यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलयः, पुं, (प्रलीयते क्षीयते जगदस्मिन्निति । प्र + ली + “एरच् ।” ३ । ३ । ५६ । इत्यच् ।) प्रक्षयः । तत्पर्य्यायः । संवर्त्तः २ कल्पः ३ क्षयः ४ कल्पान्तः ५ । इत्यमरः । १ । ४ । २२ ॥ लयः ६ संक्षयः ७ विलयः ८ । इति शब्दरत्ना- वली ॥ प्रतिसर्गः ९ प्रतिसञ्चरः १० । स च नित्यनैमित्तिकप्राकृतात्यन्तिकभेदेन चतुर्धा । यथा, -- कूर्म्म उवाच । “नित्यं नैमित्तिकञ्चैव प्राकृतात्यन्तिकौ तथा । चतुर्धायं पुराणेऽस्मिन् प्रोच्यते प्रतिसञ्चरः ॥” * नित्यो यथा, -- “योऽयं संदृश्यते नूनं नित्यं लोके क्षयन्त्विह । नित्यं संकीर्त्त्यते नाम्ना मुनिभिः प्रतिसञ्चरः ॥” नैमित्तिको यथा, -- “ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भवि- ष्यति । त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः ॥” प्राकृतो यथा, -- “महदाद्यं विशेषान्तं यदा संयाति संक्षयम् । प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचिन्तकैः ॥” आत्यन्तिको यथा, -- “ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि । प्रलयः प्रतिसर्गोऽयं कालचिन्तापरैर्द्विजैः ॥ आत्यन्तिकश्च कथितः प्रलयो लयसाधनः ॥” * ॥ नैमित्तिकप्रलयविस्तारो यथा, -- “नैमित्तिकमिदानीं वः कीर्त्तयिष्ये समासतः ॥ चतुर्युगसहस्रान्ते संप्राप्ते प्रतिसञ्चरे । आत्मसंस्थाः प्रजाः कर्त्तुं प्रतिपेदे प्रजापतिः ॥ ततो भवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी । भूतक्षयकरी घोरा सर्व्वभूतभयङ्करी ॥ ततो यान्यल्पसाराणि शस्यानि पृथिवीतले । तानि चाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥ सप्तरश्मिरथो भूत्वा समुत्तिष्ठन् दिवाकरः । असह्यरश्मिर्भवति पिबन्नम्भो गभस्तिभिः ॥ ततस्ते रश्मयः सप्त पिबन्त्यम्बु महार्णवे । तेनाहारेण ते सूर्य्या दीप्ताः सप्त भवन्ति हि ॥ तस्य ते रश्मयः सप्त सूर्य्या भूत्वा चतुर्द्दिशम् । चतुर्लोकमिदं कृत्स्रं दहन्ति शिखिनो यथा ॥ व्याप्नुवन्तश्च ते विप्रास्तूर्द्धञ्चाधश्च रश्मिभिः । दीप्यन्ते भास्कराः सप्त दहन्तोऽग्निप्रतापिनः ॥ ते सूर्य्या वारिणा दीप्तो बहुसाहस्ररश्मयः । खं समावृत्य तिष्ठन्ति निर्द्दहन्तो वसुन्धराम् ॥ ततस्तेषां प्रतापेन दह्यमाना वसुन्धरा । साद्रिनद्यर्णवद्वीपा निःस्नेहा समपद्यत ॥ दीप्ताभिः सन्तताभिश्च ज्वालाभिश्च समावृतः । अघश्चोर्द्धञ्च तिर्य्यक् च समावृत्य सहस्रशः ॥ सूर्य्याग्निना प्रसृष्टानां संहृष्टानां परस्परम् । एकत्वमुपजातानामेकज्वालो भवेत् प्रभुः ॥ सर्व्वलोकप्रणाशश्च सोऽग्निर्भूत्वात्मकुण्डली । न तस्याः कालदोषेण परिणामो नरर्षभ ! । आद्यन्तरहिता सा हि नित्यं कारणमव्ययम् ॥ शक्तिर्भगवतः सा हि तदेकपरमा च सा । इत्युक्तः प्रलयो राजन् ! विश्वस्यास्य महामते ! ॥ यथोत्पत्तिक्रमेणास्य व्युत्क्रमेण लयस्तथा ॥” इति पाद्मे स्वर्गखण्डे ३९ अध्यायः ॥ (सात्त्विकविकारान्तर्गतविकारविशेषः । तल्ल- क्षणं यथा, साहित्यदर्पणे । ३ । १६७ । “प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलय पुं।

प्रलयः

समानार्थक:संवर्त,प्रलय,कल्प,क्षय,कल्पान्त

1।4।22।2।2

मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः। संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, कालः

