पिङ्गल
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिङ्गलम्, क्ली, (पिङ्गं लातीति । ला + कः ।) रीतिः । इति राजनिर्घण्टः ॥
पिङ्गलः, पुं, (पिङ्गो वर्णोऽस्यास्तीति । पिङ्ग + “सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।) नीलपीतमिश्रितवर्णः । तत्पर्य्यायः । कडारः २ कपिलः ३ पिङ्गः ४ पिशङ्गः ५ कद्रुः ६ । तद्- वति, त्रि । इत्यमरः । १ । ५ । १६ ॥ केचित् द्वयं द्वयं पर्य्यावमाहुः । अत्र नीलपीतः कपिलः । रोचनाभः पिशङ्गः । कनकपिङ्गलः कद्रुः । इति सुभूतिः ॥ “पिशङ्गो रोचना पाण्डुः कद्रुः कनकपिङ्गलः ॥” इति नाममाला ॥ “पिङ्गदीपशिखाभः स्यात् पिशङ्गः पद्मधूलिवत् । पीतनीलहरिद्रक्तः कडारस्तृणवह्निवत् ॥ अयन्तूद्रिक्तः पीताङ्गः कपिलो रोचनाच्छविः ॥ इत्यत्र भेदोऽपि दृश्यते । अल्पभेदत्वादिहासौ नादृतः ।” इति तट्टीकायां भरतः ॥ * ॥ नाग- भेदः । (यथा, महाभारते । १ । ३५ । ९ । “निष्ठानको हेमगुहो नहुषः पिङ्गलस्तथा ॥”) रुद्रः । चण्डांशुपारिपार्श्विकः । निधिभेदः । कपिः । अग्निः । इति मेदिनी । ले, ११३ ॥ मुनिविशेषः । (यथा, महाभारते । १ । ५३ । ६ । “ब्रह्माभवत् साङ्गरवो अध्वर्य्युश्चापि पिङ्गलः ॥”) नकुलः । स्थावरविषविशेषः । इति हेमचन्द्रः । ४ । १६५ ॥ क्षुद्रोलूकः । इति राजनिर्घण्टः ॥ (यक्षविशेषः । यथा, महाभारते । ३ । २३० । ५१ । “पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः ॥” पर्व्वतविशेषः । इति ब्रह्माण्डपुराणम् ॥) प्रभवादिषष्टिवर्षान्तर्गतैकपञ्चाशत्तम्रवर्षः । यथा, “देशभङ्गोऽथ दुर्भिक्षं समासात् कथयाम्यहम् । पिङ्गले चारुपद्माक्षि ! दुर्भिक्षं नर्म्मदातटे ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ पिङ्गलाचार्य्यकृतच्छन्दोग्रन्थविशेषः । यथा, -- “जो विविहमत्तसायरपारं पत्तो विविमलमै हेलम् । पढमं भासतरण्डो नाओसो पिङ्गलो जयै ॥” अस्य व्याख्या । “अथ छन्दःशास्त्रकर्त्तुः पिङ्गलाचार्य्यस्य स्तुति- रूपं मङ्गलं निर्विघ्नग्रन्थपरिसमाप्तये ग्रन्थकृत् करोति । विविधा नानाप्रकारकविन्यासविशिष्टा मात्रा यत्र तद्विविधमात्रं छन्दःकदम्बं तदेवं सागरः अतिदुर्गमत्वात् भाषा एव तरण्डा नौर्यस्य । प्राकृते ह्नस्वता तेन भाषयैव छन्दः- शास्त्रमुक्तवानित्यवगम्यते । केचित्तु लघुगुरु- रूपा या विविधा मात्रा सैव सागरः तत्पारं प्राप्तः अपिरवधारणे । विमलया मत्या हेला यत्र तद्यथा स्यात् निर्म्मलबुद्ध्या हेलयैव पारं गत इत्यर्थः । प्रथममित्यनेन छन्दःशास्त्रस्य प्रथमप्रणेतायमित्यवगम्यते । अर्थान्तरमप्यने- नैव व्यज्यते यो विविधमात्राभिः सागरपारं प्राप्तः विः पक्षी अर्थाद्गरुडः तस्य विमलमतौ हेला यत्र तत् यथा स्यात् भाषा अनुनयवाक् सैव नौर्यस्य ईदृशो नागो जयति । एवं हि श्रूयते भोक्तुमुद्यतं गरुडं दृष्ट्वा सकौशलं