परिषद्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिषत्, [द्] स्त्री, (पारतः सीदन्त्यस्याम् । पार- + सद् + अधिकरणे क्विप् । “सदिरप्रतेः ।” ८ । ३ । ६६ । इति षत्वम् ।) सभा । इत्य- मरः । २ । ७ । १५ ॥ (यथा, गोः रामा- यणे । २ । १३ । १६ । “यादृशी परिषत् सीते ! दूतश्चायं तथाविधः । ध्रुवमद्यैव राजा मां यौवराज्येऽभिषेक्ष्यति ॥” परियच्च खलु द्बिविधा, ज्ञानवती मूढपरिषच्च, सैव द्विविधा सती त्रिविधा पुनरनेन कारण- विभागेन सुहृत्परिषत्, उदासीनपरिषत, प्रति- निविष्टपरिषच्चेति । तत्र प्रतिनिविष्टायां परि- षदि ज्ञानविज्ञानवचनप्रतिवचनशत्ति सम्पन्नायां मूढायां वा न कथञ्चित् केनचित् सह जल्पो विधीयते । मूढायान्तु सुहृत्परिषदि उदा- सीनायां वा ज्ञानविज्ञानमन्तरेणाप्यदीप्तयशसा महाजनद्बिष्टेन सह जल्पो विधीयते । तद्बिधेन च सह कथयता आविद्धदीर्घसूत्रसङ्कलैर्वाक्य- दण्डकैः कथयितव्यम् । अतिहृष्टं मुहुर्मुहुरुप- हसता परं रूपयता च परिषदमाकारैब्रुव- तश्चास्य वाक्यावकाशो न देयः । कष्टशब्दञ्च ब्रुवन् वक्तव्यो नोच्यत इति । अथवा पुनर्हीना ते प्रतिज्ञेति पुनश्चाह्वयमानः प्रतिवक्तव्यः । परि- संवत्सरोभव शिक्षस्व तावत् । पर्य्याप्तमेतावत्ते । सकृदपि हि पारिक्षेपिकं निहतं निहतमाहु- रिति । नास्य योगः कर्त्तव्यः कथञ्चिदप्येवं श्रेयसा सह विगृह्य वक्तव्यमित्याहुरित्येके । नत्वेवं ज्यायसा सह विग्रहं प्रशंसन्ति कुशलाः । प्रत्य- वरेण तु सह समानाभिमतेन वा विगृह्य जल्पता सुहृत्परिषदि कथयितव्यम् । अथवाप्यु- दासीनपरिषदि अनवधानश्रवणज्ञानविज्ञानोप- धारणवचनशक्तिसम्पन्नायां कथयता चाव- हितेन परस्य साद्गुण्यदोषबलमवेक्षितव्यम् । समवेक्ष्य च यत्रैनं श्रेष्ठं मन्येत नास्य तत्र जल्पं योजयेत् अनाविकृतमयोगं कुर्व्वन् । यत्र त्वेनमवरं मन्येत तत्रैवैनमाशु निगृह्णीयात् ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥) परिषत्त्वं यथा, प्रायश्चित्तविवेके । “एकविंशतिसंख्याकैर्मीमांसान्यायपारगैः । वेदाङ्गकुशलैश्चैव परिषत्त्वं प्रकल्पयेत् ॥”
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिषद् स्त्री।
सभा
समानार्थक:समज्या,परिषद्,गोष्ठी,सभा,समिति,संसद्,आस्थानी,आस्थान,सदस्,आस्था,प्रतिश्रय
2।7।15।1।2
समज्या परिषद्गोष्ठी सभासमितिसंसदः। आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः॥
अवयव : सामाजिकाः
: देवसभा, पानसभा
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिषद्¦ स्त्री परिषीदत्यस्यां परि + सद--आधारे क्विप्। सभायां धर्मनिर्णयार्थं विद्वद्भेदयुक्तायां
२ सभायाञ्चयथोक्तं मनुना
“अनाम्नातेषु धर्मेषु कथे स्यादितिचेद्भवेत्। यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादसंशयः”( प्रायश्चित्तनिर्णयार्थं परिषदुपस्थानप्रकारः परिषद्वि-शेषव्यवस्थादिक प्रा॰ वि॰ उक्तं यथा
“अथ प्रायश्चित्तिनः परिषदुपस्थानम्। तत्राङ्गिराः
“कृते निःसंशये पापे न भुञ्जीतानुपस्थितः। भुञ्जानोवर्{??}येत् पापमसत्यं संसदि ब्रुवन्। सचेलं बाग्मतःस्तात्वा क्लिन्नवासाः समाहितः। उपस्थाय ततः शोघ्र-मार्त्तिमान् धरणीं गतः। गात्रैश्च शिरसा चैव न चकिञ्चिदुदाहरेत्”। उपस्थानञ्च वस्त्रादिना ब्राह्मणान्तोषयित्वा कार्य्यम्