प्रलय पुं।

सात्विकभावः

समानार्थक:प्रलय,नष्टचेष्टता

1।7।33।2।4

व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्. घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

प्रलय पुं।

मरणम्

समानार्थक:पञ्चता,कालधर्म,दिष्टान्त,प्रलय,अत्यय,अन्त,नाश,मृत्यु,मरण,निधन

2।8।116।1।4

स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः। अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलय¦ पु॰ प्रलीथतेऽस्मिन् प्र + ली--आधारे अच्। भूतादिलयाधारे कालभेदे स च चतुर्विधः नित्यनैमित्तिकप्राकृ-तात्यन्तिकभेदात् यथोक्तं कूर्मपु॰

४२ ।

४३ अ॰कूर्म उवाच नित्यं नैमित्तिकञ्चैव प्राकृतात्यन्तिकौ तथा। चतुर्धायं पुराणेऽस्मिन् प्राच्यते प्रतिसञ्चरः”। नित्योयथा
“योऽयं संदृश्यते नूनं नित्यं लोके क्षयन्त्विह। नित्यं संकीर्त्त्यते नाम्ना मुनिभिः प्रतिसञ्चरः” नेमि-त्तिको यथा
“ब्राह्यो नैमित्तिको नाम कल्पान्त यो-भविष्यति। त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीःषिभिः” प्राकृतो यथा
“महदाद्यं विशषान्तं यदा सं-याति संक्षयम्। प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचिन्तकैः” आत्यन्तिका यथा
“ज्ञानादात्यन्तिका षोक्तो योगिनः परमात्मनि। प्रलयः प्रतिसर्गोऽय कालचिन्तपरैर्द्विजैः। आत्यन्तिकश्च कथितः प्रल्लवा कयसाधनः” नैमित्तिकप्रलयविस्तारो यथा तत्रैव
“नैमित्तिकनिदानीं[Page4487-a+ 38] कीर्तयिष्ये समासतः। चतुर्युगसहस्रान्त” संप्राप्तेप्रतिसञ्चरे। आत्मसस्थाः प्रजाः कर्तुं प्रतिपेदे प्रजा-पतिः। ततोभवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी। भूत-क्षयकरी घारा मवभूतभयङ्करी। ततो यान्यल्पसाराणिशस्यानि पृथिवीतले। तानि चाग्रे प्रलीयन्ते भूमित्व-सुपयान्ति च। सप्तरश्मिरथो भूत्वा समुत्तिष्ठन् दिवा-करः। असह्यरश्मिर्भवति पिबन्नम्भोगभस्तिभिः। ततस्तं रश्मयः सप्त पिबन्त्यम्बु महार्णवे। तेनाहारेणते सूर्य्या दीप्ताः सप्त भवन्ति हि। तस्य ते रश्मयःसप्त सूर्य्या भूत्वा चतुर्दिशम्। चतुर्लोकमिदं कृत्स्नंदहन्ति शिखिनो यथा। व्याप्नुवन्तश्च ते विप्रास्तू-{??}ञ्चाधश्च रश्मिभिः। दीप्यन्ते भास्कराः सप्त दह-न्तोऽग्निप्रतापिमः। ते सूर्य्या वह्निवत् दीप्ता बहु-सांहह्ररश्मयः। स्वं समावृत्य तिष्ठन्ति निर्दहन्तो वसु-न्धराम्। ततस्तेषां प्रतापेन दह्यमाना वसुन्धरा। साद्रिनद्यर्णवद्वीपा निःस्नेहा समपद्यम। दीप्ताभिःसन्तताभिश्च ज्वालाभिश्च समावृतः। अधश्चोर्द्धञ्च तिर्य्यक्च समावृत्य सहस्रशः। सूर्य्यग्निना प्रसृष्टानां संसृ-ष्टानां परस्परम्। एकत्वसुपजातानामेकज्वालो भवेत्प्रभुः। सर्वलोकप्रणाशश्च सोऽग्निर्भूतान्तकृद्बली। चतुर्लोकमिदं कृत्स्नं निर्दहत्यात्मतेजसा। ततः प्रलीनेसर्वस्मिन् जङ्गमे स्थावरे तथा। निर्वृक्षा निस्तृणा भूमिःकूर्मपृष्ठे प्रकाशते। अम्बरीपमिवाभाति सर्वमापूरितंजगत्। सर्वमेव तदार्चिर्भिः पूर्णं जाज्वल्यते नभः। पाताले यानि तीर्थानि महोदधिगतानि तु। तत्रनानि प्रलीयन्ते भूमित्वमुपयान्ति वै। द्वीपांश्च पर्वतां-श्चैव वर्षाण्यथ महोदधीन्। तान् सर्वान् भस्मसात्-कृत्वा सप्तात्मा पावकः प्रभुः। समुद्रेभ्यो नदीभ्यश्चपातालेभ्यश्च सर्वशः। पिवन्नपः समिद्धोऽग्निः पृथिवी-माश्रितोऽज्वलत्। ततः संवर्त्तकः शैलानतिक्रम्य महांस्तथा। सोकान् दहति दीप्तात्मा रुद्रतेजोविजृम्भितः। स दग्ध्या पृथिवीं देवो रसातलमशोषयत्। अधस्तात्पृथिवीं दग्ध्वा दिवमूर्द्धं दहिष्यति। योजनानां शता-नीह सहस्राण्ययुतानि च। उत्तिष्ठन्ति शिखास्तस्यबायुः संवर्त्तकस्य च। गन्धर्वांश्च पिशाचांश्च सयक्षो-रगराक्षसान्। तदा दहत्यसौ दीप्तः कालरुद्रप्रचोदितः। भूर्लोकञ्च

