यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानकम्, क्ली, (पानाय कायतीति । कै + कः ।) पानद्रव्यविशेषः । तत्प्रकारो यथा, “यथोक्त- परिमितशर्करानिम्बूरसयुक्तोऽथवान्याम्लयुक्तः पक्करसः । इति पाकराजेश्वरः ॥ (यथा, सुश्रुते । १ । ४६ । “पानीयं पानकं मद्यं मृण्मयेषु प्रदापयेत् ॥” क्वचित् पुंस्यपि दृश्यते । यथा, तत्रैव । १ । ३९ । “एभिर्लेपान् कषायांश्च तैलं सर्पींषि पान- कान् ॥” तत्राम्रफलपानकम् । यथा, -- “आम्रमामं जलस्विन्नं मर्द्दितं दृढपाणिना । सिताशीताम्बुसंयुक्तं कर्पूरमरिचान्वितम् ॥ नारङ्गफलसम्भूतं पानकं वातनाशनम् । मधुरं विशदं रुच्यं सुस्निग्धं पित्तहृद्दृढम् ॥” चारस्य तु । “चारवृक्षफलजं सशर्करं मर्दितं शिशिरवारिणा दृढम् । ऐलमार्द्रकयुतेन सुवासं भक्तसिक्थमिलितं कृतहासम् ॥ चारस्य फलजं पानं गुरु वृष्यं रुचिप्रदम् । कफपित्तहरं श्रेष्ठं हृद्यं मधुरपाकि च ॥ परुषजीरचुक्रादिद्राक्षादाडिमजं तथा । एकैकं सम्भवं भिन्नं पानकं क्रियते बुधैः ॥ एवमम्लस्य पुष्पस्य फलस्याम्लस्य वा तथा । शर्करामरिचोन्मिश्रं रस्यं स्यात् पानकं वरम् ॥ एवं हि पानकं कार्य्यं सुधिया सुष्ठु यत्कृतम् । गुणा द्रव्यानुसारेण ज्ञातव्याः पानकेषु च ॥” यथास्य गुणाः, -- “श्रमक्षुत्तृट्क्लमहरं पानकं प्रीणनं गुरु । विष्टम्भि मूत्रलं हृद्यं यथाद्रव्यगुणञ्च तत् ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥ “गौडमम्लमनम्लं वा पानकं गुरु मूत्रलम् । तदेव खण्डमृद्वीकाशर्करासहितं पुनः ॥ साम्लं सुतीक्ष्णं सुहिमं पानकं स्यान्निरत्ययम् । “प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः । खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥”

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानकम् [pānakam], A drink, beverage, potion.

"https://sa.wiktionary.org/w/index.php?title=पानकम्&oldid=292500" इत्यस्माद् प्रतिप्राप्तम्