सवि- नयं तमुवाच भो गरुड ममेदं कौशलं पश्य यद्येकवारलिखितं मया लिख्यते तदा मां भक्ष इत्युक्त्वा सागरतीरं षड्विंशत्यक्षरपर्य्यन्तं प्रस्तारं प्रदर्श्य समुद्रं प्रविवेश गरुडोऽपि वञ्चनां गुरु- त्वेन तञ्च मत्वा तद्देशाद्विरराम एतादृशं बुद्धि- गौरवं यस्य अतएव जयति उत्कर्षेण वर्त्तते तं प्रति प्रणतोऽस्मीति व्यज्यते अथवा गाथायां भगणोपन्यासो मङ्गलार्थः प्रथमं भृत्योदासी- नयोर्भगणजगणयोर्योगोऽनुचितोऽपि कथमित्य- वहितैर्भाव्यम् ।” इति पिङ्गलग्रन्थस्तट्टीका च ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिङ्गल पुं।
सूर्यपार्श्वस्थः
समानार्थक:माठर,पिङ्गल,दण्ड,पारिपार्श्वक
1।3।31।6।2
भानुर्हंसः सहस्रांशुस्तपनः सविता रविः। पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा। कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः। प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः। इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः। माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः॥
स्वामी : सूर्यः
सम्बन्धि1 : सूर्यः
पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्
पिङ्गल पुं।
कपिलवर्णः
समानार्थक:कडार,कपिल,पिङ्ग,पिशङ्ग,कद्रु,पिङ्गल,बभ्रु,हरि
1।5।16।2।6
श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते। कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ॥
पदार्थ-विभागः : , गुणः, रूपम्
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिङ्गल¦ पु॰ पिङ्ग + सिध्मा॰ लच् पिङ्गं लाति--क वा।
१ नील-पीतमिश्रितवर्णे
३ तद्वति त्रि॰ अमरः। अस्मिन् परे घोषा॰पूर्वपूर्वपदमाद्युदात्तम्। प्राकृतभाषयाच्छन्दोग्रन्थकारके
३ नागभेदे
४ रुद्रे
५ सूर्यपारिपार्श्विकभेदे
६ निधिभेदे
७ वा-नरे नकुले
८ स्थावरविषभेदे च हेमच॰।
९ क्षुद्रोलूकेराजनि॰
“देशभङ्गोऽथ दुर्भिक्षं समासात् कथयाम्यहम्। पिङ्गले चारुपद्माक्षि! दुर्भिक्षं नर्मदातटे” इति ज्यो॰ त॰उक्ते प्रभवादिबर्षमध्ये
१० वर्षभेदे च।
११ नागराजभेदेभा॰ आ॰
३५ अ॰।
१२ यक्षभेदे भा॰ व॰
२३
० अ॰।
१३ रीतौपित्तले
१४ शिंशपायां च स्त्री राजनि॰।
१५ वामनदिग्-गजस्य स्त्रियां कुमुदस्य
१६ करिण्यां मेदि॰।
१७ कर्णि-कायां तन्त्रोक्ते
१८ नाडीभेदे हेमच॰। इडाशब्दे दृश्यम्
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिङ्गल¦ mfn. (-लः-ला-लं) Of tawny colour, brown, yellowish. m. (-लः)
1. Tawny, (the colour,) a dull brown, or yellow.
2. An attendant upon the sun.
3. The sun.
4. A fabulous being in the form of a Na4ga or serpent of lower regions, to whom a treatise on prosody is ascribed; he hence considered as a Muni, or inspired and divine personage.