१ भूवर्लोकं

२ स्वर्लोकञ्च

३ तथा महः

४ । दहेद-शेषं कासाग्विः कालो विश्वतनुः स्वयम्। व्युष्टषु तेषु[Page4487-b+ 38] लोकेषु तिर्य्यगूर्ध्वमथाग्निना। तत् तेजः समनुप्राप्यकृत्स्वं जगदिदं शनैः। अयोगृहनिभं सर्वं तदे-वैकं प्रकाशते। ततो गजकुलोन्नादाः स्तनितैः समख-ङ्कृताः। उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्त्तका घनाः। केचिन्नीलोत्पलश्यामाः केचित् कुमुदसन्निभाः। धूम्र-वर्णास्तथा केचित्तथा पीताः पयीधराः। केचिद्रक्ता-भवर्णाश्च स्थूलाः क्षारनिभास्तथा। शङ्खकुन्दनिभा-श्चान्ये जात्यञ्जननिमाः परे। मनःशिलानिभास्त्वन्येकपोतसदृशाः परे। केचित् रुद्राक्षवर्णाभास्तथान्येक्षीरसन्निभाः। तथा कर्वूरवर्णाभा भिन्नाञ्जननिभा-स्तथा। इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा। काकाण्डकनिभाः केचिदुत्तिष्टन्ति घना दिवि। केचित्पर्वतसङ्काशाः केचिद्गजकुलोपमाः। कूटागारनिभा-श्चान्ये केचिन्मीनकुलोद्वहाः। बहुरूपा घोररूपा घोर-स्ररनिनादिनः। तदा जलधराः सर्वे पूरयन्ति नभ-स्तलम्। ततस्ते जलदा घोरा वारिणा भास्करात्मजाः। सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युत। ततस्ते जल-दा वर्षं वर्षन्तीह हिमौघवत्। सुघोरमशिवं सर्यं नाश-यन्ति च पावकम्। प्रवृत्तेन तदात्यर्थमम्भसा पूर्य्यतेकिल। अद्भिस्तेजोऽभिभूतत्वात्तदाग्निः प्रविशत्यपः। नष्टे चाग्नौ वर्षशतैः पयोदा जलसम्भवाः। प्लावयन्तोऽथ भुवनं महाजलपरिस्रवैः। घाराभिः पूरयन्तीदंचोद्यमानाः स्वयम्भुवा। उद्यन्तः सलिलौथैश्च वेला इवमहोदधेः। साद्रिद्वीपा तथा पृथ्वी जलैः संछाद्यतेशनैः। आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठतिपुनः पतति तद्भूमौ पूर्य्यन्ते तेन चार्णवाः। तनःससुद्राः स्वां वेलामतिक्रान्तास्तु कृत्स्नशः। पर्वताश्चविलीयन्ते मही चाप्सु निमज्जति। तस्विन्नेकार्णवेघोरे नष्टे स्थावरजङ्गमे। योगनिद्रां समास्थाय शेदेवः प्रजापतिः। चतुर्युगसहस्रान्तं कल्पमाहुर्महर्षयः। वाराहो वर्त्तते कल्पो यस्य विस्तार ईरितः। असं-ख्यातास्तथा कल्पा ब्रह्मविष्णुशिवात्मकाः। कथिताहि पुराणेषु मुनिभिः कालचिन्तकैः। सात्त्विकेष्यथ-कल्पेषु माहात्म्यमखिलं हरेः। तामसेषु शिवस्योक्तंराजसेषु प्रजापतेः। सोऽयं प्रवर्त्तते कल्पो वाराहःसात्त्विको मतः। अन्ये च सात्त्विकाः कल्पा मम तेषुपरिग्रहः। ध्यानन्तपस्तथा ज्ञानं लब्ध्वा तेष्वेव यो-गिनः। आराध्य गिरिशं यत्नात् याति तत् परमं[Page4488-a+ 38] पदम। सोऽहं सत्त्वं समाधाय मायी मायामयं स्वयम्। एकार्णवे जगत्यस्मिन् योगनिद्रां व्रजामि तु। मां पश्यन्तिमहात्मानः सुप्तं काले महर्षयः। जनलोके वर्त्तमाना-स्तपसा योगचक्षुषा। अहं पुराणपुरुषो भूर्भुवःप्रभवोविदुः। सहस्रचरणः श्रीमान् सहस्राक्षः सहस्रपात्। मन्त्रोऽग्निर्ब्राह्मणा गावः कुशाश्च समिधो ह्यहम्। प्रोक्षणी च स्रुवश्चैव सोमो घृतभयोऽस्यहम्। संवर्तकोमहानात्मा पवित्रं परमं यशः। वेदवेद्यः प्रभुर्गोप्तागोपतिर्ब्रह्मणोमुखम्। अनन्तस्तारको योगी गति-र्मतिमतांवरः। हंसः प्राणोऽथ कपिलो विश्वमूर्त्तिःसनातनः। क्षेत्रज्ञः प्रकृतिः कालो जगद्वीजमथामृतम्। माता पिता महादेवो मत्तो ह्यन्यन्न विद्यते। आदित्य-वर्णो भुवनस्य गोप्ता नारायणः पुरुषो योगमूर्त्तिः। मां पश्यन्तो यतयो योगनिष्ठा ज्ञात्वात्मानममृतत्वं व्रजन्ति”। प्राकृतप्रलयविस्तारो यथा तत्रैव
