पाणिनि
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाणिनिः, पुं, (पणिनो मुनेर्युवापत्यम् । पणिन् + इञ् । न टिलोपः ।) मुनिविशेषः । तत्पर्य्यायः । आहिकः २ दाक्षीपुत्त्रः ३ शालङ्की ४ पाणिनः ५ शालातुरीयः ६ । इति त्रिकाण्डशेषः ॥ * ॥ (अयं हि पणिन्-वंशसम्भूतः प्रसिद्धो व्याकरण- कर्त्ता । अस्य माता दाक्षी इत्याख्यया विश्रुता । यथा, पातञ्जलकारिकायाम् । १ । १ । २० । “सर्व्वे सर्व्वपदादेशा दाक्षीपुत्त्रस्य पाणिनेः ॥” तथाच शिक्षायाम् । ५६ । “शङ्करः शाङ्करीं प्रादाद्दाक्षीपुत्त्राय धीमते । वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥” अस्य शालातुरीय इत्याख्यापि दृश्यते । यथा, अभिधानचिन्तामणौ । ३ । ५१५ । “ -- अथ पाणिनौ । शालातुरीयदाक्षेयौ -- ॥” “गान्धारप्रदेशविशेषशलातुरग्रामजातत्वा- देवास्य तथा नाम ।” इति चिन्तामणिटीका ॥ परे तु शलातुरग्रामोऽस्य जन्मस्थानमिति न स्वीकुर्व्वन्ति । यतः शलातुरोऽभिजनोऽस्य इति व्युत्पत्त्या शालातुरशब्देन शलातुरदेशोद्भवे जने एवार्थो नावगम्यते । अष्टाध्यायीसूत्र- पाठस्य “तूदीशलातुरवर्म्मतीकूचवारात् ढक् छण् ढञ् यकः ।” ४ । ३ । ९४ । सूत्रात् अभि- जनार्थे एव छण्प्रत्ययः । वृत्तिकारभट्टोजी- दीक्षितेन तु “अभिजनश्च ।” ४ । ३ । ९० । इति सूत्रे “यत्र स्वयं वसति स निवासः । यत्र पूर्ब्बैरुषितं सोऽभिजनः ।” इत्यभिजनशब्द- स्यार्थः प्रदर्शितः । अतः स्पष्टतः शलातुर- प्रदेशः पाणिनेः पूर्ब्बपुरुषाणां वासस्थानमित्ये- वावगम्यते नतु तस्येति ।
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाणिनि¦ पु॰ पणिनो यून्यपत्यम् अण् ततः यूनि इञ् नटिलोपः। पाणिनिनामके मुनौ
“येनाक्षरसंमास्ना-यमधिगम्य महेश्वरात्। कृत्स्नं व्याकरणं चक्रे तस्मैपाणिनये नमः” शेखरः। स च अष्टाध्यायीरूपसूत्रपाठंगणपाठं घातुपाठं लिङ्गानुशासनं शिक्षारूपं च ग्रन्थप-ञ्चकं चकार। पाणिनिमतञ्च सर्वदर्शनसंग्रहे दर्शितंततो दिङ्मात्रं प्रदर्श्यते ते।
“भवति च च्याकरणशास्त्रस्य शब्दानुशासनं प्रयोजनं (तस्यतदुद्देशेन प्रवृत्तेः तत्प्रयोजनत्वम्) यथा स्वर्गोद्देशेन प्रवृ-त्तस्य यागस्य स्वर्गः प्रयोजनं तस्मात् शब्दानुशिष्टिः सं-स्कारपदवदनीया शब्दानुशासनस्य प्रयोजनम्। नन्वेवम-प्याभमतं प्रयोजनं न लभ्यते तदपायाभावात्। अथ प्रति-[Page4291-a+ 38] पदपाठ एवाभ्युपाय इति मन्येथाः तर्हि स ह्यनभ्यु-पायः शब्दानां प्रतिपत्तौ प्रतिपदपाठो भवेत् शब्दाप-शब्दभेदेनानन्त्याच्छब्दानाम् एवं हि समाम्नायते
