यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसङ्गः, पुं, (प्र + सन्ज + घञ् ।) सङ्गतिविशेषः । यथा, -- “स प्रसङ्ग उपोद्धातो हेतुतावसरस्तथा । निर्व्वाहकैककार्य्यत्वे षोढासङ्गतिरिष्यते ॥” तस्य लक्षणम् । स्मृतस्योपेक्षानर्हत्वम् । तद- र्थस्तु स्मृतिविषयतापन्नत्वे सति द्वेषविषयता- नापन्नत्वम् । इत्यनुमितिग्रन्थे गदाधरभट्टा- चार्य्यः ॥ * ॥ (“प्रकरणान्तरेण समापनं प्रसङ्गः । यथा प्रकारान्तरितो योऽर्थोऽसकृदुक्तः समा- प्यते स प्रसङ्गः । यथा । महाभूतशरीरिसम- वायः पुरुषस्तस्मिन् सोऽधिष्ठानमिति वेदोत्- पत्तावभिधाय भूतविद्यायां पुनरुक्तं यतोऽभि- हितं पञ्च महाभूतशरीरिसमवायः पुरुष इति स खल्वेवं कर्म्म पुरुषश्चिकित्सायामधिकृतः ॥” इत्युत्तरतन्त्रे पञ्चषष्टितमेऽध्याये सुश्रुतेनोक्तम् ॥) अन्योद्देशेन प्रवृत्तावन्यस्यापि सिद्धिः । यथा, -- “दृष्टा तु हरते पापं स्पृष्टा तु त्रिदिवं नयेत् । प्रसङ्गेनापि या गङ्गा मोक्षदा ह्यवगाहिता ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥ (यथा च देवीभागवते । ३ । ९ । ४२ । “अस्पष्टमपि तन्नाम प्रसङ्गेनापि भाषितम् । ददाति वाञ्छितानर्थान् दुर्ल्लभानपि सर्व्वथा ॥”) प्रसक्तिः । यथा, -- “आनीता भवता यदा पतिरता साध्वी धरत्री- सुता स्फुर्ज्जद्राक्षस्रमायया न च कथं रामाङ्गमङ्गी- कृतम् । कर्त्तुं चेतसि पुण्डरीकनयनं दूर्व्वादलश्यामलं तुच्छं ब्रह्मपदं भवेत् परबधूसङ्गप्रसङ्गः कुतः ॥” इति नाटकम् ॥ * ॥ प्रस्तावः । यथा, -- “तत्रैव गङ्गा यमुना च तत्र गीदावरी तत्र सरस्वती च । सर्व्वाणि तीर्थानि वसन्ति तत्र यत्राच्युतोदारकथाप्रसङ्गः ॥” इति पौराणिकाः ॥ * ॥ मैथुनम् । यथा । प्रसङ्गनित्यद्रुतपृष्ठयानादिति रुग्विनिश्चयवचनटीकायां विजयरक्षितः ॥ (यथा च देवीभागवते । १ । १२ । २० । “ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः । परिवृत्त्य ययुस्तूर्णं नरनारायणाश्रमम् ॥”)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसङ्ग¦ पु॰ प्र + सन्ज--भावे घञ्।

१ प्रकृष्टसङ्गे

२ व्याप्तिरूपेसम्बन्धे यथाऽतिप्रसङ्गः अप्रसङ्ग इत्यादौ

३ सङ्गतिभेदे
“सप्रसङ्ग उपोद्घाता हेतुतावसरस्तथा। निर्वाहकैक-कार्य्यत्वे षोढा सङ्गतिरिष्यते”। तत्र
“प्रसङ्गत्वम् स्मृतत्वेसत्युपेक्षानर्हत्वं तच्च स्मृतिविषयतापन्नत्वे सति द्वेषवि-षयतानापन्नत्वम्” अनुमितौ गदाधर।

४ अनुरक्तत्वे

५ प्रस्तावे

६ मैथुनासक्तौ

७ प्राप्तौ च
“कृताकृतप्सङ्गैनित्यं तद्विपरीतमनित्यम्” व्या॰ परिभाषा। तत्र प्रसङ्गःप्राप्तिरेव
“शब्दान्तरम् प्राप्नुवन् विधिरनित्यो भवतिशब्दान्तरात् प्राप्नुवतः शब्दान्तरेऽप्राप्नुवतश्च लक्षणान्तरेणप्राप्नुवन् विधिरनित्यः” नागेशः। क्वचित् कृताकृतप्रसङ्गमात्रेणापि नित्यता” व्या॰ परिभाषा। प्रसङ्गशब्देन प्राप्तेरेव ग्राह्यता। अन्योद्देशेन प्रवृत्तौ अन्यस्यापि

