रूपा-न्तरं भवतीति बोध्यम्।

१ पतनकर्त्तरि

२ नरकगमन-सूचककर्मविशेषकारके स च कर्मविशेषः पतितलक्ष-णविघया प्रा॰ वि॰ निर्णीतो यथागोतमः
“व्रह्महा सुरापः गुरुतल्पगः मातृपितृयोनि-सम्बद्धागस्तेननास्तिकनिन्दितकर्माभ्यासी पतितात्याम्य-पतितत्यागिनश्च पतिताः पातकसंयोजकाश्च तैश्चाव्दंसमाचरन्निति”। पातकसंयोजकाः सुरापानादौ परान्प्तयोजयन्ति। इत्युपक्रमे सामान्यशक्तस्यापि विशेषशक्तिर्भ्रविष्यति मृपादिपदस्येव पशौ, हारीतेन विशेषगणनेपाठात्। तथा च्यवनः
“अथ पातकोपपातकमहापा-तकानि व्याख्यास्यामः इति। तथा च पठन्ति
“महापा-तकतुल्यानि पापान्युक्तानि यानि च। तानि पातक-संज्ञानि तदूनमुपपातकम्”। अतो महापातकतुल्यपाप-विशेषेऽप्यस्य शक्तिः। पतनशब्दार्थमाह गोतमः
“द्वि-जातिकर्मभ्यो हानिः पतनं परत्र चासिद्धिस्तमेके नर-[Page4217-a+ 38] कम्”। द्विजातिकर्म श्रौतमग्निहोत्रादि स्मार्त्तमष्टकादिप्रायश्चित्ततदङ्गजपादिव्यतिरिक्तं तेभ्यो हानिरनधि-कारः इति द्विजातिग्रहणं प्राधान्यार्थं शूद्रस्यापिवाक्यान्तरेण पातित्याभिधानात्। इह लोके तावत्पातित्यलक्षणमनिष्टं परलोके चासिद्धिः पातककर्म-पतिबन्धात् उपात्तसुकृतफलानिष्पत्तिः नरकं वासूतकादिव्यावृत्त्यर्थमिदम्। द्विजातिकर्मानधिकारश्च म-हापातके श्रूयते यथा देवलः
“पञ्चैतानि महापात-कानि कृत्वा ब्राह्मणः सद्भिर्नानुभाष्यो नानुग्राह्योऽ-भिशस्तः सर्वकर्मवर्जितः पतिततमो भवति”। महा-पाबक्यधिकारे मनुः
“असम्भाष्याह्यसंभोज्या अवि-वाह्या ह्यपाठिनः। धरेयुः पृथिवीं दीनाः सर्वधर्म-वहिष्कृताः”। अतो महापातकेषु द्विजातिकर्मान-धिकारः तद्विहितद्वादशवार्षिकप्रायश्चित्तापनेयत्वादति-पातकानुषातकयीरपि। अतो द्वादशवार्षिकप्रायश्चित्ता-पनेयार्हं ग्रापं पतनम्। अर्हता च सामान्यबोधितत्वंतच्च स्त्रीत्वा दिनाऽसम्पूर्णानुष्ठानेऽप्यस्त्येव कृष्णलेइवावघातस्य। अथ वा द्विजातिकर्मानधिकारापादकंपाग्रं पतनम् अनधिकारश्च महापातके श्रुतएव अनुपा-तकेऽपि तत्समत्वात् उपपातकादौ च क्वचित् पततीतिश्रुतेः अतिपातके ततो गुरुत्वात् लभ्यते। यद्वा महापा-तकानपकृष्टं पापं पतनम् अनुपातकस्य तत्समत्वात्उपपातकादेः कचित् पततीत्यभिधानात् अनपकर्षएव,अस्वजनब्राह्मणीगमने पतनपाताद्युत्पत्तिश्रवणादनप-कर्षएव। अतएव
“सद्यः पतति मांसेनेति” शूद्रावेदीपतत्यत्रे” रित्यादिमनुवचनं निन्दार्थम्।

