यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्त्र(त्र)¦ न॰ पत--ष्ट्रन्
“झरोझरि सवर्णे” पा॰ वा तलोपः।

१ वाहनमात्रे

२ पर्णे

३ पक्षिणां पक्षे अमरः।

४ लेखना-धारे(पात्) इति ख्याते पदार्थे

५ धातुमयपत्त्राकारे द्रव्येच
“सुवर्णपत्राभरणा च कार्य्या सुलोहपार्श्वद्वयशृङ्ख-लाभिः”

६ लिप्यां स्त्री ङीप्।

७ तेजपत्रे राजनि॰
“पत्रकं मधुरं किञ्चित्तीक्ष्णोष्णं पिच्छिलं लघु। नि-हन्ति कफवातार्शोहृल्लासारुचिपीनसान्” भावप्र॰। तत्रलिखनाधारपत्रे
“षाण्मासिके तु सम्प्राप्ते भ्रान्तिःसंजायते यतः। वात्राक्षराणि सूष्टानि पत्रारूढान्यतःपुरा” ज्यो॰ त॰। तस्य रञ्जनं यथा
“सुवर्णरूप्यरङ्गाद्यैरञ्जयेत् पत्रमुत्तमम्। सामान्योत्तममध्यानां पत्ररञ्जन-मीरितम्” तत्प्रमाणम्
“षडङ्गलाधिकं हस्त” पत्र-मुत्तममीरितम्। मध्यम हस्तमात्रं स्यात् सामान्यं[Page4220-a+ 38] मुष्टिहस्तकम्” पत्रभङ्गप्रकारः
“पत्रन्तु त्रिगुणीकृत्यऊर्द्ध्वे तु द्विगुणं त्यजेत्। शेषभागे लिखेद्वर्णान् गद्यपद्यादिसंयुतान्” पत्रस्य रचनाक्रमः
“राजलेखकमाहूय नृपो ब्रूयात् प्रयत्नतः। पत्रं कुरु यथायोग्यंगद्यपद्यादिसंयुतम्। पण्डितद्वयमानीय लेखको र-हसि स्थितः। यथायोग्यानुसारेण पत्रं कुर्य्यान्मनो-रमम्। दिनद्वयं त्रयं वापि विचार्य्य पण्डितेन वै। स्वभ्रान्तेर्दूषणं ज्ञात्वा विलिखेत् पत्रपुस्तके। सामान्य-पत्रे संलिख्य रहसि श्रावयेन्नृपम्। नृपाज्ञया शुभेपत्रे विलिखेद्राजलेखकः” लेखनप्रकारः
“अङ्कुशं प्रथमंदद्यान्मङ्गलार्थं विचक्षणः। मध्ये विन्दु समायुक्तमधःसप्ताङ्कसंयुतम्। तदधः स्वस्ति विन्यस्य ततो गद्यंसुशोभनम्। ततः श्रीशब्दरूपाणि पदन्यासक्रमं लिखेत्। भाषया संस्कृतेनापि कुशलं विलिखेत् सुधीः। ततःशुभाशुभां वार्त्तां संस्कृतैः प्राकृतैस्तथा। ततः प्रमाण-सन्देशं ततो वार्त्तां नियोजयेत्। कीर्त्तिप्रोतियुतं पद्यंततः किमधिकादिकम्। पत्रपेषणश्लोकञ्च अव्दमासादि-संयुतम्। सर्वेषामेव पत्रेषु लिखनं चैवमीरितम्। सर्वेषामेब पत्राणां विधिं ज्ञात्वा लिखेत्तु यः। स्वदेशेकीर्त्तिमाप्नोति तथा देशान्तरेष्वपि। एवं शास्त्रक्रमंज्ञात्वा यो लिखेद्राजपत्रकम्। स राजमन्त्रिभिः सार्द्धंयशः प्राप्नोत्यनुत्तमम्। शास्त्रसन्दर्भमज्ञात्वा यो लिखे-द्राजपत्रकम्। स राजमन्त्रिभिः सार्द्धं दुर्यशो मह-दाप्नुयात्”। पत्रनयनक्रमः।
“राजपत्रं नयेन्मूर्द्ध्रिललाटे पात्रमन्त्रिणाम्। गुरुपत्रं नयेन्मूर्ध्नि ब्रा-ह्मणानां तथैव च। यतिसन्न्यासिनाञ्चैव स्वामिनश्चतथैव च। सादरेणैव यत्नेन तथा मूर्द्धनि धारयेत्। मार्य्यापुत्रस्य मित्रस्य हृदये धारयेत् सुधीः। प्रवोराणांकण्ठदेशे पत्रधारणमीरितम्। एतेषाञ्चैव पत्राणामुक्त-धारणलक्षणम्। अन्येषामपि षत्राणां नियमो नात्रदर्शितः”। पत्रपठनप्रकारः
