यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथक्त्वम्, क्ली, (पृथगित्यस्य भावः । पृथक् + भावे त्व ।) चतुर्व्विंशतिगुणान्तर्गतसप्तमगुणः । तस्य लक्षणम् । पृथक्प्रत्ययासाधारणकारणत्वम् । यथा, भाषापरिच्छेदे । “संख्यावच्च पृथक्त्वं स्यात् पृथक्प्रत्ययकारणम् । अन्योन्याभावतो नास्य चरितार्थत्वमुच्यते ॥ अस्मात् पृथगियं नेति प्रतीतिर्हि विलक्षणा ॥” “पृथक्त्वं निरूपयति संख्यावदिति पृथक्प्रत्यया- साधारणकारणं पृथक्त्वम् । तन्नित्यतादिकं संख्यावत् यथा हि नित्येषु एकत्वं नित्यं अनित्ये अनित्यम् आश्रयद्वितीयक्षणे चोत्पद्यते आश्रय- नाशान्नश्यति तथा एकपृथक्त्वमपि द्वित्वादिवत् द्विपृथक्त्वादिकमपीत्यर्थः ।” इति सिद्धान्तमुक्ता- वली ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथक्त्व¦ न॰ पृथक् इत्यस्य भावः त्व। वैशेषिकोक्ते पृथक्त्व-वुद्धिसम्पादके गुणभेदे। तत्परीक्षा च कणा॰ सू॰वृत्त्यार्दर्शिता यथा
“तथा पृथक्त्वम्” सू॰।
“एक-त्वतुल्यतयैकपृथकत्वमपि साधयितुमाह अपोद्धारव्यवहारस्तावदस्ति इदमस्मात् पृथगन्यदर्थान्तरमित्याकारःअपवृज्यावधिमपेक्ष्य य उद्धारो निर्द्धारणं सह्यपोद्धारःतत्र च न रूपादि तन्त्रं व्यभिचारादवध्यनिरूप्यत्वाच्च। नन्वन्योन्याभाव एव पृथकत्वम् इदमस्मात् पृथगन्य-दर्थान्तरमितिवद्भिन्नमिति प्रतीतेरन्योन्याभावावलम्बन-त्वात्, न, पृथगादिशब्दानां पर्य्यायत्वेऽपि नान्योन्याभावा-र्थत्वं तत्र पञ्चमीप्रयोगानुपपत्तेः इदमस्मात् पृथक् इद-मिदं न भवतीति प्रतीत्योर्भिन्नविषयत्वात्, न चान्योन्या-भाबवानर्थः पृथक्त्वम् अथटः पट इत्यत्रापि पञ्चमीप्रयोगापत्तेः। ननु पृथगिति विशिष्ट इति प्रतीत्यो-ऐकाकारत्वाद्वैशिष्ट्यमेव पृथक्त्वमिति चेन्न मैत्रस्य दण्ड-वैशिष्ट्यदशायां मैत्रात् पृथगयं मैत्र इत्यपि प्रतीत्या-पत्तेः। एवं शब्दविशिष्टे व्योम्नि बुद्धिविशिष्टे चात्मनिपृथक्त्वव्यवहारापत्तेः। अतएव वैधर्म्यमपि न पृथक्त्वंपाकरक्ते घटे श्यामाद्घटात् पृथगयं घट इति व्यव-हारापत्तेः तद्विरोधिधर्मवत्त्वमेव हि तद्वैधर्म्यं तच्चश्यामानन्तरं रक्ततादशायामपि। न च सामान्यमेव पृ-थक्त्वं सामान्यस्यावध्यनिरूप्यत्वात् जातिसङ्करप्रसङ्गाच्च। सन्मात्रवृत्तित्वे सत्तया, द्रव्यमात्रवृत्तित्वे द्रव्यत्वेनान्यूना-नतिरिक्तवृत्तित्वापत्तेः” वृत्तिः।
“एकत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः” क॰ सू॰।
“नन्वेकमेकत्वं रूपादिभ्यः पृथक्पृथकत्वमिति व्यव-हारादेकत्वेऽप्येकत्वं पृथक्त्वेऽपि पृथकत्वमेवं तत्र तत्रा-पीत्यत आह यथाऽणुत्वमहत्त्वे नाणुत्वमहत्त्ववतीतद्व्यवहारस्तत्र भाक्तस्तथैकत्वैकपृथक्त्वे नैकत्वैकपृथक्-त्ववती तद्व्यवहारस्तत्र भाक्त इत्यर्थः। कर्मभिः कर्माणिगुणैगुणाः इत्यपि दृष्टान्तसूत्रद्वयं पूर्वदृष्टान्तसूत्रेणैक-[Page4413-b+ 38] वाक्यतापन्नमेवात्र भासते यथा कर्माणि न कर्मवन्तिगुणाश्च न गुणवन्तस्तथैकत्वैकपृथकत्वे न तद्वतीइत्यर्थः” वृत्तिः।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथक्त्वम् [pṛthaktvam], 1 Separateness, severalty.

Individuality. -Comp. -निवेशः Subsistence on separateness; पृथक्त्व- निवेशात् संख्यया कर्मभेदः स्यात् and also संख्यायाश्च पृथक्त्व- निवेशात् Ms.1.5.17; यावति संभवति तावति पृथक्त्वनिवेश एव युक्तः ŚB. on MS.5.3.2. Hence पृथक्त्वनिवेशिन्. It is considered to be a characteristic feature of संख्या; ŚB. on MS.5.3.2. पृथक्त्वेन (Intr. used as adv.) Individually, separately; यथा लोके पृथक्त्वेनापि कुर्वाणानां बहुवचनं दृश्यते, देवश्चेद् वर्षेद् बहवः कृषिं कुर्युः ŚB. on MS.1.6.45.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथक्त्व/ पृथक्--त्व n. id. S3a1n3khS3r. Nir. MBh. etc. (See. IW. 68 )

"https://sa.wiktionary.org/w/index.php?title=पृथक्त्व&oldid=501048" इत्यस्माद् प्रतिप्राप्तम्