5. A name of S4IVA.
6. One of KUVE4RA'S divine treassures.
7. A monkey.
8. Fire.
9. An ichneumon.
10. A sort of poison.
11. A small owl.
12. The 51st year of the Hind4u cycle. n. (-लं)
1. Brass.
2. Yellow orpiment. f. (-ला)
1. The female elephant of the south quarter.
2. A pious whore, commemorated in the Bha4gavata.
3. A particular vessel of the body, the right of three canals which run from the os-coccygis; to the head, and which are the chief passages of breath and air, according to the anatomy of the Y4oga school of philosophy.
4. An astrological house or period.
5. The Sisu tree, (Dalbergia Sisu.)
6. Heartpea.
7. A kind of owl.
8. A kind of metal. E. पिजि to colour, Una4di aff. अलच्; or पिङ्गल of a tawny hue, fem. aff. टाप्।
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिङ्गल [piṅgala], a. [पिङ्ग-सिध्मा˚ लच्, पिङ्गं लाति, ला-क वा Tv.] Reddish-brown, yellowish, brown, tawny; तोनोत्तीर्य पथा लङ्कां रोधयामास पिङ्गलैः (वानरैः) R.12.71; Ms.3.8; पिङ्गो दीपशिखाभः स्यात् पिङ्गलः पद्मधूलिवत्.
लः The tawny colour.
Fire.
A monkey.
An ichneumon.
A small owl.
A kind of snake.
N. of an attendant on the sun.
N. of one of Kubera's treasures.
N. of a संवत्सर (the 51st or 25th in the 6 years cycle).
N. of a reputed sage, the father of Sanskrit prosody, his work being known as पिङ्गलच्छन्दःशास्त्रः; छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलम् Pt.2.33.
लम् Brass.
Yellow orpiment.
ला A kind of owl.
The Śiśu tree (शिंशपा).
A kind of metal.
A particular vessel of the body; Ch. Up.8.6.1.
The female elephant of the south.
N. of a courtezan who became remarkable for her piety and virtuous life. (The Bhāgvata mentions how she and Ajāmīla were delivered from the trammels of the world.) -Comp. -अक्षः an epithet of Śiva. -लौहम् Brass.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिङ्गल mf( आand ई)n. (See. g. गौरा-दिand कडारा-दि) , reddish-brown , tawny , yellow , gold-coloured AV. etc. ,
पिङ्गल mf( आand ई)n. (in alg. also as N. of the 10th unknown quantity)
पिङ्गल mf( आand ई)n. having -rreddish--bbrown eyes Ka1tyS3r. Sch.
पिङ्गल m. yellow colour W.
पिङ्गल m. fire. L.
पिङ्गल m. an ape L.
पिङ्गल m. an ichneumon L.
पिङ्गल m. a small kind of owl L.
पिङ्गल m. a small kind of lizard L.
पिङ्गल m. a species of snake Sus3r.
पिङ्गल m. a partic. vegetable poison L.
पिङ्गल m. (with जैनs) N. of a treasure
पिङ्गल m. the 51st (or 25th) year in a 60 years' cycle of Jupiter Var.
पिङ्गल m. N. of शिवor a kindred being Gr2S. Gaut. etc.
पिङ्गल m. of an attendant of शिवKatha1s.
पिङ्गल m. of an attendant of the Sun L.
पिङ्गल m. of a रुद्रVP.
पिङ्गल m. of a यक्षMBh.
पिङ्गल m. of a दानवKatha1s.
पिङ्गल m. of a नागor serpent-demon MBh. i , 1554 (the supposed author of the छन्दस्or treatise on metre regarded as one of the वेदा-ङ्गs , identified by some with पतञ्जलि, author of the महा-भाष्य)
पिङ्गल m. of sev. ancient sages MBh. R. etc.
पिङ्गल m. pl. N. of a people Ma1rkP.
पिङ्गल n. a partic. metal L.
पिङ्गल n. yellow orpiment L.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--one of the eleven Rudras. M. १५३. १९; १७१. ३९.
(II)--a door-keeper of the Sun God. M. २६१. 5.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Piṅgala : m.: A mythical serpent.
Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 9, 2.
_______________________________
*4th word in right half of page p39_mci (+offset) in original book.
Mahabharata Cultural Index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Piṅgala : m.: A mythical serpent.
Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 9, 2.
_______________________________
*4th word in right half of page p39_mci (+offset) in original book.