“वृह-स्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदपाठविहितानांशब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम” वृहस्प-तिश्च प्रवक्ता इन्द्रोऽध्येता दिव्यं वर्षसहस्रमध्ययनकालःन च पारावाप्तिरभूत् किमुताद्य यश्चिरं न जीवतिअधीतबोधाचरणप्रचारणैश्चतुर्भिरुपायैर्विद्योपयुक्ता भ-वति। तत्राध्ययनकालेनैव सर्वमायुरुपयुक्तं स्यात्तस्मादन-भ्युपायः शब्दानां प्रतिपत्तौ प्रतिपदपाठ इति प्रयोजनंन सिद्ध्येदिति चेन्मैवं शब्दप्रतिपत्तेः प्रतिपदपाठ-साध्यत्वानङ्गीकारात् प्रकृत्यादिविभागकल्पनावत्सु ल-क्ष्येषु सामान्यविशेषरूपाणां लक्षणानां पर्जन्यवत् सकृदेयप्रवृत्तौ बहूनां शब्दानामनुशासनोपलम्भाच्च तथाहिकर्मण्यण्, इत्येकेन सामान्यरूपेण लक्षणेन कर्मोपपदाद्धा-तुमात्रादण्प्रत्यये कृते कुम्भकारः काण्डलाव इत्यादीनांबहूनां शब्दानामनुशासनमुपलभ्यते एवमातोऽनुपसर्गेकइति। प्रतिपदपाठस्याशक्यत्वप्रतिपादनपरोऽर्थवादः। नन्व-न्येष्वप्यङ्गेषु सत्सु किमित्येतदेवाद्रियते। उच्यते प्रधा-नञ्च षट्स्वङ्गेषु व्याकरणम्। प्रधाने च कृतो यत्नः फल-वान् भवति। तदुक्तम्
“आसन्नं ब्रह्मणस्तस्य तपसामुत्तमंतपः। प्रथमं छन्दसामङ्गमाहुर्व्याकरणं बुधाः” इति। तस्मात् व्याकरणशास्त्रस्य शब्दानुशासनं भवति साक्षात्प्रयोजनं पारम्पर्य्येण तु वेदरक्षादीनि। अतएवोक्तंभगवता भाष्यकारेण
“रक्षोहागमलघ्वसन्देहाः प्रयोज-नमिति” साधुशब्दप्रयोगवशादभ्युदयोऽपि भवति तथाचकथितं कात्यायनेन
“शास्त्रपूर्वके प्रयोगेऽभ्युदयस्तत्तुल्यंवेदशब्देनेति”। अन्यैरप्युक्तम्
“एकः शब्दः सम्यग्ज्ञातःसुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग्भवतीति”। तथा
“नाकमिष्टसुखं यान्ति सुयुक्तैर्बद्धवाग्रथैः। अथ पत्-काषिणो यान्ति ये चोत्क्रमणाभाषिणः”।
“नन्वचेतनस्यशब्दस्य कथमीदृशं सामर्थ्यमुपपद्यत इति चेन्मैवं म-म्येथाः महता देवेन साम्यश्रवणात् तदाह श्रुतिः
“चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासोअस्य। त्रिधा बद्धो वृषभो सोरवीति महो देवो मत्यांआविवेश”। व्याचकार च भाष्यकारः
“चत्वारि शृ-ङ्गाणि चत्वारि पदलातानि नामाख्यातोपसर्गनिपाताः,त्रयो अस्य पादाः लडादिविषयाः त्रिधा भूतभविष्य-[Page4291-b+ 38] द्वर्त्तमानकालाः। द्वे शोर्षे द्वौ नित्यानित्यात्मानौ नित्यःकार्यश्च व्यङ्ग्यव्यञ्जकभेदात्, सप्तहस्तासो अस्य तिडा सहसप्त सुब्विभक्तयः, त्रिधा बद्धः त्रिषु स्थानेषु उरसिकण्ठे शिरसि च वद्ध, वृषभ इति प्रसिद्धवृषभत्वेन रूपणंक्रियते वर्षणाद्वर्षणञ्च ज्ञानपूर्वकानुष्ठानेन फलप्रदत्वं,रोरवीति शब्दं करोति रौतिः शब्दकर्म्मा। इह शब्द-शब्देन प्रपञ्चो विवक्षितः। महौ देवो मर्त्यां आविवेशमहादेवः शब्दः मर्त्या मरणधर्म्माणो मनुष्यास्तानाविवे-शेति महता देवेन परेण ब्रह्मणा साम्यमुक्तं स्यादिति” जगन्निदानं स्फोटाख्यो निरवयवो नित्यः शब्दो ब्रह्मै-वेति हरिणाभाणि ब्रह्मकाण्डे
