यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्तम्, क्ली, (अपिदीयते प्रकृतावस्थया रक्ष्यते विकृतावस्थया नाश्यते वा शरीरं येनेति । अपि + दे ङ पालने, दो य च्छेदने वा + क्तः । “अच उपसर्गात्तः ।” ७ । ४ । ४७ । इति तादेशः । अपेरल्लोपः ।) शरीरस्थधातुविशेषः । तत्- पर्य्यायः । मायुः २ । इत्यमरः । २ । ६ । ६२ ॥ पलज्वलः ३ । इति शब्दरत्नावली ॥ तेजः ४ तिक्तधातुः ५ उष्मा ६ अग्निः ७ अनलः ८ । विस्रत्वात् प्रभूतपूतिवक्षःकक्षास्यशिरःशरीर- गन्धाः कट्वम्लत्वादल्पशुक्रव्यवायापत्याः । त एवं गुणयोगात् पित्तला मध्यबला मध्यायुषो ज्ञान- विज्ञानवित्तोपकरणवन्तश्च ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्त नपुं।

पित्तम्

समानार्थक:मायु,पित्त

2।6।62।2।2

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च। मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्त¦ न॰ अपि + दो--क्त तादेशः अल्लोपः न दीर्घः। देहस्थेधातुभेदे तत्स्वरूपादि भावप्र॰ उक्तं यथा
“पित्तमुष्णं द्रवं पीतं नीलं सत्त्वगुणोत्तरम्। सरं कटुर्लघु स्निग्धं तीक्ष्णमम्लन्तु पाकतः”। पीतन्निरामम् नीलंसामम्। एकं पित्तंवातवन्नानास्थानकर्मभेदैः पञ्चविधम्। तेषां पित्तानां नामान्याह
“पाचकं रञ्जकञ्चापि सा-धकालोचके तथा। भ्राजकञ्चेति पित्तस्य नामानिस्थानभेदतः” अथ पाचकादीनां स्थानान्याह
“अग्न्या-शये यकृत्प्लीह्नोर्हृदये लोचनद्वये। त्वचि सर्वशरी-रेषु पित्तं निवसति क्रमात्” अथ तेषां कर्माण्याह।
“पाचकं तचते भुक्तं शेपाग्निबलवर्द्धनम्। रसमूत्र-पुरीषाणि विरेचयति गित्यशः”। पाचकं पित्तमाम-पक्वाशयमध्यस्थं षड्विधनाहारं भोज्यं भक्ष्यं चर्व्यंलेह्यं चूष्यं पेयं पचति दोषरसमूत्रपुरीषाणि पृथर्क्क-रोति च। तदग्न्याशयस्थमेव स्वशक्त्या रसरञ्जनहृद-यस्थकफतमोपनोदनरूपग्रहणप्रभाप्रकाशनाभ्यङ्गलेपादि-पाचनाद्यग्निकर्मणां विशेषाणां पित्तस्थानानामनुग्रहंकरोति। शेषाण्यपि पित्तस्थानानि यकृत्श्लीहादीनिभागेन गत्वा तत्र तत्र रसरञ्जनादिकर्ममिरुपकरोती-त्यर्थः। कथम्मूतं पाचकं पित्तं शेषाग्नियलवर्द्धनम् शेषाअग्नयः पृथिव्यादिमहाभूतगणाः। यत उक्तं चरकेण
“भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनामसाः” इति। ऊष्माणः अग्नयः। यत उक्तं वाग्भटेम
“दोषधातुमका-दीनामूष्मेत्यात्रेयशासगम्” इति। दोषधातुमलादीनामूष्मै-वाग्निरित्यर्थः। रसादिसप्तधातुगताः तेषां यलबर्द्ध-नम् यथा गृहे स्थापितानि रत्नानि सृद्योतवद्दूर-भास्वराणि तान्यवि दीपज्योतिषा दूरप्रकाशकानि म-वन्ति तथा अग्न्याशयस्थपाचकाग्नितेजसा सर्वे अग्नयोबलवन्तो भवन्ति तथा च वाग्भटः
“अन्नस्य पक्तासर्वेषां पक्तॄणामधिको मतः। तन्मूलास्ते च तद्वृद्धिक्षय-वृद्धिक्षयात्मकाः” इति। ननु पित्तादन्योऽग्निराहोस्वि-त्पित्तमेवाग्नरिति सन्देहः। उच्यते पित्तस्योष्णादिगुण-द्वाराहारपाचनरञ्जनदर्शनादिकर्माणि न खलु पित्तष्यतिरेकेणान्योऽग्निः। तस्मादग्निरूपस्यैव पित्तस्य स्थानभेदात्पाचकरञ्जकसाधकालोचकभ्राजकसज्ञाः। तथा च[Page4336-a+ 38] वाग्भटः