“कूर्म उवाचअतःपरं प्रवक्ष्यामि प्रतिसर्गमनुत्तमम्। प्राकृतं च समा-सेन शृणुध्वं गदतो मम। गते परार्द्धद्वितये काले लोक-प्रकालकः। कालाग्निर्भस्मसात् कर्तुं करोति निखिलंमतिम्। आत्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः। दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम्। तमाविश्यमहादेवो भगवान्नीललोहितः। करोति लोकसंहारंभीषणं लोकमाश्रितः। प्राविश्य मण्डलं सौरं कृत्वा-ऽसौ बहुधा पुनः। निर्दहत्यस्विलं लोकं सप्तसप्तिस्वरूपधृक्। स दग्ध्वा सकलं सत्त्वं मन्त्रं ब्रह्म शिरो महत्। देवतानां शरीरेषु क्षिपत्यखिलदाहकः। दग्धेष्वशेष-देहेषु देवी गिरिवरात्मजा। एका सा साक्षिणः शम्भोस्तिष्ठते वैदिकी श्रुतिः। शिरःकपालैर्देवानां कृततग्धरभूषणः। आदित्यचन्द्रादिगणैः पूरयन् व्योम-मण्डलम्। सहस्रहस्तचरणः सहस्रा{??}र्चर्महाभुजः। दष्ट्राकरालवदनः प्रदीप्तानललोचनः। त्रिशृली कृत्ति-वसनो योगमैश्वरमास्थितः। पीत्वा तत् परमानन्दंप्रभूतममृतं स्वकम्। करोति ताण्डवं देवीमालोक्यपरमेश्वरः। पीत्वा नृत्यामृतं देवी भर्तुः परममङ्गला। योगमास्थाय देवस्य देहमायाति शूलिनः। स त्यक्त्वाताण्डवरसं स्येच्छयैव पिनाकधृक्। याति स्वभावं भग-वान् दग्ध्वा ब्रह्माण्डमण्डलम्। संस्थितेष्वथ देवेषुब्रह्मविष्णुपिनाकिषु। गुणैरनेकैः पृथिवी विलयं यातिवारिषु। स बारितत्त्वं सगुणं ग्रसते हव्यपाहनः। [Page4488-b+ 38] तैजसं गुणसंयुक्तं वायौ संयाति संक्षयम्। आकाशेसगुणो वायुः प्रलयं याति सत्तमाः!। भूतादौ च तथा-काशं लीयते गुणसंयुतम्। इन्द्रियाणि च सर्वाणितैजसे यान्ति संक्षयम्। वैकारिके देवगणाः प्रलयंयान्ति सत्तमाः!। वैकारिकस्तैजसश्च भूतादिश्चेतिसत्तमाः!। त्रिविधोऽयमहङ्कारो महति प्रलयं व्रजेत्। महान्तमेभिः सहितं ब्रह्माणममितौजसम्। अव्यक्तंजगतो योनिः संहरेदेकमव्ययम्। एवं संहृत्य भूतानितत्त्वानि च महेश्वरः। नियोजयत्यथान्योन्यं प्रधानंपुरुषं परम्। प्रधानपुंसोरजयोरेष सहार ईरितः। महेश्वरेच्छाजनितो न खयं विद्यते लयः। गुणसाम्यंतदव्यक्तं प्रकृतिः परिगीयते। प्रधानं जगतो योनि-र्नावातत्त्वगचेतनम्। कूटस्थश्चिन्मयो ह्यात्मा केबलःपञ्चविंशतः। गीयते मुनिभिः साक्षी महानेकः पिता-महः। एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा। प्रधानाद्यं विशेषान्तं दहेद्रुद्र इति श्रुतिः। योगिना-मथ सर्वेषां ज्ञानविन्यस्तचेतसाम्। आत्यन्तिकञ्चैव लयंविदधातीह शङ्करः”। आत्यन्तिकप्रलयविस्तारो यथाविष्णु पु॰ पराशर उवाच
