यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसादः, पुं, (प्र + सद् + घञ् ।) प्रसन्नता । नैर्म्मल्यम् । इत्यमरः । १ । ३ । १६ ॥ (यथा, प्रबोधचन्द्रोदये प्रस्तावनायाम् । “कल्पान्तवातसंक्षोभलङ्घिताशेषभूभृतः । स्थैर्य्यप्रसादमर्य्यादास्ता एव हि महोदघेः ॥”) अनुग्रहः । (यथा, रघुः । २ । ६८ । “तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य । प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ॥”) काव्यप्राणः । स्वास्थ्यम् । प्रसक्तिः । इति मेदिनी । दे, ३५ ॥ वैदर्भीरीतियुक्तकाव्यगुणः । तस्य लक्षणम् । ग्राम्यशब्दभिन्नव्यक्तार्थपद- वत्त्वम् । यथा, -- “ओजःप्रसादमाधुर्य्यगुणत्रितयभेदतः । गौडवैदर्भपाञ्चाला रीतयः परिकीर्त्तिताः । व्यक्तार्थपदमग्राम्यं प्रसादः परिकीर्त्तितः ॥” इति काव्यचन्द्रिका ॥ * ॥ (तथा च साहित्यदर्पणे ८ परिच्छेदे । “चित्तं व्याप्नोति यः क्षिप्रं शुष्केन्धनमिवानलः । स प्रसादः समस्तेषु रसेषु रचनासु च ॥”) देवनिवेदितद्रव्यं गुरूणां भुक्तावशेषश्च । यथा, “आसीद्वंशध्वजो राजा प्रजापालनतत्परः । प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः ॥” इति स्कान्दे रेवाखण्डे सत्यनारायणव्रतकथा ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाद पुं।

नैर्मल्यम्

समानार्थक:प्रसाद,प्रसन्नता

1।3।16।2।4

भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके। चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता॥

वैशिष्ट्य : चन्द्रः

पदार्थ-विभागः : , सामान्यम्, अवस्था

प्रसाद पुं।

अनुसरणम्

समानार्थक:अनुरोध,अनुवर्तन,प्रसाद

3।3।91।1।1

स्यात्प्रसादोऽनुरागेऽपि सूदः स्याद्व्यञ्जनेऽपि च। गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाद¦ पु॰ प्र + सद--भावे घञ्।

१ नैर्मल्ये

२ अनुग्रहे

३ काव्यगु-णमेदे

४ स्वास्थ्ये

५ प्रसक्ते

६ देवनैदेद्ये

७ गुरुजनभुक्तावशिष्टे च अमरः। काव्यगुणभेदश्च रसस्यैव धर्मभेदः श-ब्दानां तथात्वमुपचारात् यथोक्तं सा॰ द॰
“रसस्याङ्गित्व-साप्तस्य धर्माः शोर्य्यादयो यथा”। गुणाः यथा खत्वङ्गि-त्वमाप्तस्यात्मन उत्कर्षहेतुत्वात् शौर्य्यादयो गुणशब्दवाच्याः तथा काव्येऽङ्गित्वमाप्तस्य रसस्य धर्मा। स्वरूप-विशेषाः माधुर्य्यादयोऽपि खसम्पकिंपदसन्दर्भस्य काव्यव्यपदेशस्यौपायिकानुगुण्यभाज इत्यर्थः”। यथा चैर्षा[Page4499-a+ 38] रसमात्रस्य धर्मत्वं तथा दर्शितम्।
“एवं माधुर्य्यमो-जोऽथ प्रसाद इति ते त्रिधा” इत्युपक्रमे
“चित्तं व्या-व्नेति थः क्षिप्रं शुष्केन्थनमिवानलः। स प्रसादः सम-स्तेषु रसेषु रचनासु च”। व्याप्नोति आविष्करोति।
“शब्दास्तद्व्यञ्जका ह्यर्थबोधकाः श्रुतिमात्रतः” यथा
“सूचीमुणेन सकृदेव कृतव्रण! त्वं सुक्ताकलाप। लुठसिस्तनयोः प्रियायाः। बाणैः स्मरस्य शतशो विनिकृत्तमर्मास्वप्नेऽपि तां कथमहं न विलोकयामि” सा॰ द॰
“प्रसादवत्प्रसद्वार्थमिन्दोरिन्दीवरद्युति। लक्ष्मलक्षीं तनोतीतिप्रतीतिं सुभगं वचः” काव्यादर्शः। धर्मस्य पत्न्यां मूर्त्तौजाते

८ पुत्रभेदे भाग॰

४ ।

१ ।

३९ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाद¦ m. (-दः)
1. Clearness, cleanness, transparency, brightness.
2. Fa- vour, kindness, propitiousness, approbation.
3. Well-being, wel- fare.
4. Composure, calmness of mind.
5. Poetry written in an elegant but an easy style.
6. Perspicuity.
7. Connection, associa- tion.
8. Propitiatory offering.
9. Good humour, good temper.
10. Food that has been offered to an idol, or of which a spiritual teacher has partaken. E. प्र before, सद् to go, aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसादः [prasādḥ], 1 Favour, kindness, condescension, propitiousness; कुरु दृष्टिप्रसादम् 'be pleased to show yourself'; इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव R.1.91;2.22; ध्रुवमत्र न वर्धयेत् प्रसादम् Bu. Ch.5.65.

