यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवासः, पुं, (प्रवसन्त्यस्मिन्निति । प्र + वस् + “हलश्च ।” ३ । ३ । १२१ । इति घञ् ।) विदेशः । विदेशस्थितिः । यथा, -- “कर्णेजपैराहितराज्यलोभा स्त्रैणेन नीता विकृतिं लघिम्ना । रामप्रवासे व्यमृषन्नदोषं जनापवादं सनरेन्द्रमृत्युम् ॥” इति भट्टिः । ३ । ७ ॥ * ॥ द्वादशवर्षाश्रुतवार्त्ताकप्रोषितस्य तत्प्रवासाद्य- दिने श्राद्धं कर्त्तव्यम् । यथा, -- “प्रवासवासरे ज्ञेयं तन्मासेन्दुक्षयेऽथवा ॥” इति मिताक्षरा । ३ । ७ ॥ * ॥ प्रवासागतेन गुर्व्वाद्यभिवादनं कर्त्तव्यम् । यथा, “विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम् । गुरुदारेषु कुर्व्वीत सतां धर्म्ममनुस्मरन् ॥ मातृष्वसा मातुलानी श्वश्रूश्चाथ पितुः स्वसा । प्रपूज्या गुरुपत्नीव समास्ता गुरुभार्य्यया ॥ भ्रातृभार्य्योपसंग्राह्या सवर्णाहन्यहन्यपि । विप्रोष्य भूप ! संग्राह्या ज्ञातिसम्बन्धियोषितः ॥ पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वसर्य्यपि । मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरी- यसी ॥” इति कौर्म्मे उपविभागे १३ अध्यायः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवास¦ पु॰ प्रस्थितस्य वासः। गृहात् प्रस्थितस्य भिन्नदेशेवासे चिरप्रवासगतस्य पुनर्नागतस्य वार्त्ताद्यश्रवणे काल-विशेषे तस्य प्रेतत्वावधारणमुक्तं त्रि॰ त॰
“सन्देहे त्वाहयमः
“गतस्य न भवेत् वार्त्ता यावत् द्वादशवार्षिकी। प्रेतावधारणन्तस्य कर्त्तव्यं सुतबान्धवैः। यन्मासि यद-हर्यातस्तन्मासि तदहःक्रिया। दिनाज्ञाने कुहूस्तम्यआषाढस्याथ वा कुहूः”। नि॰ सि॰ वृद्धमनुः
“प्रोषितस्यतथा कालो गतश्चेद्द्वादशाव्दिकः। प्राप्ते त्रयोदशेवर्षे प्रेतकार्य्याणि कारयेत्”। वृहस्पतिः
“यस्य नन श्रूयते वार्त्ता यावद्द्वादश वत्सरान्। कुशपुत्रक-दाहेन तस्य स्यादवधारणा”। भविष्ये
“पितरि पोषितेयस्य न वार्त्ता नैव चागमः। ऊर्द्धं पञ्चदशाद्वर्षात् कृत्वातत्प्रतिरूपकम्। कुर्य्यात्तस्य तु संस्कारं यथोक्तविविना[Page4492-a+ 38] ततः। तदादीन्येव सर्वाणि प्रेतकर्माणि कारयेत्”। द्वाद-शाव्दप्रतीक्षा पितृभिन्नविषयेति मदनरत्ने उक्तम्। गृह्यकारिकायान्तु
“तस्य पूर्ववयस्कस्य विंशत्यव्दीर्ध्वतःक्रिया। ऊर्द्ध्वं पञ्चदशव्दात् तु मध्यमे वयसि स्मृता। द्वादशाद्वत्सरादूर्ध्वमुत्तरे वयसि स्मृता। चान्द्रायण-त्रयं कृत्वा त्रिशत् कृच्छ्राणि वा सुतैः। कुशैः प्रति-कृतिं दग्ध्वा कार्य्याः शोचादिकाः क्रियाः” इत्युक्तम्पराशरः
“देशान्तरगतो नष्टस्तिथिर्न ज्ञायते यदि। कृष्णाष्टमी ह्यमावास्या कृष्णा चैकादशी च या। उदकंपिण्डदानं च तत्र श्राद्धं तु कारयेत्”। इदं मासज्ञाने” प्रवासादागतेन गुर्वादेः पादयोर्ग्रहणपूर्वकम् प्रणामो वि-हितः यथा
“विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम्। गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन्। मातृस्वसा मातु-लानी श्वश्रूश्चाथ पितुः स्वसा। प्रपूज्या गुरुपत्नीव समा-स्ता गुरुभार्य्यया। भ्रातृभार्य्योपसंग्राह्या सवर्णाऽ-हन्यहन्यपि। विप्रोष्य तूपसंग्राह्या ज्ञातिसम्बन्घियोषितः। पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वसर्य्यपि। मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी” कौर्मपु॰

१३ अ॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवास¦ m. (-सः) A temporary or foreign residence, a habitation away from home. E. प्र far or removed, and वास abode.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवासः [pravāsḥ], 1 (a) Going or journeying abroad, being absent from one's home, foreign residence; कुशः प्रवासस्थ- कलत्रवेषाम् (वनितामपश्यत्) R.16.4; Ś.4.3; U.6.38; स्नेहः प्रवासाश्रयात् Pt.1.169; Bh.3.94. (b) A temporary sojourn; प्रवासादुपावृत्तेन काश्यपेनादिष्टो$स्मि Ś.4.

(In astr.) Heliacal setting of the planets. -Comp. -गत, -स्थ, -स्थित a. journeying abroad, being absent from home.-पर a. addicted to living abroad.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवास/ प्र-वास m. dwelling abroad , foreign residence , absence from home RV. etc. ( acc. with गम्or या. प्र-वस्or आ-पद्; to go abroad ; abl. with आ-इ, उपा--. or परा-वृत्, to return from abroad)

प्रवास/ प्र-वास m. (in astron. ) heliacal setting of the planets Var.

प्रवास/ प्र-वास and e.See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=प्रवास&oldid=502602" इत्यस्माद् प्रतिप्राप्तम्