“आध्यात्मिकादि मैत्रेय ज्ञात्वातापत्रयं बुधः। उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकंलयम्। आध्यात्मिको वै द्विविधः शारीरो मानसस्तथा। शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः। शिरोरोग-प्रतिश्यायज्वरशूलभगन्दरैः। गुल्मार्शःश्वयथुश्वासच्छर्द्या-दिभिरनेकधा। तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः। भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि। कामक्रोध-भयद्वेषलोभमोहविषादजः। शोकासूयाबमानेर्ष्यामात्-सर्य्यादिभवस्तथा। मानसोऽपि द्विजश्रेष्ठ! तापो भवतिनैकधा। इत्येवमादिभिर्भेदैस्ताणो ह्याध्यात्मिकः स्मृतः। मृगपक्षिमनुष्याद्यैः पिशाचोरमराक्षसैः। सरीसृपा-द्यैश्च नृणां जन्यते चाधिभौतिकः। शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवः। तापो द्विजवरश्रेष्ठ! कथ्यते चाधि-दैविकः। तदस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः। गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः। निरस्ताति-शयाह्लादसुखभावैकलक्षणा। भेषजं भगवत्प्राप्तिरेका-न्तात्यन्तिकी मता। तस्मात् तत्प्राप्तये यत्नः कर्त्तव्यःपण्डितैर्नरैः। तत्प्राप्तिहेतुर्ज्ञानञ्च कर्म चोक्तं नहा-मुने!। आगमीत्थं विवेकाच्च द्विधा ज्ञानं तथोत्यते। शब्दव्रह्मागममयं परं ब्रह्म विवेकभ्रम्। अन्यन्तम इवा-[Page4489-a+ 38] ज्ञानं दीपवच्चेन्द्रियोद्भवम्। यथा सूर्यस्तथा ज्ञानं यद्-विप्रर्षे! विवेकजम्। मनुरप्याह वेदार्थं स्मृत्वा यन्मुनि-कत्तस!। तदेतच्छ्रूयतामत्र साधु ते गदतो मम। द्वेब्रह्मणी वेदितव्ये शब्दब्रह्म परञ्च यत्। शब्दब्रह्मणिनिष्णातः परं ब्रह्माधिगच्छति। द्वे विद्ये वेदितव्ये वैइति चाथर्वणी श्रुतिः। परया त्वक्षरप्राप्तिरृग्वेदादि-भवाऽपरा। यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम्। अनिर्देश्यमरूपञ्च पाणिपादाद्यसंयुतम्। विभुं सर्व-गतं नित्यं भूतयोनिभकारणम्। व्याप्यऽवाप्यं यतःसर्वं तं वै पश्यन्ति सूरयः। तद्ब्रह्म तत्परं धामतद्ध्येयं मोक्षकाङ्क्षिणाम्। श्रुतिवाक्योदितं सूक्ष्मंतद्विज्ञोः परमं पदम्। तदेव भगवद्वाच्यं स्वरूपंपरमात्मनः। वाचको भगवच्छब्दस्तस्याद्यस्याक्षरात्मनः। शवं मिगदितार्थस्य सतत्त्वं तस्य तत्त्वतः। ज्ञायतेयेन तज्ज्ञानं परमत्यत्तयीमयम्। अशब्दगोचरस्यापितस्यैव ब्रह्मणो द्विज!। पूजायां भगवच्छब्दः क्रियतेहौपचारिकः। शुद्धे महाविभूत्याख्ये परे ब्रह्मणिवर्त्तते। मैत्रेय! भगवच्छब्दः सर्वकारणकारणे। सर्वाणितत्र भूतावि वसन्ति परमात्मनि। भूतेषु च स सर्वात्मावासुदेवस्ततः स्मृतः। स्वाण्डिक्यः जनकायाह पृष्टःकेशिध्वजः पुरा। नामव्याख्यामनन्तस्य वासुदेवस्यतत्त्वतः। भूतेषु वसते सोऽन्तर्वसन्त्यत्र च तानि यत्। धाता विधाता जगतां वासुदेवस्ततः प्रभुः। स सर्व-भूतप्रकृतिर्विकारगुणांश्च दाषांश्च मुने! व्यतीतः। अतीतसर्वावरणाखिलात्मातेनास्तृतं यद्भुवनान्तरालम्। समस्तकल्याणगुणात्मको हि स्वशक्तिलेशावृतभूतसर्गः। इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितोऽसौ। तेजोवलैश्वर्य्यसमन्वितश्च स्ववीर्य्यशक्त्यादिगुणैकराशिः। परः षराणां सकला न यत्र क्लेशादयः सन्ति पराव-रेत्ते। स ईत्तरो व्यष्टिसमष्टिरूपो व्यक्तस्वरूपः प्रकट-त्त्ररूपः। सर्वेश्वरः सर्वदृक् सर्ववेत्ता समस्तशक्तिः परमे-श्वराख्यः। स ज्ञायते येन तदस्तदीषं शुद्धं परं निर्मल-मेकरूपम्। संदृश्यते चाप्यवगम्यते वा तज्ज्ञानम-ज्ञानमतोऽन्यदुक्तम्” विष्णु पु॰।
