यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमाणुः, पुं, (परमः सर्व्वचरमकोऽणुः ।) पृथिव्यादिभूतचतुष्टयानां द्ब्यणुकानामवयवः । स च नित्यः निरवयवः ततः किमपिसूक्ष्मं नास्ति । यथा, -- “नित्यानित्या च सा द्वेधा नित्या स्यादणुलक्षणा । अनित्या तु तदत्या स्यात् सैवावयवयोगिनी ॥” पारिमाण्डल्यनामकतत्परिमाणन्तु न कस्यापि कारणम् । यथा, “पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् ॥” जलादिपरमाणुरूपस्य नित्यत्वम् । पार्थिवपर- माणुरूपस्यानित्यत्वम् । पार्थिवपरमाणुरूप- स्यानित्यत्वम् । यथा, भाषापरिच्छेदे ॥ “जलादिपरमाणौ तन्नित्यमन्यत् सहेतुकम् ।” तैरेव परमाणुभिराद्युपादानैर्द्व्यणुकत्रसरेण्वादि- क्रमेण स्थूलक्षितिजलतेजोमरुतः सृजति परमे- श्वरः । यथा आयोजनं परमाणुकर्म्म तथा च सर्गाद्यकालीनं द्ब्यणुकारम्भकपरमाणुकर्म्म यत्नजन्यं प्रयत्नवदात्मसंयोगजन्यं वा कर्म्मत्वात् अस्मदादिशरीरकर्म्मवत् इति कुसुमाञ्जलिः ॥ प्रलयेऽतिस्थूलस्थूलनाशानन्तरं परमाणुक्रिया- विभागपूर्ब्बसंयोगनाशादिक्रमेण द्व्यणुकनाशा- त्तिष्ठन्ति परमाणव एवेति । यथा, -- “दोधूयमानास्तिष्ठन्ति प्रलये परमाणवः ।” इति प्राचीनकारिका ॥ तस्य महत्त्वाभावादतीन्द्रियत्वम् । यथा । महत्त्वं षड्विधे हेतुरिति भाषापरिच्छेदः ॥ * ॥ कालविशेषः । यथा, श्रीभागवते ३ । ११ । ४-५ ॥ “स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् । सतो विशेषभुग् यस्तु कालः स परमो महान् ॥ अणुर्द्वौ परमाणू स्यात्त्रसरेणुस्त्रयः स्मृतः । जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥” अस्यार्थः । एतदेव प्रपञ्चयति स इत्यादिना । सतः प्रपञ्चस्य परमाणुतां परमाण्ववस्थां यो भुङ्क्ते स कालः परमाणुः तस्यैवाविशेषं साकल्यं यो भुङ्क्ते स परममहान् । अयमर्थः ग्रहर्क्षताराचक्रस्थ इत्यादिना यत् सूर्य्यपर्य्यटनं वक्ष्यति तत्र सूर्य्यो यावता परमाणुदेशमति- क्रामति तावान् कालः परमाणुः । यावता च द्वादशराश्यात्मकं सर्व्वं भुवनकोषमतिक्रामति स परममहान् संवत्सरात्मकः तस्यैवावृत्त्या युगमन्वन्तरादिक्रमेण द्विपरार्द्धान्तत्वमिति । तथा च पञ्चमे सूर्य्यगत्यैव कालादिविभागं वक्ष्यति । ५ । इदानीं द्व्यणुकादिलक्षणपूर्व्वकं मध्यमकालावस्थां कथयति द्वौ परमाणू अणुः स्यात् त्रयोऽणव- स्त्रसरेणुः स तु प्रत्यक्ष इत्याह जालार्केति गवाक्षप्रविष्टेष्वर्करश्मिष्ववगतः कोऽसौ योऽति- लघुत्वेन खमेवानुपतन् अगात् गतः । न गामिति पाठे खमेवानुपतन्नवगतः न तु गां पृथ्वीम् । इति श्रीधरस्वामी ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमाणु¦ पु॰{??}र्म॰। सर्वापकृष्टे परिमाणयुक्ते वैशेषिकमत-प्रसिद्धे क्षित्यप्तेजोमरुतां

१ सूक्ष्मांशभेदे तस्य च नि-त्यत्वं तैरङ्गीकृतम् तन्नाशकाभावात्। ततो महाभूता-रम्भप्रकारस्तु उत्पत्तिशब्दे

११

१५ पृ॰ कणादभाष्यन्याय-कन्दल्योरुक्तो दर्शितः।
“दोधूयमानास्तिष्ठन्ति प्रलयेपवमाणवः” इत्युक्तिस्तु सर्जनोन्मुखवायुपरमाणुविषया उत्पत्तिशब्ददर्शिते कणादभाष्यवाक्ये वायवीयपर-माणूनां प्रथमं क्रियोत्पत्त्यैव दोधूयमानत्वोक्तेः अ-न्येषां च तत्प्रेरणेनैव ततः परं क्रियोत्पत्तेः सम्भवात्। अन्यथा वायवीयपरमाणौ दोधूयमानत्वविशेषणासम्भवइति विवेच्यम्।

२ परमाण्ववच्छिन्ने कालभेदे
“स कालःपरमाणुर्वै यो भुङ्क्ते षरमाणुताम्। सतो विशेष-भुग्यस्तु कालः स परमो महान्” भाग॰

३ ।

११ ।


“सतः प्रपञ्चस्य परमाणुतां परमाण्ववस्थां यो भुङ्क्तेस कालः परमाणुः तस्यैव विशेषं साकल्यं यो भुङ्क्तेस परमोमहान्। अयमर्थः
“ग्रहर्क्षताराचक्रस्थ” इत्यादिना यत् सूर्य्यपर्य्यटनं वक्ष्यति तत्र सूर्य्यो या-वता परमाणुदेशमतिक्रामति तावान् कालः परमाणुः। यावता च द्वादशराश्यात्मकं सर्वं भुवनकोषमतिक्रामतिस परमो महान् संवत्सरात्मकः तस्यैवावृत्त्या युग-मन्वन्तरादिक्रमेण द्विपरार्द्धान्तत्वमिति” श्रीधरस्वामी।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमाणु¦ m. (-णुः)
1. An atom, the invisible base of all aggregate bodies; thirty of them are supposed to form a mote in a sunbeam; the lowest measure of weight; in Logic, six of them form the first perceptible object.
2. A measure of time, the sun's passage past an atom of matter. E. परम first, and अणु an atom.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमाणु/ परमा m. an infinitesimal particle or atom (30 are said to form a mote in a sun-beam) Ya1jn5. Yogas. MBh. etc. (See. भृत्य-प्)

परमाणु/ परमा m. the passing of a sun-beam past an atom of matter Pur.

परमाणु/ परमा n. 1/8 of a मात्राVPra1t.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PARAMĀṆU : See under Trasareṇu.


_______________________________
*5th word in right half of page 567 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=परमाणु&oldid=500796" इत्यस्माद् प्रतिप्राप्तम्