“अनादिनिधनं ब्रह्मशब्दतत्त्वं यदक्षरम्। विवर्त्ततेऽर्थभावेन प्रक्रिया जगतोयतः” इति। ननु नामाख्यातभेदेन पदद्वैविध्यप्रतीतेःकथं चातर्विध्यमुक्तमिति चेन्मैवं प्रकारान्तरस्य प्रसिद्ध-त्वात्। तदुक्तं प्रकीर्णके
“द्विधा कैश्चित् पदं भिन्नंचतुर्द्धा पञ्चधापि वा। अपोद्धृत्यैव वाक्येभ्यः प्रकृति-पत्ययादिवदिति”।
“कर्भप्रवचनीयेन वै पञ्चमेन सहपदस्य पञ्चविधत्वमिति” हेलाराजो व्याख्यातवान्। कर्म-प्रवचनोयास्तु क्रियाविशेषीपजनितसम्बन्धावच्छेदहेतवइति सम्बन्धविशेषद्योतनद्वारेण क्रियाविशेषद्योतनादुप-सर्गेष्वेवान्तर्भवतीत्यभिसन्धाय षढचातुर्विव्यं भाष्यकारे-णोक्तं युक्तमिति विवेक्तव्यम्। ननु भवता स्फोटात्मानित्यः शब्द इति निजागद्यते तन्न मृष्यामहे तत्र प्रमा-णाभावादिति केचित् अत्रोच्यते प्रत्यक्षमेवात्र प्रमाणंगोरित्येकं पदमिति नानावर्णातिरिक्तैकपदावगतेः सर्व-जनीनत्वान्न ह्यसति बाधके पदानुभवः शक्यो मिथ्येतिवक्तुं पदार्थप्रतीतेरन्यथानुपपत्त्यापि स्फाटोऽभ्युपग-न्तव्यः। न च वर्णेभ्य एव तत्प्रत्ययः प्रादुर्भवतोति परी-क्षाक्षमं विकल्पासहत्वात् किं समस्ता व्यस्ता वा अर्थ-प्रत्ययं जनयन्ति? नाद्यः वर्णानां क्षणिकानां समूहा-सम्भवात् नान्त्यः व्यस्तवर्णभ्योऽर्थप्रत्ययासम्भवात्। न चव्याससमासाभ्यामन्यः प्रकारः समस्तीति तस्माद्वर्णानांवाचकत्वानुपपत्तौ यद्बलादर्थप्रतिपत्तिः स स्फोट इतिवर्णातिरिक्तो वर्णाभिव्यङ्गोऽर्थप्रत्यायकी नित्यः शब्दःस्फोट इति तद्विदो वदन्ति। अतएव स्फुट्यते व्यज्यतेवर्णैरिति स्फोटो वर्णाभिव्यङ्ग्यः स्फुटीमनत्यस्मादर्थइति स्फोटोऽर्थप्रत्यायक इति स्फोटशब्दार्थसुभयथा नि-राहुः। तथाचोक्तं भगवता प{??}ञ्जलिना महाभाष्ये[Page4292-a+ 38]
“अथ गौरित्यत्र कः शब्दो? येनोच्चरितेन सास्नालाङ्गू-लककुदखुरविषाणानां सम्प्रत्ययो भवति स शब्दद इत्यु-च्यते” इति। विवृतञ्च कैयटेन
“वैयाकरणा वर्णव्यति-रिक्तस्य पदस्य वाचकत्वमिच्छन्ति वर्णानां वाचकत्वेद्वितीयादिवर्णोच्चारणानर्थक्यपसङ्गादित्यादिना तद्व्यति-रिक्तः स्फोटो नादाभिव्यङ्ग्यो वाचको विस्तरेण वाक्य-पटीये व्यवस्थापित” इत्यन्तेन प्रबन्धेन। ननु स्फोटस्या-प्यर्थप्रत्यायकत्वं न घटते विकल्पासहत्वात् किमभिव्यक्तःस्फोटोऽर्थं प्रत्याययति अनभिव्यक्तो वा न चरमः सर्वदाअर्थप्रत्ययलक्षणकार्य्योत्पादप्रसङ्गात् स्फोटस्य नित्यत्वाभ्युप-गमेन निरपेक्षस्य हेतोः सदा सत्त्वेन कार्य्यस्य विलम्बा-योगात्। अथैतद्दोषपरिजिहीर्षया अभिव्यक्तः स्फोटोऽर्थंपत्यायतीति कक्षीक्रियते तथाभिव्यञ्जयन्तो वर्णाः किंप्रत्येकमभिव्यञ्जयन्ति सुम्भूय वा पक्षद्वयेऽपि वर्णानां वाच-कत्वपक्षे भवता ये दोषा भाषितास्त एव स्फोटाभिव्यञ्जक-त्वपक्षे आवर्त्तनीयाः। तदुक्तं भट्टाचार्य्यैर्मीमांसाश्लोकवा-र्त्तिके
