यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावनी, स्त्री, (पावयत्यनयेति । पू + णिच् + ल्युट् + ङीप् ।) हरीतकी । इति विश्वः ॥ तुलसी । गौः । इति राजनिर्घण्टः । गङ्गा । यथा, शङ्कराचार्य्यकृतगङ्गाष्टके । “ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लि- मुल्लासयन्ती स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती । क्षौणीपृष्ठे लुठन्ती दुरितचयचमूर्निर्भरं भर्त्- सयन्ती पाथोधिं पूरयन्ती सुरनगरसरित्पावनी नः पुनातु ॥” (इयन्तु गङ्गाया अंशविशेषः । यथा, मात्स्ये । १२० । ३९ -- ४१ । “ततो विसर्ज्जयामास संरुद्धां स्वेन तेजसा । नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः । ततो बिसर्ज्जयामास सप्त स्रोतांसि गङ्गायाः ॥ त्रीणि प्राचीमभिमुखं प्रतीचीं त्रीण्यथैव तु । स्रोतांसि त्रिपथगायास्तु प्रत्यपद्यन्त सप्तधा ॥ नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगा । सीता चक्षुश्च सिन्धुश्च तिस्रस्ता वै प्रतीच्यगाः ॥ सप्तमी त्वनुगा तासां दक्षिणेन भगीरथम् । तस्माद् भागीरथी सा वै प्रविष्टा दक्षिणो- दधिम् ॥” शाकद्बीपस्य नदीविशेषः । यथा, मत्स्यपुराणे । १२१ । ३१ । “नन्दा च पावनी चेव तृतीया परिकीर्त्तिता ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावनी [pāvanī], 1 The holy basil.

A cow.

The river Ganges.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावनी f. Terminalia Chebula L.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--नन्दा, one of the three branches of the गन्गा going to the east; फलकम्:F1: Br. II. १२. १६; १८. ४०, ५६-7; M. १२१. ४०; १२२. ३१; वा. ४७. ३८ and ५३.फलकम्:/F wife of हव्यवाहन. फलकम्:F2: Ib. २९. १४.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=पावनी&oldid=500925" इत्यस्माद् प्रतिप्राप्तम्