पनस
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पनसः, पुं, (पनाय्यते स्तूयतेऽनेन देवः मनुष्यादि- र्वेति । यद्वा पनायति स्तौति सन्तोषयती- त्यर्थः देवमनुष्यादीन् इति । पन स्तुतौ + “अत्यविचमितमीति ।” उणां । ३ । ११७ । इति असच् ।) फलवृक्षविशेषः । का~टाल इति भाषा ॥ (यथा भागवते । ८ । २ । १० । “चूतैः प्रियालैः पनसैराम्रैराम्रातकैरपि ॥”) तत्पर्य्यायः । कण्टकिफलः २ । इत्यमरः । २ । ४ । ६१ ॥ महासर्ज्जः ३ फलिनः ४ फलवृक्षकः ५ स्थूलः ६ कण्टफलः ७ मूलफलदः ८ अपुष्प- फलदः ९ पूतफलः १० चम्पकोषः ११ चम्पालुः १२ कण्टकीफलः १३ रसालः १४ मृदङ्गफलः १५ पानसः १६ । इति शब्दरत्नावली ॥ अस्य फल- गुणाः । मधुरत्वम् । सुपिच्छिलत्वम् । गुरुत्वम् । हृद्यत्वम् । बलवीर्य्यवृद्बिदत्वम् । श्रमदाह- विशोषनाशित्वम् । रुचिकारित्वम् । ग्राहित्वम् । परमदुर्ज्जरत्वञ्च । तद्बीजगुणाः । ईषत्कषाय- त्वम् । मधुरत्वम् । वातलत्वम् । गुरुत्वम् । रुच्यत्वम् । तत्फलविकारत्वग्दोषनाशित्वञ्च । “बालन्तु नीरसं हृद्यं मध्यं पक्वन्तु दीपनम् । रुचिदं लवणाभ्यक्तं पनसस्य फलं स्मृतम् ॥” इति राजनिर्घण्टः ॥ * ॥ “पनसः कण्टकिफलः फणाशोऽतिबृहत्फलः । पनसं शीतलं पक्वं स्निग्धं पित्तानिलापहम् ॥ तर्पणं बृंहणं स्वादु मांसलं श्लेष्मलं भृशम् । बल्यं शुक्रप्रदं हन्ति रक्तपित्तक्षतक्षयान् ॥ आमन्तदेव विष्टम्भि वातलं तुवरं गुरु । दाहकृन्मधुरं बल्यं कफमेदोविमर्द्दनम् ॥ पनसोद्भूतबीजानि वृष्याणि मधुराणि च । गुरूणि वद्धवर्चांसि सृष्टमूत्राणि संवदेत् ॥” अन्यच्च । “मज्जाः पनसजो वृष्यो वातपित्तकफापहः । विशेषात् पनसं वर्ज्यं गुल्मिभिर्मन्दवह्निभिः ॥ अलं पनसपाकाय फलं कदलसम्भवम् ॥” इति भावप्रकाशः ॥ * ॥ “कण्टाफलं सुमधुरं बृंहणं स्निग्धशीतलम् । दुर्ज्जरं वातपित्तघ्नं श्लेष्मशुक्रबलप्रदम् ॥ तदेव सर्पिषा युक्तं स्निग्धं हृद्यं बलप्रदम् । छर्द्दिघ्नं न च चक्षुष्यं वृष्यञ्च वातपित्तनुत् ॥ कण्टाफलमपक्वन्तु कषायं स्वादु वातलम् । रक्तपित्तहरं स्वादु तत्फलास्थ्यपि तद्गुणम् ॥” इति राजवल्लभः ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पनस पुं।
पनसवृक्षः
समानार्थक:पनस,कण्टकिफल
2।4।61।1।1
पनसः कण्टकिफलो निचुलो हिज्जलोऽम्बुजः॥ काकोदुम्बरिका फल्गुर्मलयूर्जघनेफला।
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पनस¦ पु॰ पन्यते स्तूयतेऽसौ वृक्षेषु उत्तमफलत्वात् वृहत्फ[Page4231-a+ 38] लत्वाद्वा पन--कर्मणि असच्। (वां टाल) वृक्षभेदे फलादौ न॰
“पनसं शीतलं पक्वं स्निग्धं पित्तानिलापहम्। तर्पणंवृंहणं स्वादु मांसलं श्लेष्मलं भृशम्। बल्यं शुक्रपदं हन्तिरक्तपित्तक्षतक्षयान्। आमन्तदेव विष्टम्भि वातलं तुवरंगुरु। दाहकृन्मधुरं बल्यं कफमेदोविमर्दनम्। पनसो-द्भूतवीजानि वृष्याणि मधुराणि च। गुरूणि बद्धवर्चांसिसृष्टमूत्राणि संवदेत्” अन्यच्च
“मज्जा पनसजो वृष्योवातपित्तकफापहः। विशेषात् पनसं वर्ज्यं गुल्मि-भिर्मन्दवह्निभिः। अलं पनसपाकाय फलं कदलसम्भ-वम्” भावप्र॰
“कण्टाफलं सुमधुरं वृंहणं स्निग्ध-शीतलम्। दुर्जरं वातपित्तध्नं श्लेष्मशुक्रवलप्रदम्। तदेव सर्पिषा युक्तं स्निग्धं हृद्यं बलप्रदम्। छर्दिघ्नं नच चक्षुष्यं वृष्यञ्च वातपित्तनुत्। कण्टाफलमपक्वन्तुकषायं स्वादु वातलम्। रक्तपित्तहरं स्वादु तत्फला-स्थ्यापि तद्गुणम्” राजवल्लभः।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पनस¦ m. ((सः)
1. The bread-fruit or JACK tree, (Artocarpus integri- folia.)
2. A thorn.
3. The name of a monkey. f. (-सा)
1. A malady, pustular and phlegmonoid inflammation of the skin or external organs.
2. A she monkey.
3. A female demon. E. पन् to praise or be praised, Unadi aff. असच्।
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पनसः [panasḥ], 1 The bread-fruit or jack tree.
A thorn.
सा, सी A kind of malady, pustular and phlegmonoid inflammation of the skin or external organs.
A female monkey.
A female demon. -सम् The fruit of the bread-fruit tree.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पनस m. ( पन्?)the bread-fruit or जकtree , Artocarpus Integrifolia MBh. R. etc.
पनस m. a thorn L.
पनस m. a species of serpent Sus3r.
पनस m. N. of a monkey MBh. R.
पनस n. the bread-fruit ib.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--A वानर, whose daughter was रुमा; फलकम्:F1: Br. III. 7. २२१, २३१.फलकम्:/F fol- lowed राम in his expedition to लन्का. फलकम्:F2: भा. IX. १०. १९.फलकम्:/F [page२-286+ २६]
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Panasa : m.: A monkey-chief.
Described as intelligent and very strong; he came to assist Rāma with fifty seven crores of monkeys 3. 267. 6; fought a duel with the demon Paṭuśa 3. 269. 8; he was eaten up by Kumbhakarṇa 3. 271. 4.
_______________________________
*4th word in left half of page p37_mci (+offset) in original book.
Mahabharata Cultural Index