“यस्यानवयवः स्फोटो व्यज्यते वर्णबुद्धिभिः। सो-ऽपि पर्य्यनुयोगेन नैकेनापि विमुच्यते” इति।
“विभक्त्यन्वंपदम्” विभक्त्यन्तेष्वेव वर्णेषु पाणिनिना
“ते विभ-क्त्यन्ताः पदमिति” गौतमेव च पदसंज्ञायाविहितत्वात्सङ्केतग्रहणेनानुग्रहबशाद्वर्णेष्वेव पदबुद्धिर्भविष्यति। तर्हि सर इत्येतस्मिन् पदे यावन्तो वर्णास्तावन्त एव रसइत्यत्रापि वनं नवं नदी दीनी रामो मारो राजा जारे-त्यादिष्यर्थभेदप्रतीतिर्न स्यादिति चेन्न क्रमभेदेन भेदसम्भ-वात् तदुक्तं तौतातिकैः
“यावन्तो यादृशा ये च यदर्थ-प्रतिपादने। वर्णाः प्रज्ञातसामर्थ्यास्त्रे तथैवावबोधकाः” इति। तस्माद्यश्चोभयोः समो दोषो न तेनैकश्चोद्योभवतीति न्यायात् वर्णानामेव वाचकत्वोपपत्तौ नाति-रिक्तस्फोटकल्पनाऽवकल्पते इति चेत् तदेतत् काशकुशाव-लम्बनकल्पं विकल्पानुपपत्तेः किंवर्णमात्रे पदप्रत्ययाव-लम्बनं वर्णसमूहे वा? नाद्यः परस्परविलक्षणवर्णाना-मभिन्नं निमित्तं पूष्पेषु विना सूत्रं मालाप्रत्ययवदित्येकंपदमिति प्रतिपत्तेरनुपपत्तेः नापि द्वितीयः उच्चरित-प्रध्वस्तानां वर्णानां समूहभावासम्भवात्। तत्र हि स-मूहव्यपदेशः ये पदार्था एकस्मिन् प्रदेशे सहावस्थिततयावहवोऽनुभूयन्ते यथा एकस्विन् प्रदेशे सहावस्थिततयानु-भूयमानेषु धवखदिरपलाशादिषु समूहव्यपदेशः यथा वागजगरतुरगादिषु, न च ते वर्णास्तथानुभूयन्ते उत्-[Page4292-b+ 38] पन्नप्रध्वस्तत्वात्। अभिव्यक्तिपक्षेऽपि क्रमेणैवाभिव्यक्तौसमूहासम्भवात् नापि वर्णेषु काल्पनिकः समूहः कल्प-नीयः परस्पराश्रयप्रसङ्गात्। एकार्थप्रत्यायकत्वसिद्धौतदुपाधिना वर्णेषु पदत्वप्रतीतिः तत्सिद्धावेकार्थप्रत्या-यकत्वसिद्धिरिति। तस्माद्वर्णानां वाचकत्वासम्भवात्स्फोटोऽभ्युपगन्तव्यः। ननु स्फोटवाचकतापक्षेऽपि प्रा-गुक्तविकल्प प्रसरेण घट्टकुटीप्रभातायितमिति चेत् तदेत-न्मनोराज्यविजृम्भणं वैषम्यसम्भवात्। तथाहि अभि-व्यञ्जकोऽपि प्रथमो ध्वनिः स्थोटमस्फोटमभिव्यनक्तिउत्तरोत्तराभिव्यञ्जकक्रमेण स्फुटं स्फुटतरं स्फुटतमं,यथा स्वाध्यायः सकृत् पठ्यमानो नावधाय्यते अभ्यासेनतु स्फुटाध्यवसायः यथा वा रत्नतत्त्वं प्रथमप्रतीतौ स्फुटंन चकास्ति चरमे चेतसि यथावदभिव्यज्यते
