यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यक्षम्, त्रि, (प्रतिगतमक्षि इन्द्रियं यत्र । समासे अच् । यद्वा, प्रत्यक्षमस्त्यस्येति । अर्श आदि- त्वात् अच् ।) इन्द्रियग्राह्यम् । तत्पर्य्यायः । ऐन्द्रियकम् २ । इत्यमरः । ३ । १ । ७९ ॥ (यथा, ब्रह्मवैवर्त्ते । २ । १ । ५२ । “यत्पादपद्मनखरदृष्टये चात्मशुद्धये । न च दृष्टञ्च स्वप्नेऽपि प्रत्यक्षस्यापि का कथा ॥”) अनुभवविशेषः । तत् षड्विधम् । घ्राणजम् १ रासनम् २ श्रावणम् ३ चाक्षुषम् ४ स्पार्श- नम् ५ मानसम् ६ । निर्व्विकल्पकसविकल्पक- भेदेन प्रत्येकं द्विविधम् । निर्व्विकल्पकन्तु अती- न्द्रियम् । सविकल्पकं मनोग्राह्यम् । षड्विध- प्रत्यक्षे आश्रयस्य महत्त्वं कारणम् । इन्द्रियं करणम् । विषयेण सह इन्द्रियसन्निकर्षः । अस्य व्यापारः । यथा, भाषापरिच्छेदे । “घ्राणजादिप्रभेदेन प्रत्यक्षं षड्विधं मतम् । घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः । तथा रसो रसज्ञायास्तथा शब्दोऽपि च श्रुतेः ॥ उद्भूतरूपं नयनस्य गोचरो द्रव्याणि तद्वन्ति पृथक्त्वसंख्ये । विभागसंयोगपरापरत्व- स्नेहद्रवत्वं परिमाणयुक्तम् ॥ क्रियां जातिं योग्यवृत्तिं समवायञ्च तादृशम् । गृह्णाति चक्षुःसम्बन्धादालोकोद्भूतरूपयोः ॥ उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपि च त्वचः । रूपान्यच्चक्षुषो योग्यं रूपमत्रापि कारणम् ॥ द्रव्याध्यक्षे त्वचो योगो मनसा ज्ञानकारणम् । मनोग्राह्यं सुखं दुःखमिच्छा द्बेषोमतिः कृतिः ॥ ज्ञानं यन्निर्व्विकल्पाख्यं तदतीन्द्रियमिष्यते । महत्त्वं षड्विधे हेतुरिन्द्रियं करणं मतम् ॥ विषयेन्द्रियसम्बन्धो व्यापारः सोऽपि षड्विधः ॥” (यथा, विद्वन्मोदतरङ्गिण्याम् । “देवानर्च्चय सञ्चय प्रतिदिनं पुण्यानि जन्मा- न्तरे भोगाय प्रयतो महाक्रतुविधौ स्वर्गाय हिंसां कुरु । इत्थं वञ्चकवञ्चनोत्पथगता बुद्धिस्तदेया- चिरा- दप्रत्यक्षपदार्थसार्थरहितं पन्थानमारोहतु ॥” व्य, अक्षि अक्षि प्रतीति वीप्सायां यथार्थत्वेन समासः । अक्ष्णोराभिमुख्यमित्यर्थे । “लक्षणे- नाभिप्रती आभिमुख्ये ।” २ । १ । १४ । इत्य- व्ययीभावः । “अव्ययीभावे शरत्प्रभृतिभ्यः ।” ५ । ४ । १०७ । इत्यत्र “प्रतिपरसमनुभ्यो- ऽक्ष्णः ।” इति टच् । इन्द्रियलक्षणम् । अप- रोक्षम् । यथा, मनुः । ९ । ५२ । “फलन्त्वनभिसन्धाय क्षेत्रिणां बीजिनान्तथा । प्रत्यक्षं क्षेत्रिणामर्थो बीजाद्योनिर्गरीयसी ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यक्ष वि।

इन्द्रियज्ञानम्

समानार्थक:प्रत्यक्ष,ऐन्द्रियक

3।1।79।1।1

प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्. एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यक्ष¦ अव्य॰ अक्ष्णः लक्षणम्
“लक्षणेनाभिप्रती” पा॰ लक्ष-णार्थे प्रतिनाऽव्ययी॰ शरदा॰ अच्समा॰ अक्षिशब्देनइन्द्रियमात्रम लक्ष्यते।

१ इन्द्रियलक्षणे ततोऽस्त्यर्थे अच्।

२ इन्द्रियसन्निकर्षजन्ये ज्ञाने न॰। इन्द्रियाणाञ्च ज्ञान-मात्रं प्रत्येव सन्निकर्षद्वारा हेतुत्वात् तथार्थत्वम्। ततःअस्त्यर्थे पुनः अर्श आद्यच्।