८ सिद्धौतत्र यथान्थस्य सिद्धिस्तथा तदुदाहरणादिकञ्च प्रा॰ त॰उक्तं यथा
“अन्योद्देशेन प्रवृत्तावन्थस्यापि सिद्धिः प-सङ्गः यथा पश्वर्थमनुष्ठितेन प्रयाजादिना पशुतन्त्रमध्य-पातिनः पुरोडासस्यापि उपकारः सिध्यति। यथा वा
“तप्ते पयसि दध्यानयति सावैश्वदेव्यामिक्षा भवति वा-जिभ्यो वाजिनम्” इत्यत्रामिक्षार्थं प्रवृत्तौ अनुद्देश्यवा-जिनस्यापि सिद्धिः”। यथा वा काम्ययागनिष्पत्त्यर्थमनु-ष्ठितैराग्नेयादिभिर्नित्यथागादिसिद्धिरिति मिताक्षरोक्तम्यथा दण्डनिपातप्रायश्चित्तेनैव गुरुणा तन्नान्तरीयका-वगोरणप्रायश्चित्तम्पि सम्पद्यत इति प्रायश्चित्तविवेको-क्तम्। तथा व्राह्मणबवोद्देशेन द्वादशवार्षिके कृते क्षात्रिषबधनिमित्तकत्रैवार्षिकप्रायश्चित्तस्य सिद्धिः। एवञ्चतन्त्रप्रसङ्गयोरनावृत्तेनैव कर्मणा नानादृष्टफलसिद्धौनाघवमेव हेतुः। नन्ववगोरणक्षत्रियबधप्रायश्चित्तयोःकथं प्रसङ्गेन सिद्धिः सङ्कल्पादेरभावात्, तयोः सङ्कःल्पादिः कुत इति चेत् प्रायश्चित्तत्वात् तथात्वऽपि कथंसङ्कल्प इति चेत् काम्यत्वात्”।
“एवञ्च काम्यस्य सर्वश-क्त्यधिकरणे सर्वाङ्गोपेतस्यैव फलवत्त्वाभिधानात् तस्यापि-प्रसङ्गविषयत्वे काम्ये हि काम्याभिलापसहितकुश-तिलजलत्यागरूपः सङ्कल्पः शास्त्रार्थ इति प्रक्रसाघफ[Page4496-a+ 38] रणोक्तेन
“प्रत्येकं नियतं कालमात्मनो व्रतमादिशेत्। प्रायश्चित्तमुपासीनो वाग्यतस्त्रिसवनं स्पृशेत्” इतिलिखितवचने प्रत्येकं नियतं कालमिति तत्तद्व्रतकालसंख्याम् आत्मनो व्रतम् आत्ममम्बन्धित्वेस आत्मकर्तृत्वेन इति यावत्। तेनामुकव्रतमहङ्करिष्ये इति चा-दिशेदुल्लेखं कुर्य्यात् इत्यनेन प्राप्तस्य सङ्कल्पस्य बाधः” इत्याशङ्क्य तत्र समाहितं यथा
“प्रायश्चित्तस्य नित्य-त्वेनाङ्गवैकल्येऽपि फलसिद्धिः”। अत्रेद बोध्यम् प्रस-ङ्गशब्देन व्याप्तिरेवोच्यते तथा चोद्दिष्टकर्मणा व्याप्तस्ययत्र सिद्धिस्तत्रैवास्य प्रवृत्तिः। उद्दिष्टकर्मणः व्याप्य-त्वञ्च देशकालकर्त्रादीनां प्रयोगानुवन्धिनां वैधहेतुभूता-नामेवैक्ये भवति अतस्तन्त्रवदत्रापि कालदेशाद्यन्तर्भावेनैवव्याप्यता”।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसङ्ग¦ m. (-ङ्गः)
1. Introduction, insertion.
2. Association, connexion.
3. Addiction or attachment to
4. Connected language or style.
5. Connected reasoning or argument.
6. Double or conjoint re sult, producing two effects, attaining two objects by one act.
7. Revealing a secret.
8. (In dramatic language.) A second or subsidiary incident or plot.
9. Union, association, intercourse, (as in स्त्री प्रसङ्ग)
10. Illicit intercourse.
11. Topic of conversation.
12. Occupation.
13. Contingency, event, case.
14. Mention of parents.
15. Equal extent, inseparable connection, (in logic.)
16. A conclusion, an inference.
17. Time, opportunity, occasion. E. प्र preceding, सन्ज to join, aff. अच् |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसङ्गः [prasaṅgḥ], 1 Attachment, devotion, addiction, devotedness; स्वरूपयोग्ये सुरतप्रसङ्गे Ku.1.19; तस्यात्यायतकोमलस्य सततं द्यूतप्रसङ्गेन किम् Mk.2.11; Śi.11.22.