“नादैराहि-तवीजायामन्त्येन ध्वनिना सह। आवृत्तिपरिपाकायांबुद्धौ शब्दोऽवधार्यतं” इति प्रामाणिकोक्तेः। तस्मादस्मा-च्छब्दादर्थं प्रतिपद्यामहे इति व्यवहारवशाद्वर्णानाम्अर्थवाचकत्वानुपपत्तेः प्रथमे काण्डे तत्रभवद्भिर्भर्तृहरि-भिरभिहितत्वात् निरवयवमर्थप्रत्यायकं शब्दतत्त्वं स्फो-टाह्वयवमभ्युपगन्तव्यमित्येतत् सर्वम्
“परमार्थसंविल्लक्षण-सत्ता जातिरेव सर्वेषां शब्दानामर्थ इति प्रतिपादनपरेजातिसमुद्देशे प्रतिषादितम्। यदि सत्तैवार्थः सर्वेषांशब्दानां पर्य्यायता स्यात् तथा च क्वचिदपि युगपत्त्रि-चतुरपदप्रयोगायोग इति महच्चातुर्य्यमायुष्मतः। तदुक्तम्
“पर्य्यायाणां प्रयोगो हि यौगपद्येन नेष्यते। पर्य्याये-णैवः ते यस्माद्वदन्त्यर्थं न संहताः” इति। तस्मादयं पक्षोन क्षोदक्षम इति चेत् तदेतद्गगनरोमन्थकल्पं नीललो-हितपीताद्युपरञ्जकद्रव्यभेदेन स्फटिकमणेरिव सम्बन्धि-भेदात् सत्तायास्तदात्मना भेदेन प्रतिपतिसिद्धौ गोसत्तादि-रूपगोत्वादिभेदनिबन्धनव्यवहारवैलक्षण्योपपत्तेः तथा-चाप्तवाक्यम्
“स्फटिकं विमलं द्रव्यं यथा युक्तं पृथक्पृथक्। नीललोहितपीताद्यैस्तद्वर्णमुपलभ्यते” इति। तथा हरिणाप्युक्तम्
“सम्वन्धिभेदात् सत्तैव भिद्यमानागवादिषु। जातिरित्युच्यते तस्यां सर्वे शब्दा व्यव-स्थिताः। तां प्रातिपदिकार्थञ्च धात्वर्थञ्च प्रचक्षते। सासत्ता सा महानात्मा तामाहुस्त्वतलादयः” इति। आ-श्रयभूतैः सम्बन्धिभिर्भिद्यमाना कल्पितभेदा गवाश्वादिषुसत्तैव महासामान्यमेव जातिः गोत्वादिकमपटं सा-मान्य परभार्थतस्ततो भिन्नं न भवति गोसत्तैव गोत्वं[Page4293-a+ 38] नापरमन्वयि प्रतिभासते एवमश्वसत्ता अश्वत्वमित्यादिवाच्यम्। एवञ्च तस्यामेव गवादिभिन्नायां सत्तायांजातौ गोशब्दादयो वाचकत्वेन व्यवम्थिताः प्रातिपदि-कार्थञ्च सत्तामाहुः। भाववचनो धातुरिति पक्षेभावः सत्तैवेति धात्वर्थः सत्ता भवत्येव क्रियावचनो धातुरिति पक्षेऽपि
“जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्त्ति-नीमिति” जातिपदार्थनयानुसारेणानेकव्यक्तिक्रियासमुद्देशेक्रियाया जातिरूपत्वप्रतिपादनात् धात्वर्थः सत्ता भवत्येवतस्य भावस्त्वतलाविति भावार्थे त्वतलादीनां विधानात्सत्तावाचित्वं युक्तं सा च सत्ता उदयव्ययवैधुर्य्यान्नित्यासर्वस्य प्रपञ्चस्य तद्विवर्त्ततया देशतः कालतो वस्तुतश्चपरिच्छेदराहित्यात् सा सत्ता महानात्मेति व्यपदिश्यतइति कारिकाद्वयार्थः। द्रव्यपदार्थसंविल्लक्षणं तत्त्वमेवसर्वशब्दार्थ इति सम्बन्धसमुद्देशे समर्थितम्
“सत्यं वस्तुतदाकारैरसत्यैरवधार्य्यते। असत्योपाधिभिः शब्दैः सत्य-मेवाभिधीयते। अध्रुवेण निमित्तेन देवदत्तगृहं यथा। गृहीतगृहशब्देन शुद्धमेवाभिधीयते” इति। भाष्य-कारेणापि
