यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाशम्, क्ली, (पलं गतिं कम्पनमित्यर्थः । अश्नुते व्याप्नोतीति । पल + अश + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) पत्रम् । इत्यमरः । २ । ४ । १४ ॥ (यथा, महाभारते । ३ । ३५ । २५ । “बृहच्छाल इवानूपे शाखापुष्पपलाशवान् ॥” पलाशस्य पलाशवृक्षस्य इदम् । पलाशपुष्पादि । यथा कुमारे । ३ । २९ । “बालेन्दुवक्राण्यविकाशभावात् बभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन ममागतानां नखक्षतानीव वनस्थलीनाम् ॥”)

पलाशः, पुं, (पलाशानि पर्णानि सन्त्यस्य । “अर्श आदिभ्योऽच ।” ५ । २ । १२७ । इत्यच् ।) स्वनाम- ख्यातवृक्षः । स तु ब्रह्मणः स्वरूपः । यथा, -- सूत उवाच । “अश्वत्थरूपो भगवान् विष्णुरेव न संशयः । रुद्ररूपो वटस्तद्वत् पलाशो ब्रह्मरूपधृक् ॥ दर्शनस्पर्शसेवासु ते वै पापहराः स्मृताः । दुःखापद्व्याधिदुष्टानां विनाशकारिणो ध्रुवम् ॥ ऋषय ऊचुः । कथं वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः । एतत् कथय सर्व्वज्ञ ! संशयोऽत्र महान् हि नः ॥ सूत उवाच । पार्व्वतीशिवयोर्देवैः सुरतं कुर्व्वतोः किल । अग्निं ब्राह्मणवेशेन प्रेष्य विघ्नं कृतं पुरा ॥ ततस्तु पार्व्वती क्रुद्धा शशाप त्रिदिवौकसः । रेतःसेकसुखभ्रंशकम्पमाना तदा रुषा ॥ पार्व्वत्युवाच । क्रिमिकीटादयोऽप्येते जानन्ति सुरतेः सुखम् । तस्मान्ममसुखभ्रंशाद्यूयं वृक्षत्वमाप्स्यथ ॥ सूत उवाच । एवं सा पार्व्वती देवी अशपत् क्रुद्धमानसा । तस्माद्वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः ॥” इति पाद्मोत्तरखण्डे १६० अध्यायः ॥ तत्पर्य्यायः । किंशुकः २ पर्णः ३ वातपोथः ४ । इत्यमरः । २ । १ । २९ ॥ याज्ञिकः ५ त्रिपर्णः ६ वक्रपुष्पः ७ पूतद्रुः ८ ब्रह्मवृक्षकः ९ ब्रह्मोप- नेता १० काष्ठद्रुः ११ । अस्य गुणाः । कषा- यत्वम् । उष्णत्वम् । क्रिमिदोषविनाशित्वञ्च ॥ तद्- बीजगुणः । पामकण्डूतिदद्रुत्वग्दोषनाशित्वम् ॥ तत्पुष्पगुणः । उष्णत्वम् । कण्डूकुष्ठनाशित्वञ्च ॥ तत्पुष्पं चतुर्विधं यथा, राजनिर्घण्टे । “रक्तः पीतः सितो नीलः कुसुमैस्तु विभाव्यते । किंशुकैर्गुणसाम्योऽपि सितो विज्ञानदः स्मृतः ॥” “पलाशः किंशुकः पर्णो याज्ञिको रक्तपुष्पकः । क्षारश्रेष्ठो वातपोथो ब्रह्मवृक्षः समिद्वरः ॥ पलाशो दीपनो वृष्यः सरोष्णो व्रणगुल्मजित् । कषायः कटुकस्तिक्तः स्निग्धो गुदजरोगजित् ॥ भग्नसन्धानकृद्दोषग्रहण्यर्शःक्रिमीन् हरेत् । तत्पुष्पं स्वादु पाके तु कटु तिक्तं कषायकम् ॥ वातलं कफपित्तास्रकृच्छ्रजिद्ग्राहि शीतलम् । तृड्दाहशमनं वातरक्तकुष्ठहरं परम् ॥ फलं लघूष्णं मेहार्शःक्रिमिवातकफापहम् । विपाके कटुकं रूक्षं कुष्ठगुल्मोदरप्रणुत् ॥” इति भावप्रकाशः ॥ पलाशभेदा । यथा, -- “तद्भेदे स्यात् किंशुलुकः किञ्चलो हस्तिकर्णकः ॥” इति शब्दरत्नावली ॥ (पलाशस्य फलपुष्पादौ क्ली ॥) शटी । (पलं मांशं अश्नातीति । पल + अश् + अण् । यद्वा, पले मांसे आशा यस्य ।) राक्षसः । इति मेदिनी । शे, २४ ॥ हरितः । मगधदेशः । इति शब्दरत्नावली ॥