“तोषयित्वा द्विजोत्तमानिति” देवलवचनात्। महत्सु पापेषु राज्ञाप्युपस्थितिः कार्य्ये-त्याह देवलः
“स्वयं वा ब्राह्मणैः कृच्छ्रमल्पदोषे विधी-यते। राज्ञा च ब्राह्मणैश्चैव महत्सु परिचक्षतं”। परिषदमाह अद्भिराः
“एकविंशतिसंख्यातैर्मीमासा-न्यायन्यायपारगैः। वेदाङ्गकुशलैश्चैव परिषत्त्वं प्रक-ल्पयेत्। चातुर्वेद्यः प्रकल्पी च अङ्गबिङ्गर्मपाठकः। त्रयश्चाश्रमिणो वृद्गाः परिषत् स्याद्दशावरा”। परिषच्छब्दोऽत्र सभार्हपरः। चातुर्वैद्यः चतुर्येदपारगः। विकल्पी सर्वधर्मपमाणज्ञः धर्मपाठकः धर्मशास्त्रज्ञः। मनुः
“त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः। त्रयश्चाश्रमिणो वृद्गाः परिषत् स्याद्दशावरा”। अङ्गिराः
“एषा तु लथुकार्य्येषु मध्यमेषु तु मध्यमाः। महापा-तकशोध्येषु शतशो भूय एव वा” प्रदर्शनार्थमिदं याव-द्भिरेव निरूपणं भवति तावद्भिरेव परिषत् दृष्टार्थ-त्वादस्याः। तथा{??} यमः
“एको द्वौ वा त्रयो वापियद्ब्रूबुर्धर्मपाठकाः। स धर्म इति विज्ञेयो नेतरेषांसहस्रशः। यद् वदन्ति तमोमूढा मूर्खा धर्मपतद्विदः। तत्पापं शतधा भूत्वा तद्वक्तॄ ननुगच्छति”। वृद्धशाता-[Page4258-a+ 38] तपः
“अबुद्ध्वा धर्मशास्त्राणि प्रायश्चित्तं वदन्ति ये। प्राय{??}त्ती भवेत् पूतस्तत् पापं तेषु गच्छति”। अङ्गिराः
“श्रार्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः। जा-नन्तो न प्रयच्छन्ति तेऽपि तद्दोषमागिनः। अनर्च्चितै-रनाहूतैरपृष्टैश्चैव संसदि। प्रायश्चित्तं न वक्तव्यं जान-द्भिरपि जल्पतः”। तघा न्यायतो मार्गमाणस्य क्षत्रियादेःप्रणामिनः। श्रन्तरा ब्राह्मणं कृत्वा व्रतमेतत् समा-दिशेत्”।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिषद्¦ f. (षद् or षत्) An assembly, a meeting, an audience or congre- gation. E. परि around, सद् to go, aff. आधारे क्विप्।
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिषद् [pariṣad], f.
An assembly, a meeting, council, audience; परिषत् स्याद्दशावरा Ms.12.111; अभिरूपभूयिष्ठा परिषदि- यम् Śi.1.
A religious assembly or synod; चातुर्वैद्यः प्रकल्पी च अङ्गविद् धर्मपाठकः । त्रयश्चाश्रमिणो वृद्धाः परिषत् स्याद्दशा- वरा ॥ Aṅgirasasmṛiti.
A group, collection, circle; बटुपरिषदं पुण्यश्रीकः श्रियेव सभाजयन् U.4.19; Rām.2.111.5. Also परिषत्त्वम्; सहस्रशः समेतानां परिषत्त्वं न विद्यते Ms.12.114.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिषद्/ परि-षद् ( सद्) P. -षदतिRV. ; -षीदतिAV. MBh. ( C. also -सीदति); to sit round , besiege , beset RV. AV. Kaus3. ; to suffer damage , be impaired MBh.
परिषद्/ परि-षद् mfn. surrounding , besetting RV.
परिषद्/ परि-षद् f. an assembly , meeting , group , circle , audience , council S3Br. Kaus3. Mn. (618861 षत्-त्वn. xii , 114 ) MBh. etc.
परिषद्/ परि-षद् f. N. of a village in the north g. पलद्य्-आदि