Union, intercourse, association, connection; निवर्ततामस्माद्गणिका- प्रसंगात् Mk.4; Pt.1.251.

Illicit intercourse.

Occupation, intentness, being engaged or occupied with; भ्रूविक्रियायां विरतप्रसङ्गैः Ku.3.47.

A subject or topic (of discourse or controversy).

An occasion, incident; दिग्विजयप्रसंगेन K.191; यात्राप्रसंगेन Māl.1.

Conjuncture, time, opportunity; सूक्ष्मेभ्यो$पि प्रसंगेभ्यः स्त्रियो रक्ष्या विशेषतः Ms.9.5.

A contingency, event, case, occurrence of a possibility; नेश्वरो जगतः कारणमुपपद्यते, कुतः, वैषम्यनैर्घृण्यप्रसंगात् Ś. B; एवं चानवस्थाप्रसंगः ibid.; तस्याणुतर- प्रसंगात् Tarka K.; Ku.7.16.

Connected reasoning or argument.

A conclusion, an inference.

Connected language.

Inseparable application or connection (= व्याप्ति q. v.).

Mention of parents.

Introduction, insertion.

Gain.

An extended application; अन्यत्र कृतस्यान्यत्रासक्तिः प्रसङ्गः । यथा प्रदीपस्य प्रासादे कृतस्य राजमार्गे$प्यालोककरणम् ŚB. on MS.12.1.1.

(In drama) A second or subsidiary incident or plot. (प्रसंगेन, प्रसंगत, प्रसंगात् are used adverbially in the sense of:

in relation to.

in consequence of, on account of, because of, by way of.

occasionally, incidentally.

in course of; as in कथाप्रसंगेन 'in course of conversation'). -Comp. -निवारणम् prevention or obviation of similar contingencies in future. -वशात् ind. according to the time, by the force of circumstances.-विनिवृत्तिः f. nonrecurrence of a contingency; द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये Ms.8.368. -समः (in न्याय) the sophism that the proof too must be proved.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसङ्ग/ प्र-सङ्ग See. under प्र-शञ्ज्.

प्रसङ्ग/ प्र-सङ्ग m. adherence , attachment , inclination or devotion to , indulgence in , fondness for , gratification of , occupation or intercourse with( loc. gen. or comp. ) Mn. MBh. etc. (637771 गेनind. assiduously , zealously , eagerly ; See. also below)

प्रसङ्ग/ प्र-सङ्ग m. evil inclination or illicit pursuit Mn. ix , 5

प्रसङ्ग/ प्र-सङ्ग m. union , connection( ifc. " connected with " e.g. मधु-प्रसङ्ग-मधु, " honey connected with or coming in the spring season ") Ratna7v. i , 17

प्रसङ्ग/ प्र-सङ्ग m. ( pl. )all that is connected with or results from anything Ka1m.

प्रसङ्ग/ प्र-सङ्ग m. occurrence of a possibility , contingency , case , event S3rS. Mn. S3am2k. Pa1n2. Sch. ( e.g. एचः प्लुत-प्रसङ्गे, " in the event of a diphthong being prolated ")

प्रसङ्ग/ प्र-सङ्ग m. applicability Vajras.

प्रसङ्ग/ प्र-सङ्ग m. an occasion , incident , conjuncture , time , opportunity MBh. Ka1v. etc. (ibc. ; 637777 गेन, आत्and अतस्ind. when the occasion presents itself , occasionally , incidentally ; प्रसङ्गे कुत्रा-पि, " on a certain occasion " ; अमुना प्रसङ्गेन, तत्-प्रसङ्गेनor एतत्-प्रसङ्गे, " on that occasion ")

प्रसङ्ग/ प्र-सङ्ग m. mention of parents (? = गुरु-कीर्तित) Sa1h.

प्रसङ्ग/ प्र-सङ्ग m. (in dram. ) a second or subsidiary incident or plot W.

प्रसङ्ग/ प्र-सङ्ग m. N. of a man Katha1s.

प्रसङ्ग/ प्र-सङ्ग m. ( pl. )of a Buddhistic school

"https://sa.wiktionary.org/w/index.php?title=प्रसङ्ग&oldid=502754" इत्यस्माद् प्रतिप्राप्तम्