“सिद्धे शब्दार्थसम्बन्धे” इत्येतद्वार्त्तिकव्याख्या-नावसरे द्रव्यं हि नित्यमित्यनेन ग्रन्थेन अश्वत्थोपाध्य-वच्छिन्नं ब्रह्मतत्त्रं द्रव्यशब्दवाच्यं सर्वशब्दार्थः” इति नि-रूपितम्। जातिशब्दार्थवाचिनो वाजप्यायनस्य मते गवा-दवः शब्ढाः भिन्नद्रव्यसमवेतां जातिमभिदवति तस्यामव-गाह्यमानायां तत्सम्बन्धात् द्रव्यमवगम्यते, शुक्लादयःशब्दा गुणसमवेतां जातिमाचक्षते गुणे तत्सम्बन्धात्प्रत्ययः द्रव्यसम्बन्धिसम्बन्धात् संज्ञाशब्दानामुत्पत्तिप्रभृत्या-विनाशात् शैशवकौमारयौवनाद्यवस्थादिभेदेऽपि स ए-वायमित्यभिप्रत्ययबलात् सिद्धा देवदत्तत्वादिजातिरभ्युप-गन्तव्या। क्रियास्वपि जातिरालक्ष्यते सैव धातुवाच्यापचतीत्यादावनुवृत्तप्रत्ययस्य प्रादुर्भावात्। द्रव्यपदार्थ-वादिव्याडिनये शब्दस्य व्यक्तिरेवाभिधेयतया प्रतिभासतेजातिस्तूपलक्षणतयेति नानन्त्यादिदोषावकाशः। पाणि-न्याचार्य्यस्योभयं सम्मतं यती जातिपदार्थमभ्युपगम्य
“जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्” इत्यादि-व्यवहारः, द्रव्यपदार्थ{??}ङ्गीकृत्य
“सरूपाणामेकशेष एकवि-भक्तौ” इत्यादिः। व्याकरणस्य सर्वपार्षदत्वान्मतद्वयाभ्युपगमेन कश्चिद् विरोधः। तस्मात् अद्वयं सत्यं परं ब्रह्मतत्त्वंसर्वशब्दार्थ इति स्थितम्। तदुक्तम्
“तस्माच्छक्तिवि-भागेन सत्यः सर्वः सदात्मकः।
१ कोऽर्थः शब्दवाच्यत्वे[Page4293-b+ 38] बहुरूपः प्रकाशते” इति। सत्यस्वरूपमपि हरिणोक्तंसम्बन्धसमुद्देशे
“यत्र द्रष्टा च दृश्यञ्च दर्शनञ्चाविकल्पि-तम्। तस्यैवार्थस्य सत्यत्वमाहुस्त्रय्यन्तवेदिनः” इति। द्रव्यसमुद्देशेऽपि
“विकारोपगमे सत्यं सुवर्णं कुण्डलेयथा। विकारापगमो यत्र तामाहुः प्रकृतिं पराम्” इति। अभ्युपगताद्वितीयत्वनिर्वाहाय वाच्यवाचकयो-रविभागः प्रदर्शितः
“वाच्या सा सर्वशब्दानां शब्दाच्च नपृथक् ततः। अपृथक्त्वेऽपि सम्बन्धस्तयोर्नानात्मनोरिव” इति तत्तदुपाधिपरिकल्पितभेदबहुलतया व्यवहारस्या-विद्यामात्रकल्पितत्वेन प्रतिनियताकारोपधीयमानरूपभेदंब्रह्मतत्त्वं सर्वशब्दविषयः अभेदे च पारमार्थिके संवृति-वशाद्व्यवहारदशायां स्वप्नावस्थावदुच्चावचः प्रपञ्ची विव-र्त्तत इति कारिकार्थः। तदाहुर्वेदान्तवादनिपुणाः।
“यथा स्वप्नप्रपञ्चोऽयं मयि मायाविजृम्भितः। एवं जा-ग्रत्प्रपञ्चोऽपि मयि मायाविजृम्भितः” इति। तदित्थंकूटस्थे परस्मिन् ब्रह्मणि सच्चिदानन्दरूपे प्रत्यगभिन्ने-ऽवगते अनाद्यविद्यानिवृत्तौ तादृग्ब्रह्मात्मनावस्थानलक्षणंनिःश्रेयसं सेत्स्यति।
“शब्दब्रह्मणि निष्णातः परं ब्रह्मा-धिगच्छति” इत्यभियुक्तोक्तेः। तथाच शब्दानुशासनशा-स्त्रस्य निःश्रेयससाधनत्वं सिद्धम्। तदुक्तम्
“तद्द्वारमप-वर्गस्य वाङ्मलानां चिकित्सितम्। पवित्रं सर्वविद्या-नामधिविद्यं प्रचक्षते” इति। तथा