“पाचकं तिलमानं स्यात् काठिन्यान्नास्य दो-षता। अनुगृह्णात्यविकृतं पित्तं पाकोष्मदर्शनैः। क्षु-त्तृट्रुचिप्रमामेधाधीशौर्य्यतनुमार्दवैः। पित्तं पञ्चात्मकंतच्च पक्वामाशयमध्यगम्। पञ्चभूतात्मकत्वेऽपि यत्तैज-सगुणोदयम्। त्यक्तद्रवत्वं पाकादिकर्मणानलशब्दितम्। पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा। तत्रस्थमेवपित्तानां शेषाणामप्यनुग्रहम्। करोति बलदानेन पा-त्तकं नाम तत्स्मृतम्। ननु यदि पित्ताग्न्योरभेदस्तदाकथं घृतं पित्तस्य शमकभग्नेर्दीप्रकमिति। तथा मत्स्याःपित्तं कुर्वन्ति न च तेऽग्निदीप्तिकरा इति। तथा सम-दोषः समाग्निश्चेत्यपि वक्तुं न युज्यते। तथा
“द्रवंस्निग्धमधोगञ्च पित्तं वह्निरतोऽन्यथेति”। अत्रोच्यते। पित्तमग्नेः सन्तताधिष्ठानम्। तथा चोक्तं तन्त्रान्तरे
“अग्निर्भिन्नगुणैर्युक्तः पित्तं भिन्नगुणैस्तथा। द्रवं स्निग्ध-मधोगञ्च पित्तं वह्निरतोऽन्यथा। तस्मात्तेजोमयं पित्तंपित्तोष्मा यः स शक्तिमान्। स सञ्चरति कुक्षिस्थः सर्वतोधमनीमुखैः। स कायाग्निः स कायोष्मा स पक्ता सच जीवनम्। अनन्यगतिरित्येवं देहे कायाग्निरुच्यते” अन्यच्च
“वामपार्श्वाश्रितं नाभेः किञ्चित् सोमस्य मण्ड-लम्। मन्मध्ये मण्डलं सौर्य्यं तनम्ध्येऽग्निर्व्यव-स्थितः। जरायुमात्रप्रच्छन्नः काचकोशस्थ दीपवत्”। तथाच मधुकोषे
“द्रवतेजःसमुदायात्मकस्यापि पित्तस्य तेजोभागोऽग्निरिति”। तेन पित्तमप्यग्निवन्मन्यते अतिता-पितायोगोलकवत्। परमार्थतस्तु अग्निः पित्ताद्भिन्न ए-येति सिद्धान्तः। अतएवाह रसप्रदीपे
“जाठरो भगवा-नग्निरीश्वरोऽन्नस्य पाचकः। सौक्ष्म्याद्रसानाददानोविभक्तुं नैव शक्यते। नाभौ मध्ये शरीरस्य विशेषात्सोममण्डलम्। सोममण्डलमध्यस्थं विद्यात्सूर्य्यस्यमण्डलम्। प्रदीपवत्तत्र नॄणां स्थितो मध्ये हुताशनः। सूर्य्यो दिवि यथा तिष्ठं स्तेजोयुक्तैर्गभस्तिभिः। विशोष-यति सर्वाणि पल्वलानि सरांसि च। तद्वच्छरीरिणां भुक्तंज्वलनो नामिमाश्रितः। मयूखैः पचते क्षिप्रन्नानाव्य-ञ्जनसंस्कृतम्। स्थूलकायेषु सत्त्वेषु यवमात्रः प्रमाणतः। ह्रस्वकायेषु सत्त्वेषु तिलमात्रः प्रमाणतः। कृमकीट-पतङ्गेष्र बालमात्रोऽवतिष्ठते” इति। पुनः प्रकृतमनुसरति
“रञ्जकं नाम यत्पित्तं तद्रसं शोणितं नयेत्। यत्तुसाधकसंज्ञं तत्कुर्य्याद् बुद्धि धृतिं स्मृतिम्”। धृतिं मेधाम्
“यदालोचकसंज्ञं तद्रूपग्रहणकारणम्।
“भ्राजकं का-[Page4336-b+ 38] न्तिकारि स्याल्लेपाम्यङ्गादिपाचकम” वातापत्तादिनिरूपणे। स्थानान्तरे तत्रैव पित्तप्रकृतिक उक्तो यथा
“पित्तप्रकृ-तिको यादृक् तादृशोऽथ निगद्यते। अकालपलितो गौरःक्रोधी स्वेदी च बुद्धिमान्। बहुभुक् ताम्रनेत्रश्च स्वप्नेज्योतींषि पश्यति। श्यामकेशः क्षमी स्थूलो बहुवीर्योमहावलः। पित्तं वह्निर्वह्निजं वा तदस्मात् पित्तोद्रिक्त-स्तीव्रतृष्णो बुभुक्षुः। गौरोष्णाङ्गस्ताम्रहस्तोङ्घ्रिरक्तःशूरोमानी पिङ्गकेशोऽल्पलोमा”। पित्तस्योपशमहेतुरुक्त-स्तत्रैव