“पत्रं घृत्वा नमस्कृत्यपूर्वाग्रं स्याप्रयेत् सुधी। दक्षिणाग्रं तु सदसि नृपाग्रेराजलेखकः। पत्रं वितत्य सदसि द्विवारं मनसा पठेत्। स्फुटं पश्चात् प्रवक्तव्यमक्षीभी राजलेखकः। रहसि{??}वयेत् पत्रं शुभं वा यदि वाऽशुभम्। पत्रं श्रुत्वाविदित्वार्थं सभायां श्रावयेत्ततः। रहस्यपत्रं रहसिनृपाग्रे श्रावयेद्द्विजः। अशुभं नैव सदसि शुभं पत्रंनृपाज्ञया। एवं क्रमेण पत्रार्थं श्रावयित्वा द्विजो-[Page4220-b+ 38] त्तमः। नृपतेः सन्निधौ स्थित्वा नृपाज्ञामनुवर्त्तते”। पत्रचिह्नानि
“ऊर्द्ध्वे षडङ्गुलं त्यक्त्वा वर्तुलं चन्द्र-विम्बवत्। कस्तूरीकुङ्कुमैः कुर्य्याद्राजपत्रं सुचिह्नितम्। मन्त्रिणां कुङ्कुमेनैव पण्डितस्यैव चन्दनैः। गुरूणांचन्दनेनैव सिन्दूरेणैव स्वामिनः। भार्य्यायाश्चाप्यलक्तेनचन्दनैः पितृपुत्रयोः। सन्न्यासिनां चन्दनेन यतीनांकुङ्कुगेन च। रक्तचन्दनपङ्केन भृत्यस्य समुदीरितम्। शोणितेनैव शत्रूणां पत्रचिह्नं प्रकल्पयेत्। एतेषाञ्चैवसर्वेषां यथायोग्यानुसारतः। पत्रस्योर्द्ध्वे तु मतिमान्कुर्य्यात् चिह्नं सुवर्तुलम्”। राजपत्रस्य कोण-च्छेदनप्रकारः
“दक्षिणे पत्रकोणस्य अधस्तात् छेदयेत्सुधीः। एकाङ्गुलप्रमाणेन राजपत्रस्य चैव हि”। राजपत्रादेः पदन्यासः
“महाराजाधिराजञ्च दान-शौण्डं तथैव च। तथा सच्चरितं योज्यं कल्पवृक्षादिकंन्यसेत्। यथायोग्यानुसारेण तथैव गुणभेदतः। राज-पत्रेषु सर्वेषु पदन्यासक्रमं विदुः”। मन्त्रिपत्रस्य
“प्रवरं गुणभेदेन तथा सच्चरितादिकम्। विन्यस्य विलि-खेत् प्राज्ञो मन्त्रिपत्रे पदक्रमम्”। पण्डितस्य
“संख्यावद्वन्दितपदं शास्त्रार्थनिपुणादिकम्। पण्डिता-नाञ्च पत्रेषु विलिखेद्वै पदक्रमम्”। गुरुपत्रस्य
“सांख्यसिद्धान्तनिपुणं सनमस्कारकं पदम्। विन्यस्यविलिखेत् प्राज्ञो गुरुपत्रे पदक्रमम्”। स्वामि-पत्रस्य
“प्रवर्य्यं सनमस्कारं प्राणप्रियादिकं पदम्। विन्यस्य विलिखेद्धीमान् स्वामिपत्रे पदक्रमम्”। मार्य्यायाः
“प्राणप्रियापदं साध्वीपदं सच्चरिता-दिकम्। भार्य्यापत्रे लिखेद्विद्वान् पदक्रममनुत्तमम्”। पुत्रस्य
“प्राणतुल्यपदं तद्वत्तथा सच्चरितादिकम्। आशीर्वचनसंयुक्तं पुत्रपत्रे पदक्रमम्”। पितृ-पत्रस्य
“प्रभुवर्य्यं नमस्कारं तथा सच्चरितादिकम्। विन्यस्य विलिखेत् पुत्रः पितृपत्रे पदक्रमम्”। सन्न्यासिपत्रस्य
“सर्बवाञ्छाविनिर्मुक्तं सर्वशास्त्रार्थ-पारगम्। सन्न्यासियतिपत्रेषु विलिखेच्च पदक्रमम्”। सामान्यस्य
“सामान्यभृत्यशत्रूणां विनियोज्यामुकंप्रंति। शस्त्रावशेषितपदं छागतुल्यादिकं तथा। एतेषा-मेव पत्रेषु यथायोम्यानुसारतः। विन्यस्यः विलिखेत्प्राज्ञः पदक्रममनुत्तमम्”। श्रीशब्दविन्याससंख्या यथा
“षड्गुरोः स्वामिनः पञ्च द्वे भृत्ये चतुरो रिपौ। श्रीशब्दानां तयं मिले एकैकं पुत्रमार्य्ययोः” पत्रकौ॰। [Page4221-a+ 38] देवभेदे दलरूपपत्रविशेषाणां प्रीतिकरत्वमुक्तं यथा
“पत्राण्यपि सपुष्पाणि हरेः प्रीतिकराणि च। प्रव-क्ष्यामि नृपश्नेष्ठ! शृणुष्व गदतो मम। अपामार्गकंप्रथमं तस्माद् भृङ्गारकं परम्। तस्मात्तु खादिरं श्रेष्ठंततश्च शमीपत्रकम्। दुर्वापत्रं ततः श्रेष्ठं ततोऽपिकुशपत्रकम्। पत्रं तस्माद्दमनकं ततो विल्वस्य पत्रकम्। विल्वपत्रादपि हरेस्तुलसीपत्रमुत्तमम्। एतेषां च यथालब्धैः पत्रैर्वा योऽर्च्चयेद्धरिम्। सर्वपापविनिर्मुक्तोविष्णुलोके महीयते” नरसिंहपु॰