Good temper, graciousness of disposition.

Calmness, tranquillity, composure, serenity, sedateness, absence of excitement; आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति Bg.2.64.

Clearness, limpidness, brightness, transparency, purity (as of water, mind &c.); गङ्गा रोधःपतनकलुषा गृह्णतीव प्रसादम् V.1. 9; Ś.7.32; प्राप्तबुद्धिप्रसादाः Śi.11.6; R.17.1; Ki.9.25.

Perspicuity, clearness of style, one of the three Guṇas according to Mammaṭa, who thus defines it: शुष्केन्धनाग्निवत् स्वच्छजलवत् सहसैव यः । व्याप्नोत्यन्यत् प्रसादो$सौ सर्वत्र विहितस्थितिः K. P.8; यावदर्थकपदत्वरूपमर्थवैमल्यं प्रसादः or श्रुतमात्रा वाक्यार्थं करतलबदरमिव निवेदयन्ती घटना प्रसादस्य R. G.; see Kāv.1.44; चित्तं व्याप्नोति यः क्षिप्रं शुष्केन्धनमिवानलः । स प्रसादः समस्तेषु रसेषु रचनासु च S. D.611; प्रसादरम्यमोजस्वि गरीयो लाघवान्वितम् Ki.11.38.

Food offered to idols &c., or the remnants of such food.

A free gift, gratuity.

Any propitiatory offering.

Wellbeing, welfare.

An essence of the food etc. (at the completion of the stages of digestion); रसाद् रक्तं प्रसादजं, ततो रक्तान्मांसं प्रसादजं, मांसान्मेदः प्रसादज इत्यादि यावत् शुक्राद् गर्भः प्रसादजः इति Āyurvedaśāstra. -Comp. -उन्मुख a. disposed to favour. -दानम् a propitiatory gift. -पट्टः a turban of honour. -पट्टकम् a written edict of favour. -पराङ्मुखa.

withdrawing favour from any one.

not caring for any body's favour. -पात्रम् an object of favour.-स्थ a.

kind, propitious.

serene, pleased, happy.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाद/ प्र-साद m. ( ifc. f( आ). )clearness , brightness , pellucidness , purity(See. अम्बु-प्) , Up. Ka1lid. etc. ( Nom. P. सादति, to be clear or bright. S3atr. )

प्रसाद/ प्र-साद m. clearness of style , perspicuity Prata1p. Ka1vya7d. Sa1h.

प्रसाद/ प्र-साद m. brightness (of the face) Ragh.

प्रसाद/ प्र-साद m. calmness , tranquillity , absence of excitement Kat2hUp. Sus3r. Yogas.

प्रसाद/ प्र-साद m. serenity of disposition , good humour MBh. Sus3r. Ragh. etc.

प्रसाद/ प्र-साद m. graciousness , kindness , kind behaviour , favour , aid , mediation(637842 दात्ind. through the kindness or by the favour of ; दंकृ, to be gracious ; See. दुष्-प्, द्रिक्-प्) Gobh. MBh. Ka1v. etc.

प्रसाद/ प्र-साद m. Kindness personified as a son of धर्मand मैत्रीBhP.

प्रसाद/ प्र-साद m. clarified liquor , a decoction Car.

प्रसाद/ प्र-साद m. settlings , a residuum ib.

प्रसाद/ प्र-साद m. free gift , gratuity Ratna7v.

प्रसाद/ प्र-साद m. a propitiatory offering or gift (of food = प्-द्रव्य, प्रसादा-न्न) L.

प्रसाद/ प्र-साद m. the food presented to an idol , or the remnants of food left by a spiritual teacher (which any one may freely appropriate to his own use) RTL. 69 ; 145 etc.

प्रसाद/ प्र-साद m. approbation W.

प्रसाद/ प्र-साद m. well-being , welfare W.

प्रसाद/ प्र-साद m. N. of a Comm. on the प्रक्रिया-कौमुदी

प्रसाद/ प्र-साद m. withdrawing -ffavour from any one( gen. ) Pan5cat.

प्रसाद/ प्र-साद m. gracious , favourable L. (637865 -वती-समाधिm. a partic. समाधिBuddh. )

प्रसाद/ प्र-साद m. and favourite , darling

प्रसाद/ प्र-साद etc. See. प्र-सद्.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--born of मैत्री. भा. IV. 1. ५०.
(II)--a fruit of प्राणायाम; control of the five winds by the senses. वा. ११. 4, १०.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRASĀDA : A King of the family of Manu. (4th Skandha, Bhāgavata).


_______________________________
*1st word in right half of page 603 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रसाद&oldid=502802" इत्यस्माद् प्रतिप्राप्तम्