पलाशः, त्रि, (पलवद्धरिद्बर्णेन अश्यते व्याप्यते इति । अश + घञ् ।) हरिद्वर्णविशिष्टः । इति मेदिनी । शे, २४ ॥ निर्द्दयः । इति धरणिः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाश नपुं।

पत्रम्

समानार्थक:पत्र,पलाश,छदन,दल,पर्ण,छद

2।4।14।1।2

पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्. पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम्.।

 : नूतनपत्रम्, हिङ्गुपत्रम्

पदार्थ-विभागः : अवयवः

पलाश पुं।

पलाशः

समानार्थक:पलाश,किंशुक,पर्ण,वातपोथ

2।4।29।2।1

अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः। पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

पलाश पुं।

कचूरः

समानार्थक:शटी,गन्धमूली,षड्ग्रन्थिका,कर्चूर,पलाश

2।4।154।2।2

संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि। कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाश¦ न॰ पल--गतौ भावे घञर्थे क पलं गतिं कम्प्रनम-श्नुते अश--व्याप्तौ अण् उप॰ स॰।

१ पत्त्रे अमरः पलंमांससवर्णं ब्रह्ममांसोत्पन्नत्वेन कारणतया तद्वा अश्नुतेअश--व्याप्तौ अण् उप॰ स॰।

२ स्वनामख्याते वृक्षभेदेतस्योत्पत्तिः शत॰ ब्रा॰



३ ।

४ ।


“मांसेभ्य एवास्य प-लाशः समभवत्। तस्मात्स बहुरसो लोहितरसीलोहितमिव हि मांसंतेनैवैनं तद्रूपेण समर्धयन्तरेखादिरा भवन्ति बाह्ये पालाशा अन्तराणि ह्यस्थीनि[Page4272-b+ 38] बाह्यानि मांसानि स एवैनांस्तदायतने दधाति”। मच ब्रह्ममांसजत्वात् ब्रह्मरूपः यथोक्तं शत॰ब्रा॰

६६ ।

३७
“ब्रह्म वै पलाशः” इति
“अश्वत्थरूपो भगवान्विष्णुरेव न मंशयः। रुद्ररूपो वटस्तद्वत् पलाशीब्रह्मरूपदृक्” पह्योत्त

१६

० अ॰। तत्पर्य्यायगुणादिभावप्र॰ उक्तं यथा
“पलाशः किंशुकः षर्णो याज्ञिकोरक्तपुष्पकः। क्षारश्रेष्ठो वातपोथो ब्रह्मवृक्षः समि-द्वरः। पलाशो दीपनो वृष्यः सरोष्णो व्रणगुल्मजित्। भग्नसन्धानकृद्दोषग्रहण्यर्शःकिमीन् हरेत्। तत्पुष्पंस्वादु पाके तु कटुतिक्तं कषायकम्। वातलं कफपि-त्तास्रकृच्छ्रजिद् ग्राह शीतलम्। तृड्दाहशमनंवातरक्तकुष्ठहरं परम्। फलं लवूष्णं मेहार्शःक्रिमि-वातकफापहम्। विपाके कटुकं रूक्षं कुष्ठगुल्मोदर-प्रणुत्”।
“नवपलाशपलाशवनम्” माघः