३ प्रत्यक्षविषये त्रि॰। प्रत्यक्षत्वंच ज्ञानत्वव्याप्यजातिविशेषः तल्लक्षणन्तु इन्दियार्थसन्निक-र्षोत्पन्नज्ञानत्वमिति नैयायिकाः। अधिकभपरोक्षशब्दे

२३

५ पृ॰ दृष्टशब्दे च

३६

७२ पृ॰ दृश्यम्। बेदान्तमतेतल्लक्षणन्तु
“तत्तदिन्द्रिययोग्यवर्त्तमानविषयावच्छिन्नचैत-न्यामिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्य-क्षत्वम्। स्वाकारवृत्त्युं पहितप्रमातृचैतन्यसत्तातिरिक्तस-त्ताकत्वशून्यत्वे सति वर्त्तमानयोगत्वं विषयस्य प्रत्यक्ष-त्वम्” वेदा॰ प॰। तच्च लौकिकालौकिकभेदात् द्विधा। [Page4460-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यक्ष¦ mfn. (-क्षः-क्षा-क्षं)
1. Perceptible, perceivable, present, cognizable by any of the organs of sense.
2. Distinct, clear, evident.
3. Direct, immediate.
4. Corporeal. n. (-क्षं) Ocular evidence, apprehension by the senses, perception, (considered as a mode of proof. In Phil.) E. अक्ष an organ of sense with प्रति indicative prefix.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यक्ष [pratyakṣa], a. [अक्ष्णःप्रति]

Perceptible (to the eye), visible; प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः Ś1.1.

Present, in sight, before the eye.

Cognizable by any organ of sense.

Distinct, evident, clear.

Direct, immediate.

Explicit, express.

Corporeal.

क्षम् Perception, ocular evidence, apprehension by the senses, considered as a प्रमाण or mode of proof; इन्द्रियार्थसंनिकर्षजन्यं ज्ञानं प्रत्यक्षम् T. S.

Explicitness, distinctness.

Superintendence, care for; प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम् Ms.9.27.

(In Rhet.) A kind of style descriptive of impressions derived from the senses. (The forms प्रत्यक्षम्, प्रत्यक्षेण, प्रत्यक्षतः, प्रत्यक्षात् are used adverbially in the sense of

Before, in the presence of, in the sight of.

Openly, publicly.

Directly, immediately. Hence; प्रत्यक्षतोदृष्टसम्बन्धम् is a variety of अनुमान where the connection between the लिङ्ग and the लिङ्गिन् or साध्य is directly perceived; प्रत्यक्षतो दृष्टसम्बन्धं यथा धूमाकृतिदर्शनादग्न्याकृतिविज्ञानम् ŚB. on MS.1. 1.5.

Personally.

At sight.

Explicitly.

Distinctly, clearly.

Literally. So प्रत्यक्षे in the sight of, before the eyes of.) -Comp. -करणम् one's own perception. -कृता (i. e. ऋक्) a hymn in which s deity is directly addressed. -ज्ञान्म् ocular evidence, knowledge obtained by direct perception. -दर्शनम् ocular evidence, direct proof. -दर्शनः, -दर्शिन् m. an eyewitness. -दृष्ट a. personally seen. -पर a. setting the highest value on the visible. -परीक्षणम् personal examination, real observation. -प्रमा correct or certain knowledge, such as is obtained by direct perception through the senses.

प्रमाणम् ocular proof, evidence of the senses.

an organ of perception. -फल a. having evident or visible consequences. -भूत a. manifested, appeared personally. -भोगः enjoyment of anything with the knowledge of the owner. -वादिन् m. a Buddhist who admits no other evidence than ocular proof or perception. -विधानम् an express injunction.-विषयीभू to move only within the range of sight.-विहित a. directly or explicitly enjoined. -वृत्तिः composed clearly or intelligibly (as a word). -सिद्धa. determined by ocular proof.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यक्ष/ प्रत्य्--अक्ष See. s.v.

प्रत्यक्ष/ प्रत्य्-अक्ष mf( आ)n. present before the eyes , visible , perceptible ( opp. to परोऽक्षSee. ) Up. MBh. etc.

प्रत्यक्ष/ प्रत्य्-अक्ष mf( आ)n. clear , distinct , manifest , direct , immediate , actual , real S3Br. etc.

प्रत्यक्ष/ प्रत्य्-अक्ष mf( आ)n. keeping in view , discerning (with gen. ) MBh.

प्रत्यक्ष/ प्रत्य्-अक्ष n. ocular evidence , direct perception , apprehension by the senses (in न्यायone of the 4 प्रमाणs or modes of proof. See. प्रमाण)

प्रत्यक्ष/ प्रत्य्-अक्ष n. superintendence of , care for( gen. ) Mn. ix , 27

प्रत्यक्ष/ प्रत्य्-अक्ष n. (in rhet. )a kind of style descriptive of impressions derived from the senses Kuval.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यक्ष&oldid=501949" इत्यस्माद् प्रतिप्राप्तम्