यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाण्डवः, पुं, (पाण्डोस्तदाख्यया प्रसिद्धस्य राज्ञो- ऽपत्यम् । पाण्डु + “ओरञ् ।” ४ । २ । ७१ । इत्यञ् ।) पाण्डुनन्दनः । पञ्चपाण्डवोत्पत्ति- र्यथा, -- वैशम्पायन उवाच । “संवत्सरधृते गर्भे गान्धार्य्या जनमेजय ! । आह्वयामास वै कुन्ती गर्भार्थे धर्म्ममच्युतम् ॥ सा बलिं त्वरिता देवी धर्म्मायोपजहार ह । जजाप मन्त्रं विधिवद्दत्तं दुर्व्वाससा पुरा ॥ संगम्य सा तु धर्म्मेण योगमूर्त्तिधरेण ह । लेभे पुत्त्रं वरारोहा सर्व्वप्राणिहितं वरम् ॥ ऐन्द्रे चन्द्रसमायुक्ते मुहूर्त्तेऽभिजितेऽष्टमे । दिवामध्यगते सूर्य्ये तिथौ पुण्येऽभिपूजिते ॥ समृद्धयशसं कुन्ती सुषाव प्रवरं सुतम् । जातमात्रे सुते तस्मिन् वागुवाचाशरीरिणी ॥ एष धर्म्मभृतां श्रेष्ठो भविष्यति नरोत्तमः । विक्रान्तः सत्यवाक् चैव राजा पृथ्व्यां भविष्यति ॥ युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः । भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः । यशसा तेजसा चैव वृत्तेन च समन्वितः ॥ १ ॥ * ॥ धार्म्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् । प्राहुः क्षात्त्रं बलं ज्येष्ठं बलज्येष्ठं सुतं वृणु ॥ ततस्तथोक्ता भर्त्त्रा तु वायुमेवाजुहाव सा । तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥ तमप्यतिबलं जातं वागुवाचाशरीरिणी । सर्व्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ! ॥ इदमत्यद्भुतञ्चासीज्जातमात्रे वृकोदरे । यदङ्कात् पतितो मातुः शिलां गात्रैरचूर्णयत् ॥ कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल । नान्वबुध्यत तं सुप्तमुत्सङ्गे स्वे वृकोदरम् ॥ वज्रसंहननः सोऽथ कुमारो न्यपतद्द्गिरौ । पतता तेन शतधा शिला गात्रैर्विचूर्णिता ॥ तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागतः । यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम ! ॥ दुर्य्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप ! ॥ २ ॥ * ॥ जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् । कथन्नु मे वरः पुत्त्रो लोकश्रेष्ठो भवेदिति ॥ दैवे पुरुषकारे च लोकोऽयं संप्रतिष्ठितः । तत्र दैवन्तु विधिना कालयुक्तेन लभ्यते ॥ इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् । अप्रमेयबलोत्साहो वीर्य्यवानमितद्युतिः ॥ तं तोषयित्वा तपसा पुत्त्रं लप्स्ये महाबलम् । यं दास्यति स मे पुत्त्रं स गरीयान् भविष्यति ॥ नावरत्वे वरार्हायाः स्थित्वा चानघ ! नित्यदा ॥ गान्धार्य्याश्चैव नृपते ! जातं पुत्त्रशतन्तथा । श्रुत्वा न मे तथा दुःखमभवत् कुरुनन्दन ! ॥ इदन्तु मे महद्दुःखं तुल्यतायामपुत्त्रता । दिष्ट्या त्विदानीं भर्त्तुर्मे कुन्त्यामप्यस्ति सन्ततिः ॥ यदि चापत्यसन्धानं कुन्तिराजसुता मयि । कुर्य्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥ संस्तम्भो मे सपत्नीत्वात् वक्तुं कुन्तिसुतां प्रति । यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥ पाण्डुरुवाच । ममाप्येष सदा माद्रि ! हृद्यर्थः परिवर्त्तते । न तु तां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥ तव त्विदं मतं मत्वा प्रयतिष्याम्यतःपरम् । मन्ये ध्रुवं मयोक्ता सा वचनं प्रतिपत्स्यते ॥ वैशम्पायन उवाच । ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् । कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् ॥ मम चापिण्डनाशाय पूर्ब्बेषामपि चात्मनः । मत्प्रियार्थञ्च कल्याणि ! कुरु कल्याणमुत्तमम् । यशसेऽर्थाय चैव त्वं कुरु कर्म्म सुदुष्करम् ॥ एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् । तस्मात्ते भवितापत्यमनुरूपमसंशयम् ॥ ततो माद्री विचार्य्यैवं जगाम मनसाश्विनौ । तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ॥ नकुलं सहदेवञ्च रूपेणाप्रतिमौ भुवि । तथैव तावपि यमौ वागुवाचाशरीरिणी ॥ रूपसत्त्वगुणोपेतावेतावत्यश्विनावपि । भासतस्तेजसात्यर्थं रूपद्रविणसम्पदा ॥ नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः । भक्त्या च कर्म्मणा चैव तथाशीर्भिर्विशाम्पते ॥ ज्येष्ठं युधिष्ठिरेत्येवं भीमसेनेति मध्यमम् । अर्ज्जुनेति तृतीयञ्च कुन्तीपुत्त्रानकल्पयन् ॥ पूर्ब्बजं नकुलेत्येवं सहदेवेति चापरम् । माद्रीपुत्त्रावकथयंस्ते विप्राः प्रीतमानसाः ॥” इति महाभारते १ । १२३ -- १२४ ॥ तेषां पुत्त्रा यथा, -- “प्रतिबिन्ध्यः सुतः सोमः श्रुतकीर्त्तिस्तु चार्ज्जुनात् । शतानीकः श्रुतकर्म्मा द्रौपद्याः पञ्च विक्रमात् ॥” तेषां भार्य्या यथा, गारुडे १३९ अध्याये । “यौधेयी च हिडिम्बा च काशी चैव सुभद्रिका । विजया वै वेणुमती पञ्चभ्यस्तु सुताः क्रमात् ॥ देवको घटोत्कचश्च अभिमन्युश्च सर्व्वशः । अहोत्रो निरपत्रश्च परिक्षिदभिमन्युजः ॥”