“नारद उवाच। कृतंत्रेता द्वापरञ्च कलिश्चेति चतुर्युगम्। दिनमेकंयुग ज्ञयं तस्य या चैकसप्ततिः। मन्वन्तरन्तु तज्ज्ञेयंते तु गत्र चतुर्दश। स कल्पो नाम वै कांलस्तदन्तेप्रसुयस्य वः। मा व्र{??}रात्री राजेन्द्र! यत्र तेतेऽव्यु-[Page4489-b+ 38] जासनः। त्रयोलोकास्तदा राजन्! लीयन्ते तन्निमि-त्ततः। नैमित्तिको लयो नाम दैनन्दिन इतीर्य्यते। एवं दिनप्रमाणेन ब्रह्मणः शतवार्षिकम। आयुःपूर्वपरार्द्धे तु परार्द्धे द्वे प्रकीर्त्तिते। द्विपरार्द्धे व्यतीतेतु व्रह्मणो जगदात्मनः। तदा प्रकृतयः सप्त प्रलयं यान्तिभूमिप! लयः प्राकृतिको ह्येष लीने ब्रह्मणि भूपते!। अण्डकोषोऽपि सकलः प्रलयं याति सर्वशः। पूर्वरू-पन्तु वक्ष्यामि प्रलयस्यास्य भूपते!। शतवर्षाणिभूमौ हि पर्जन्यो नैव वर्षति। दुर्भिक्षे निर्जले लोकेप्रजाः सर्वाः क्षुधार्दिताः। परस्परं भक्ष्यमाणाः क्षयंयास्यन्ति भूमिप!। समुद्रे च धरण्याञ्च वृक्षेषु च सतासुच। देहे च यो रसस्तं हि रविर्हरति रश्मिभिः। ततः संवर्त्तको नाम ज्वालामाली हुताशनः। सङ्कर्ष-णमुखोत्पन्नो दहत्यऽनिलसारथिः। सर्वं ब्रह्माण्ड-भाण्डं वैतत्कालक्षोभगर्जितः। एवं दग्धं महाराज। वह्न्यर्काभ्यां समन्ततः। दग्ध्वा गोमयपिण्डाभं ब्र-ह्माण्डं सारवर्जितम्। प्रचण्डः पवगी राजंस्ततोवर्ष-शतं पुनः। संवर्त्तको नाम महान् ब्रह्माण्डं चाल-यिष्यति। ततो मेषा महाघारा नानावर्णा अने-कशः। शतं वर्षाणि वर्षन्ति गर्जन्ति च महास्वनाः। एकोदकं ततो विश्वं निर्गुणं निर्विकारकम्। भूमेर्गन्घ-गुणं राजन्! ग्रसन्त्यापः समन्ततः। गुणनाशात् स्वयंपृथ्वी प्रलयं प्रापस्यते तदा। तेजस्त्वपां रसगुणं सगन्धंपिवते बलात्। ततः प्रलयमायान्ति राजन्नापोऽपितत्क्षणात्। तेजसस्तु ततो रूपं रसगन्धसमन्वितम्। वायुर्हरति चण्डात्मा, तेजः प्रलयमृच्छति। आकाशस्तुततो वायेः स्पर्शं परगुणैः सह। समादत्ते महा-राज! अम्बरेऽथ प्रलीयते। आकाशस्य गुणं शब्दंगणैरन्यैः समन्वितम्। अहङ्कारः समादत्ते नभस्तस्मिन्प्रलीयते। तैजसेष्विन्द्रियाण्यङ्ग देवा वैकारिकास्तथा। अहङ्कारे प्रलीयन्ते जगदेतच्चराचरम्। अह-ङ्कारं भक्षयन्ति ततः सत्त्वादयो गुणाः। ग्रसते तान्महाराज! आद्या प्रकृतिरुच्यते। न तस्याः काल-दोषेण परिणामो नरर्षभ!। आद्यन्तरहिता सा हिनित्यं कारणमव्ययम्। शक्तिर्भगवतः सा हि तदेक-परमा च सा। इत्युक्तः प्रलयो राजन्! विश्वस्यास्यमहामते!। यथोत्पत्तिक्रमेणास्य व्युत्क्रमेण लयस्तथा” स च प्रलयो न्यायादिमते द्विविधः खण्डप्रलयो महा-[Page4490-a+ 38] प्रलयश्च तत्र जन्यद्रव्यानधिकरणकाणत्वं खण्डप्रलयत्वंजन्यभावानधिकरणकालत्वं महाप्रलयत्वं महाप्रलयश्चन प्रमाणसिद्ध इति नष्वनैयाविकाः। तत्र नैमित्तिकप्रल-यकालश्च कल्पतुल्यः
“यदा स देवो जागर्त्ति तदेदं चेष्टतेजगत्। यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते” इतिमनुना हिरण्यगर्भस्य निदासमये तत्प्रलयस्योक्तेः
“शर्वरीतस्य तारती” इति तत्कासस्य च कल्पतुल्यकालत्वमुक्तम्। एतदभिप्रायेण अमरे
“प्रलयो नष्टचेष्टता” इत्युक्तम्नैमित्तिकप्रलयकाले सर्वभूतानां चेष्ठाशून्यत्वात्।
“प्रलयःसुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः” सा॰ द॰ उक्ते