“तिक्तस्वादुकषायशीतपवनच्छायानिशावीजनज्यो-त्स्नाभूगृहयन्त्रवारिजलदस्त्रीगात्रसंस्पर्शनम्। सर्पिः-क्षीरविरेकसेकरुधिरस्रावप्रदेहादिकं पानाहारविहारभे-षजमिदं पित्तं प्रशान्तिं नयेत्”। पित्तप्रकोपकारणा-न्युक्तानि
“कद्वम्लोष्णविदाहितीक्ष्णलवणक्रोधोपवा-सातपस्त्रीसम्भोगतृषाक्षुधाभिहननव्यायाममद्यादिभिः। भुक्तेऽजीर्य्यति भोजने च शरदि ग्रीष्मे तथा प्राणिनांमध्याह्ने च यथार्द्धरात्रसमये पित्तप्रकोपो भवेत्” भावप्र॰
“पित्तञ्च तिक्ताम्लरसञ्च सारकं तूष्णं द्रवं तीक्ष्णमिदंमधौ बहु। वर्षान्तकाले मृशमर्द्धरात्रे मध्यन्दिनेऽत्राप्युदिते च कुप्यति” राजनि॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्त¦ n. (-त्तं) Bile, the bilious humour. E. अपि certainly, दो to des- troy, or देङ् to nourish, aff. क्त, deriv. irr., or तप् to inflame, aff. क्त, and the radical letters transposed.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्तम् [pittam], Bile, one of the three humours of the body (the other two being वात and कफ and its chief quality (heat); पित्तं यदि शर्करया शाम्यति को$र्थः पटोलेन Pt.1.378; पित्तमुष्णं द्रवं पीतं नीलं सत्त्वगुणोत्तरम् । सरं कटु घु स्निग्धं तीक्ष्ण- मम्ले तु पाकतः ॥; मध्याह्ने च यथार्धरात्रसमये पित्तप्रकोपो भवेत् Bhāva. P. -Comp. -अतीसारः a bilious form of diarrhœa. -अभिष्यन्दः a bilious form of ophthalmia. -अरिः N. of several plants लाक्षा, वर्वर &c. -उपहत a. affected by bile; पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् K. P.1. 478. -कोशः, -षः the gall-bladder. -क्षोभः excess or derangement of the bilious humour. -गदिन् a. bilious, affected by bile. -ज्वरः, -दाहः a bilious fever. -द्राविन् the sweet citron. -धर a. bilious. -धरा f. A kind ofKalā (one of the substrata of the humours) in the body; षष्ठी पित्तधरा नाम या कला परिकीर्तिता । पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्तिता; Susruta. -प्रकृति a. of a bilious of choleric temperament. -प्रकोपः excess and vitiation of the bilious humour. -भेदः see पित्तक्षोभः; अवीनां पित्तभेदश्च सर्वेषा- मिति नः श्रुतम् Mb.12.283.55. -भेषजम् a sort of pulse (Mar. मसूर). -रक्तम् plethora. -वल्लभा see अतिविषा.-वायुः flatulence caused by the excess and vitiation of the bilious humour. -विदग्ध a. impaired by bile.-विनाशन, -शमन, -हर a. antibilious.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्त n. ( etym. unknown) bile , the bilious humour (one of the three humours [See. कफand वायु] or that secreted between the stomach and bowels and flowing through the liver and permeating spleen , heart , eyes , and skin ; its chief quality is heat) AV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=पित्त&oldid=500946" इत्यस्माद् प्रतिप्राप्तम्