“इदमाद्यं पद-स्थानं सिद्धिसोपानपर्वणाम्। इयं सा मोक्षमार्गाणागजिह्मा राजपद्धतिरिति”। तस्पाद्व्याकरणाशास्त्रंपरमपुरुषार्थसाधनतयाध्येतव्यमिति”। पाणिनिप्रोक्ताष्टाध्यायीरूपस्य व्याकरणत्वम्। तत्तात्पर्यञ्चवाक्यपदीये हरिणा ब्रह्मकाण्डे विस्तरत उक्तं दृश्यम्।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाणिनि¦ m. (-निः) Pa4n4ini, a Muni and inspired grammarian. E. पाणिन् a proper name and इञ् aff. of descent.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाणिनिः [pāṇiniḥ], N. of a celebrated grammarian who is considered as an inspired muni, and is said to have derived the knowledge of his grammar from Śiva; येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं चक्रे तस्मै पाणिनये नमः ॥ Śekhara.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाणिनि m. (according to Pa1n2. 4-1 , 95 patr. fr. पाणिन)N. of the most eminent of all native Sanskrit grammarians (he was the author of the अष्टा-ध्यायीand supposed author of sev. other works , viz. the धातु-पाठ, गण-पाथ, लिङ्गा-नुशासनand शिक्षा; he was a गान्धारand a native of शलातुर, situated in the North-West near Attok and Peshawar [see iv , 3 , 94 and शालातुरीय] ; he lived after गौतमबुद्धbut B.C. and is regarded as an inspired मुनि; his grandfather's name was देवलand his mother's दाक्षि[see s.v. and अनन्त])
पाणिनि m. of a poet (by some identified with the grammarian).
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a त्रयार्षेय. M. १९८. १०.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
PĀṆINI : The author of the Sanskrit Grammar, Pāṇi- nīya.
1) General information. There is nowhere else in this world a grammar so scientific and so complete as Pāṇinīya. The book contains about four thousand aphorisms. Pāṇini was an inspired sage and he got his knowledge from Śiva. It has not been possible to gather much information about the life of such a celebrated grammarian. Patañjali believes that he was the son of Dākṣi. He addresses Pāṇini as Acārya, Bhagavān and Maharṣi. The Chinese traveller Huen Tsang says that the grammar of all the languages in this world has its origin from Pāṇinīya. Rāmabhadradīkṣita says that Pāṇini was the son of the sage Pāṇi.