३ स्त्रियां

४ शट्यांच स्त्री। पलं मांसमश्नाति अश--भोजये अण् उप॰स॰।

५ राक्षसे पुंस्त्री॰ मेदि॰ स्त्रियां जातित्वात् ङीष्। तस्य मांसभोजित्वात्तथात्वम्।

६ हरिद्वर्णे च

७ मग-धदेशे पु॰ शब्दरत्ना॰

८ लाक्षायां स्त्री राजनि॰ यौरा॰ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाश¦ mfn. (-शः-शा-शं)
1. Green.
2. Unfeeling, unmerciful, cruel. n. (-शं) A leaf. m. (-शः)
1. A tree bearing red blossoms, (Butea frondosa.)
2. A demon, a goblin.
3. A sort of Curcuma, (C. re- clinata, Rox.)
4. Ancient Beha4r or Magad'ha. f. (-शी)
1. Lac.
2. A kind of creeper. E. पल going, or flesh, अश् to spread, to eat, aff. अण् or अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाश [palāśa], a.

Green.

Unkind, cruel. -शः A demon.

N. of the Magadha country.

N. of a tree, Butea Frondosa (also called किंशुक); नवपलाशपलाशवनं पुरः Śi.6.2.

शम् The flower or blossom of this tree; बालेन्दु- वक्राण्यविकाशभावाद् बभुः पलाशान्यतिलोहितानि Ku.3.29.

A leaf or petal in general; भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान् Mb.1.1.89; विभिन्नमम्भोजपलाशशोभया Ki.4.27; चलत्पला- शान्तरगोचरास्तरोः Śi.1.21;6.2.

The green colour.

A finger (?) Gīrvāṇa; यत्पादपङ्कजपलाशविलासभक्त्या Bhāg.4.22.39. -शी Lac.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाश/ पला m. a राक्षसL.

पलाश/ पला mfn. cruel( lit. = next) L. 1.

पलाश n. (for 1. See. under पल)a leaf , petal , foliage( ifc. f( ई). ) S3Br. Gr2S3rS. MBh. etc.

पलाश n. the blade of a sharp instrument(See. परशु-प्)

पलाश n. the blossom of the tree Butea Frondosa Pan5c.

पलाश n. = श्मशानL.

पलाश n. = परिभाषणL.

पलाश m. ( ifc. f( आ). )the tree -BButea -FFrondosa (its older name is पर्णSee. ) Br. MBh. etc.

पलाश m. Curcuma Zedoaria L.

पलाश m. N. of मगधL.

पलाश m. ( ifc. it denotes beauty g. व्याघ्रा-दि)

पलाश m. cochineal L.

पलाश m. red lac L.

पलाश mfn. green L. ( w.r. for पालाश).

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Palāśa, like Parṇa, denotes ‘leaf’ in the Brāhmaṇas.[१] It also[२] designates the tree Butea frondosa, of which Parṇa is the early name.

  1. Kauṣītaki Brāhmaṇa, x. 2;
    Śatapatha Brāhmaṇa, i. 5, 4, 5;
    v. 2, 1, 17 etc.;
    Chāndogya Upaniṣad, iv. 14, 3.
  2. Aitareya Brāhmaṇa, ii. 1;
    Śatapatha Brāhmaṇa, i. 3, 3, 19;
    ii. 6, 2, 8, etc.

    Cf. Zimmer, Altindisches Leben, 59.
"https://sa.wiktionary.org/w/index.php?title=पलाश&oldid=473867" इत्यस्माद् प्रतिप्राप्तम्