यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परासुः, त्रि, (परागताः प्रस्थिता असवः प्राणा यस्य ।) मृतः । इत्यमरः । २ । ८ । ११७ ॥ (यथा, रघौ । ९ । ७८ । “तौ दम्पती बहु विलप्य शिशोः प्रहर्त्त्रा शल्यं निखातमुदहारयतामुरस्तः । सोऽभूत् परासुरथ भूमिपतिं शशाप हस्तार्पितैर्नयनवारिभिरेव वृद्धः ॥” परासुपरीक्षा वैद्यके यथा, -- “तस्य चेत् परिदृश्यमानं पृथक्त्वेन पादजङ्घोरु- स्फिगुदरपार्श्व-पृष्ठेषिका-पाणिग्रीवा-ताल्वोष्ठ- ललाटं स्विन्नं शीतं प्रस्तब्धं दारुणं वीतमांस- शोणितं वा स्यात् । परासुरयं पुरुषो न चिरात् कालं करिष्यतीति विद्यात् । तस्य चेत् परि- मृश्यमानानि पृथक्त्वेन गुल्फजानुवङ्क्षण-गुद- वृषण-मेढ्रनाभ्यंशस्तनमणिकहनुपर्शुका नासिका कर्णाक्षिभ्रूशङ्खादीनि स्रस्तानि व्यस्तानि च्युतानि स्थानेभ्यः स्युः परामुरयं पुरुषो न चिरात् कालं करिष्यतीति विद्यात् ।” “तस्य चेदुच्छासोऽतिदीर्घोऽतिह्रस्वो वा स्यात् परासुरिति विद्यात् । तस्य चेन्मन्ये परिदृश्य- मानेन न स्पन्देयातां परासुरिति विद्यात् । तस्य चेद्दन्ताः प्रतिकीर्णाः श्वेता जातशर्कराः स्युः परासुरिति विद्यात् । तस्य चेत् पक्ष्माणि जटावद्धानि स्युः परासुरिति विद्यात् । तस्य चेच्चक्षुषी प्रकृतिहीने विकृतियुक्ते अत्युत्- पिण्डिते अतिप्रविष्टे अतिजिह्मे अतिविषमे अतिप्रस्रुते अतिविमुक्तबन्धने सततोन्मिषिते सततनिमिषिते निमेषोन्मेषातिप्रवृत्ते बिभ्रान्त- दृष्टिके विपरीतदृष्टिके हीनदृष्टिके व्यस्तदृष्टिके नकुलान्धे कपोतान्धे अङ्गारवर्णे कृष्णनील- पीतश्यावताम्रहरितहारिद्रशुक्लवैकारिकाणां वर्णानामन्यतमेनाभिसंप्लुते वा स्यातां परासु- रिति विद्यात् । तथास्य केशलोमान्यायच्छेत् । तस्य चेत् केशलोमान्यायस्यमानानि प्रलुच्येरन् नचेत् वेदयत् परासुरिति विद्यात् । तस्य चेदुदरे शिराः प्रदृश्येरन् । श्यावताम्र- नील-हारिद्रशुक्ला वा स्युः परासुरिति विद्यात् । तस्य चेन्नखा वीतमांसशोणिताः पक्वजाम्बर- वर्णाः स्यः परासुरिति विद्यात् । अथास्याङ्गुलीरायच्छेत्तस्य चेदङ्गुलय आयस्य- माना नचेत् स्फुटेयुः परासुरिति विद्यात् ॥” इति चरकेणेन्द्रियस्थाने चतुर्थेऽध्याय उक्तम् ॥ “वाताष्ठीला तु हृदये यस्योर्द्ध्वमनुयायिनी । रुजान्नविद्वेषकरी स परासुरसंशयम् ॥” इति सुश्रुते सूत्रस्थाने एकत्रिंशत्तमेऽध्याये ॥)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परासु वि।

मृतः

समानार्थक:परासु,प्राप्तपञ्चत्व,परेत,प्रेत,संस्थित,मृत,प्रमीत

2।8।117।1।1

परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः। मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परासु¦ त्रि॰ परागता असवोऽस्य। मृते गतप्राणे अमरः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परासु¦ mfn. (-सुः-सुः-सु) Dead, expired. E. पर away, remote, असु vital breath.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परासु [parāsu], a.

Lifeless, dead; प्राक् परासुर्द्विजात्मजः R.15.56; 9.78.

One whose vital spirit is departed.

परासुता, परासुत्वम् Exhaustion, death; व्रजति पुरा हि परासुतां त्वदर्थे Ki.1.5.

A dependent life (पराधीनप्राणत्व); लोभान्मोहश्च माया च मानस्तम्भः परासुता Mb.12.158.4.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परासु/ परा mfn. one whose vital spirit is departed or departing

परासु/ परा mfn. dying or dead MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=परासु&oldid=415883" इत्यस्माद् प्रतिप्राप्तम्