२ सा-त्त्विकभावभेदे।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलय¦ m. (-यः) The end of a Kalpa, or destruction of the world.
2. Death, dying, loss, destruction, dissolution, annihilation.
3. Faint- ing, syncope, loss of sense or consciousness, considered as one of the thirty-three subordinate feelings, (in Rhetoric.)
4. The mystic Syllable “Om.” E. प्र before, ली to destroy, aff. अच् |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलयः [pralayḥ], 1 Destruction, annihilation, dissolution; स्थानानि किं हिमवतः प्रलयं गतानि Bh.3.7,69; प्रलयं नीत्वा Si.11.66. 'causing to disappear'.

The destruction of the whole universe (at the end of a kalpa), universal destruction; Ku.2.8; अहं कृत्स्नस्य जगतः प्रभवः प्रलय- स्तथा Bg.7.6.

Any extensive destruction or devastation.

Death, dying, destruction; प्रारब्धाः प्रलयाय मांसवदहो विक्रेतुमेते वयम् Mu.5.21;1.14; यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् Bg.14.14.

Swoon, fainting, loss of consciousness, syncope; प्रलयान्तोन्मिषिते विलोचने Ku.4.2.

(In Rhet.) Loss of consciousness, considered as one of the 33 subordinate feelings; प्रलयः सुखदुःखाद्यै- र्गाढमिन्द्रियमूर्छनम् Pratāparudra.

The mystic syllableom.

Spiritual unification (लय); बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते । तदा संपद्यते ब्रह्म तत्रैव प्रलयं गतम् ॥ Mb.12.24. 17.

Sleepiness. -Comp. -कालः the time of universal destruction. -घनः, -जलधरः a cloud at the dissolution of the world. -दहनः the fire at the dissolution of the world. -पयोधिः the ocean at the dissolution of the world.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलय/ प्र-लय etc. See. under प्र-ली.

प्रलय/ प्र-लय m. dissolution , reabsorption , destruction , annihilation

प्रलय/ प्र-लय m. death

प्रलय/ प्र-लय m. ( esp. ) the destruction of the whole world , at the end of a कल्प( s.v. ) Shad2vBr. ChUp. S3am2k. MBh. Ka1v. etc.

प्रलय/ प्र-लय m. setting (of the stars) Subh.

प्रलय/ प्र-लय m. end(636602 संजात-निद्रा-प्र-लयmfn. having done sleeping Pan5cat. )

प्रलय/ प्र-लय m. cause of dissolution Bhag. Br2ih.

प्रलय/ प्र-लय m. fainting , loss of sense or consciousness Prata1p. Sa1h. Sus3r.

प्रलय/ प्र-लय m. sleepiness Gal.