2) Life period. There is difference of opinion regarding the period during which Pāṇini lived. Dr. Goldstucker and Bhandarkar believe that Pāṇini lived before 500 B.C. while Vincent Smith and Belvelkar fix the period in 700 B.C. Patañjali, the author of the celebrated ‘Mahābhāṣya’ (commentary on Pāṇinīya) lived in 200 B.C. Patañjali has contradicted many of the un- just criticisms made by Kātyāyana about Pāṇinīya. So Pāṇini must have lived before Kātyāyana. Pāṇini has made no reference to Buddha and so he must have lived before Buddha. Pāṇini has shown great grasp over the laws of Smṛti and so he must have lived after Manu. Considering all these facts together it will be proper to fix the period of the end of the sixth century or the beginning of the seventh century B.C.
3) Place of birth. Evidences are lacking to correctly fix the birth-place of Pāṇini. Many pandits believe that Pāṇini was born in the village of Śālātura in the city of Attock in the state of Gāndhāra. But Pāṇini has spent the major portion of his life in Pāṭalīputra. So some pandits are of opinion that only the ancestors of Pāṇini belonged to the village of Śālātura and Pāṇini was born and brought up in Pāṭalīputra. Jaimini and Bhartṛhari have stated that Pāṇini was a Śiṣṭa. Śiṣṭas were brahmins well-versed in the Śāstras and devoid of earthly pleasures who inhabited the area surrounded by the Himālayas in the north, Kālakavana (Bengal) in the east, Vindhya mountains in the south and the Ādarśa (Aravalli mountains) in the west.
4) A legend. There was a preceptor named Varṣa in Pāṭalīputra and Pāṇini had his education under him. Varṣa gradually acquired a large number of disciples and Pāṇini was the most dull-witted among them. But he was greatly devoted to his Guru and this pleased the wife of the Guru and she took great interest in Pāṇini. One day she called Pāṇini to her side and advised him to go to the Himālayas and do penance to propitiate Śiva to get knowledge from him. Pāṇini obeying instructions went and performed penance. Śiva was pleased and he granted him knowledge about a new grammar. By the time Pāṇini came back from the Himālayas with his grammar another disciple of Varṣa, Vararuci by name, had come down with a grammar from Indra. Pāṇini challenged Vararuci for a polemical contest. It took eight days and on the eighth day Vararuci defeated Pāṇini. At once there was a great humming sound from the sky and the grammar book of Vararuci was destroyed. After that Pāṇini defeated all his co-disciples in polemics and emerged as the greatest grammarian of the world. (Kathāpīṭha- lambaka, Kathāsaritsāgara, Taraṅga 4).
5) The birth of Pāṇinīya. When Pāṇini was doing penance to propitiate Śiva the latter appeared before him and started dancing. He sounded his musical instrument ḍhakkā (a large double drum) fourteen times. Each of it produced a different sound as follows (1) Aiuṇ (2) Ṛḷk (3) Eoṅ (4) Aiauc (5) Hayavaraṭ (6) laṇ (7) ñamaṅaṇanam (8) Jhabhañ (9) Ghaḍha- dhaṣ (10) Jabagaḍadaś (11) Khaphachaṭhathacaṭatav (12) Kapay (13) Śaṣasar (14) Hal. Pāṇini accepted these fourteen sounds as fourteen sūtras (aphorisms). They are called Pratyāhārasūtras. (The comprehension of several letters or affixes into one syllable effected by combining the first letter of a Sūtra with its final indicatory letter.). These Sūtras are now known as Māheśvarasūtras.
Pāṇini's grammar contains eight chapters and each chapter has got four pādas and each pāda contains many sūtras. He has taken examples from worldly and spiritual texts in literature. He has dealt with the origin of sounds, connection between two words and all such etymological details. Pāṇini's grammar is not a mere grammar book. It is a science of language in it- self.
_______________________________
*5th word in left half of page 566 (+offset) in original book.