५३ अ॰। देवीप्री-तिकरपत्राणि यथा
“अपामार्गस्य पत्रन्तु ततो भृङ्गा-रपत्रकम्। ततोऽपि गन्धिनीपत्रं वलाहकमतः परम्। तस्मात् खदिरपत्रं तु वञ्जुलस्तवकस्तथा। आम्रन्तुवकगुच्छस्तु जम्बूपत्नं ततः परम्। वीजपूरस्य पत्रं तुततोऽपि कुशपत्रकम्। दूर्वाङ्कुरं ततः प्रोक्तं शमी-धत्रमतः परम्। पत्रमामलकं तस्माद्दामपत्रमतःपरम्। सर्वतो विल्वपत्रन्तु देव्याः प्रीतिकरं मतम्” कालिकापु॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्त्र¦ n. (-त्त्रं) Any vehicle or means of conveyance. E. पत् to go, ष्ट्रन् aff.; also पत्र।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्त्र n. (and m. S3a1k. ; ifc. f( आand ई). )the wing of a bird , pinion , feather VS. S3Br. etc.

पत्त्र n. the feather of an arrow R. Ragh.

पत्त्र n. a bird L.

पत्त्र n. any vehicle , a chariot , car , horse , camel etc. Mn. MBh. Ka1v.

पत्त्र n. a leaf , petal (regarded as the plumage of a tree or flower) Ka1tyS3r. Mn. MBh. etc.

पत्त्र n. the leaf of a partic. fragrant plant or a partic. plant with -ffragrant leaves VarBr2S. xvi , 30

पत्त्र n. Laurus Cassia( L. )and its leaf Bhpr.

पत्त्र n. a leaf for writing on , written -lleaf , -lleaf of a book , paper

पत्त्र n. a letter , document Ka1v. Ra1jat. Pan5c. ( पत्त्रम् आरोप्य, " having committed to paper " S3ak. )

पत्त्र n. any thin leaf or plate of metal or gold-leaf. Var. Sus3r. (See. पट्ट)

पत्त्र n. the blade of a sword or knife(See. असि-)

पत्त्र n. a knife , dagger L.

पत्त्र n. = -भङ्गRagh. Gi1t. [ cf. Gk. ? (for ?) ; Lat. penna (older pesna for pet-na) ; Germ. Feder ; Eng. feather.]

पत्त्र etc. See. p. 581 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=पत्त्र&oldid=411900" इत्यस्माद् प्रतिप्राप्तम्