प्रलय/ प्र-लय m. N. of the syllable ओम्, Atharvas3Up.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the deluge: destruction; after Manvantaras; फलकम्:F1: M. 2. २२; १४२. ३६.फलकम्:/F two kinds--one at the end of a Kalpa or the day of ब्रह्मा and the other at the end of the life of ब्रह्मा. फलकम्:F2: Vi. VI. 1. 3.फलकम्:/F

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRALAYA (D : estruction). Pralaya is of four kinds. The first is nityapralaya. This is the destruction going on daily for all animate and inanimate objects born on earth. The second is Brāhmapralaya or naimittikapralaya. The third is Prākṛtapralaya. This is the great deluge made by prakṛti (nature) at the end of a thousand Caturyugas (four yugas). The fourth is ātyantikapralaya. This is the union of the soul with the Supreme Being due to Jñāna. Of the above the Brāhmapralaya, or naimittikapralaya happens at the end of a Kalpa or a day of Brahmā or a thousand yugas. The nature of this pralaya is as follows: At the end of a thousand yugas the world will look famished. Then there will be excessive drought for a hundred years together and everything in this world would be destroyed then. Then Mahā- viṣṇu, lord of everything in this universe, would pre- sent himself in the seven big rays of the Sun and drink to emptiness all the waters of all the three worlds, earth, ocean and pātāla. Then by the divine power of Mahāviṣṇu the seven rays of the Sun which had grown fat by drinking this water would become seven separate Suns. These Suns would burn all the three worlds including Pātāla. Then the earth would look like the back of a tortoise (Kūrmapṛṣṭha) At that time Rudra, equal in brilliance to Kālāgni, would from beneath burn the pātāla sending breaths from Ādiśesa. After pātāla Kālāgnirudra would burn the earth and then the heavens. Because of this all the worlds would look like globes of fire. Then the inhabit- ants of these worlds would go to Maharloka unable to bear the heat and from there to Janaloka. Thus Viṣṇu in the form of Rudra would destroy everything.

Then from the face of Viṣṇu would originate clouds and lightning in different forms. Those clouds would rain incessantly for a hundred years and destroy the fire prevailing everywhere. When the rains become unbearable Vāyu would encroach upon the seats of the Saptarṣis in the ocean and by the breath of Viṣṇu destroy all the clouds. At that time Viṣṇu, lord of all, would lie on the back of Ādiśeṣa in that one big ocean drinking vāyu (air). Viṣṇu will lie thus for a period of a Kalpa in yogic slumber meditating on Vāsudeva taking the name Madhusūdana and form of Brahmā praised by the siddhamunis inside the ocean. After that he would take the form of Brahmā and start creation.

In Prākṛtapralaya this whole universe would lie in extinction for a period of two parārddhas. One parārddha is 100000000000000000 years (one followed by seventeen zeroes) and so the period of a prākṛta- pralaya is double the above number of years. The world would then come into the grip of a great drought; fire would break out and burn away everything in this world from Mahattattva to Viśeṣa. Then prompted by the desire of Viṣṇu, pratisañcaraṇa (back into nature) would occur. Then Jala (water) would absorb the guṇas of bhūmi like gandha (smell) and when the qualities of the earth are thus absorbed the earth would merge with pralaya. Jala is rasātmaka. Agni will absorb the rasa of Jala and Jala would be kindled. The guṇa of Agni is form and is in the form of Sun. Vāyu would absorb it and Agni would be destroyed. Vāyu would then become powerful and shake the world. The quality of Vāyu is touch and the ether would absorb that guṇa of Vāyu and Vāyu would be destroyed. The quality of ether is sound and it would be absorbed by the elements. If the elements are absorbed one by one the earth would merge into water (Jala) and Jala in Agni, and Agni in Vāyu and Vāyu in ether and ether in Ahaṅkāra (ego). Ahaṅkāra would merge in Mahattattva. This Mahattattva would be absorbed by Prakṛti. Prakṛti has got two forms:-- Vyakta and Avyakta (Manifest and Un-manifest). The Vyakta would merge with Avyakta. Puruṣa is single, pure and without decay. But he is also part of Para- mātmā (the Supreme Being). So Prakṛti and Puruṣa would both merge into the Supreme Being. There are no distinctions, fabrications in Paramātmā, the lord of all. It is only an existence. It is such a Paramātmā that should be known and which itself is knowledge. The Paramātmā is beyond the Ātmā (soul). It is in such an indescribable Paramātmā that all are dissolv- ed during a Prākṛtapralaya. (Chapter 368, Agni Purāṇa).


_______________________________
*3rd word in left half of page 600 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रलय&oldid=502527" इत्यस्माद् प्रतिप्राप्तम्