३ स्वधर्मच्युते
“स्वधर्मं यः परित्यज्य परधर्मं समाश्रयेत्। अनापदि स विद्वद्भिः पतितः परिकीर्त्तितः” मार्क॰ पु॰चाण्डालान्त्यादिस्त्रीगमनादिकमभ्यासकृतं पातित्य-कारणम्
“चाण्डालान्त्यस्त्रियो गत्वा भक्त्वा च प्रतिगृह्यच। पतत्यज्ञानतो विंप्रो ज्ञानात्साम्यं तु गच्छति” मत्स्यपु॰। अन्यान्यपि कतिचित् कर्माणि पतितानामिवदाहनिषेधप्रयीजकान्युक्तानि शु॰ त॰ ब्रह्मपु॰
“गरा-ग्निविषदात्तैव पाषण्डाः क्रूरबुद्धयः। क्रोधात् प्रायंविषं वह्निं शस्त्रमुद्बन्धनं जलम्। गिरिवृक्षप्रपातञ्च ये कुर्वन्ति नराधमाः कुशिल्पजीविनश्चैवसूनालङ्कारकारिणः” तथा
“ब्रह्मदण्डहता ये च ये चवै ब्राह्मणैर्हताः। महापातकिनो ये च पतितास्ते प्रकी[Page4217-b+ 38] र्त्तिताः। पतितानां न दाहः। स्यान्नान्त्येष्टिर्नास्थिस॰ञ्चयः। न चाश्रुपातः पिण्डो वा कार्य्यं श्राद्धादिकंन्नचित्” शु॰ त॰ ब्रह्मपु॰। तेषां संसर्गनिषेधो यथा
“आसनाच्छशयनाच्चैकभोजनात् कथनादिषु। संवत्सरेणपतति पतितेन सहाचरन्” वराहपु॰
“पतितैः संप्र-युक्तानामिमां शृणुत निष्कृतिम्। संवत्सरेण पततिपतितेन सहाचरन्। याजनाध्यापनाद्यौनाद्यानपानाशनासनात। यो येन पतितेनैव संसर्गं यातिमानवः। स तस्यैव व्रतं कुर्य्यात् संसर्गस्य विशु{??}ये” तत्र पादोनं प्रायश्चित्तमिति तत्र स्थितम्।
“पतितस्योदकंकार्य्यं सपिण्डैर्ब्राह्मणैः सह। निन्दितेऽहनि सायाह्नेज्ञातिभिर्गुरुसन्निधौ। दासी घटमपां पूर्णं पर्य्यस्येत्प्रेतवत् सदा। अहोरात्रमुपासीनं नाशौचं ब्राह्मणैःसह। निवर्त्तयेरंस्तस्मात्तु सम्भाषणसहासनम्” मात्स्ये

२०

१ अ॰।
“पतिता गुरवस्ताज्या न तु माता कदाचन। गर्भधारणपोषाभ्यां तेन माता गरीयसी” मत्स्यपु॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतित¦ mfn. (-तः-ता-तं)
1. Fallen, alighted.
2. Fallen from virtue, wicked, abandoned.
3. Fallen in war, defeated, overthrown.
4. Degraded, outcaste.
5. Gone. E. पत् to go, aff. कर्त्तरि क्त।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतित [patita], p. p.

Fallen, descended, alighted.

Dropped.

Fallen (in a moral sense), abandoned, wicked; नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ।

Apostate.

Degraded, outcast.

Fallen in battle, defeated or overthrown.

Being in, fallen into; as in अवंशपतित.

Placed, kept; निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्वदेवताम् Pt. I.14.

(with पादयोः or पाद-) Having thrown oneself at (a person's feet). -तम् Flying. -Comp. -उत्पन्न a. sprung from an outcast. -गर्भा a woman who miscarries. -मूर्धज a. one whose hair has fallen out.-वृत्त a. one leading a life of an out-cast. -सावित्रीकः a man of the first three classes whose thread-ceremony has been improperly performed, or not performed at all. -स्थित a. lying on the ground.

पतित [patita], See under पत्.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतित mfn. fallen , dropped , descended , alighted AV. etc.

पतित mfn. ( ifc. )fallen upon or from( Pa1n2. 2-1 , 24 and 38 Sch. )

पतित mfn. (with पादयोस्or पाद-)having thrown one's self at a person's feet Ka1v.

पतित mfn. fallen (morally) , wicked , degraded , out-caste(614826 -त्वn. ) ChUp. Mn. MBh. etc.

पतित mfn. fallen into , being in( loc. or comp. ) Katha1s.

पतित mfn. happened , occurred Pan5c. S3ukas.

पतित n. flying MBh.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a fallen person from the path of righteousness, पिण्ड to be given in the evening and no pollution; whoever he be, even the guru, he must be abandoned; but the fallen mother must not be abandoned. M. २२७. ५९, १५०.

"https://sa.wiktionary.org/w/index.php?title=पतित&oldid=432212" इत्यस्माद् प्रतिप्राप्तम्