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाण्डव¦ पु॰ पाण्डोरपत्यम् ओरञ्। पाण्डुनृपस्य क्षेत्रजेधर्मादिभ्योजाते युधिष्ठिरादौ
“यः स कौरव्यदायादःपाण्डुर्नाम नराधिपः। कामभोगान् परित्यज्य शतशृ-ङ्गमितो गतः। ब्रह्मचर्य्यव्रतस्थस्य तस्य दिव्येन हेतुना। साक्षाद्धर्मादयं पुत्रस्तत्र जातो युधिष्ठिरः। तथैवं बलिनांश्रेष्ठं तस्य राज्ञो महात्मनः। मातरिश्वा ददौ पुत्रंभीमं नाम महाबलम्। पुरुहुतादयं जज्ञे कुन्त्यामेवधनञ्जयः। यस्य कीर्त्तिर्महेष्वासान् सर्वानभिभवि-ष्यति। यौ तु माद्री महेष्वासावसूत पुरुषोत्तमौ। चश्विभ्यां पुरुषव्याघ्राविमौ तावपि पश्यत” भा॰ आ॰

१२

६ अ॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाण्डव¦ m. (-वः) A Pa4n4dava or descendant of PA4N4DU; especially ap- plied to YUDHIST'HIRA and his four brothers. E. पाण्डु a proper name, and patronymic aff. ओरञ् |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाण्डवः [pāṇḍavḥ], [पाण्डोरपत्यं पुमान् ओरञ्] 'A son or descendant of Pāṇḍu', N. of any one of the five sons of Pāṇḍu;i. e. युधिष्ठिर, भीम, अर्जुन, नकुल and सहदेव; मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय Bg.1.1; हंसाः संप्रति पाण्डवा इव वनादज्ञातचर्यां गताः Mk.5.6. -Comp. -आभीलः N. of Kṛiṣṇa. -श्रेष्ठः N. of Yudhiṣṭhira.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाण्डव m. a son or descendant of पाण्डुor a partisan of the पाण्डवs

पाण्डव m. ( pl. )the 5 reputed sons of पाण्डु( युधि-ष्ठिर, भीम, अर्जुन, नकुलand सह-देव; See. कुन्तीand माद्री) or their adherents MBh. Ka1v. etc.

पाण्डव m. N. of a mountain Lalit.

पाण्डव m. of a country Cat.

पाण्डव mf( ई)n. belonging to or connected with the पाण्डवs MBh.

"https://sa.wiktionary.org/w/index.php?title=पाण्डव&oldid=500889" इत्यस्माद् प्रतिप्राप्तम्