प्राकृत
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राकृतः, त्रि, (प्रकृष्टमकृतमकार्य्यं यस्य ।) नीचः । इत्यमरः ॥ (यथा, देवीभागवते । १ । १५ । ३१ । “अश्रुपातं करोत्यद्य विवशः प्राकृतो यथा ॥” अविकारकः । यथा, भावप्रकाशे अजीर्ण- रोगाधिकारे । “वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरम् ॥ प्राकृतं अविकारकम् ॥” * ॥) प्रकृतिसम्बन्धी । यथा, -- “इत्युक्त्वासीद्धरिस्तूष्णीं भगवानात्ममायया । पित्रोः संपश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥” इति श्रीभागवते दशमस्कन्धे ३ अध्यायः ॥ (यथाच मार्कण्डेये । ४५ । ७३ । “इत्येष प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः ॥” यथा च मनौ । ११ । १५९ । “स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ॥” “प्राकृतं प्राजापत्यं प्रकृतौ भवं प्राकृतं सर्व्व- कृच्छ्राणां प्रकृतित्वादेवमुच्यते ।” इति तद्भाष्ये मेधातिथिः ॥ * ॥ प्रकृतौ भवस्तत आगतो वा । प्रकृति + “तत्र भवः ।” ४ । ३ । ५३ । “तत आगतः ।” ४ । ३ । ७४ । इति वा अण् ।) भाषाभेदे, क्ली । स च संस्कृतप्रकृतिकः । यथा । अथ प्राकृतम् । अथशब्द आनन्तर्य्यार्थोऽधि- कारार्थश्च । प्रकृतिः संस्कृतं तत्र भवं तत आगतं वा प्राकृतम् । संस्कृतानन्तरं प्राकृत- मधिक्रियते । संस्कृतानन्तरं प्राकृतस्यानुशास- नम् । सिद्धसाध्यमानभेदसंस्कृतयोनेरेव तस्य लक्षणं न देश्यस्य इति ज्ञापनार्थम् । संस्कृत- समन्तु संस्कृतलक्षणेनैव गतार्थम् । प्राकृते प्रकृतिप्रत्ययलिङ्गकारकसमाससं ज्ञादयः संस्कृत- वद्वेदितव्याः । लोकादिति च वर्त्तते । तेन ऋ ॠ ऌ ॡ ऐ औ ङ ञ श ष विसर्ज्जनीयप्लुतवर्जो वर्णसमाम्नायो लोकादवगन्तव्यः । ङञौ स्ववर्ग्य- संयुक्तौ भवत एव । ऐदौ तौ च केषाञ्चित् । कैतवं कैअवम् । सौदर्य्यं सौअरिअम् । कौरवाः कौअवा । तथा स्वरव्यञ्जनं द्विवचनं चतुर्थी- बहुवचनञ्च न तु भवति । अबहुलं बहुल- मित्यधिकृतं वेदितव्यमाशास्त्रपरिसमाप्तेः । ततश्च क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्- विभाषा क्वचिदन्यदेव भवति । इति हेमचन्द्र- कृतशब्दानुशासनवृत्तौ अष्टमाध्यायस्य चतुर्थः पादः ॥ * ॥ (यथा च प्राकृतचन्द्रिकायाम् । “प्रकृतिः संस्कृतं तत्र भवत्वात् प्राकृतं स्मृतम् । तद्भवं तत्समं देशीत्येवमेतत् त्रिधा मतम् ॥” चण्डाचार्य्यादयस्तु आर्षप्राकृतभेदेन प्राकृतं द्विविधं कल्पयन्ति । जैनबौद्धानां शास्त्रेषु प्राचीनतमनाटकादिषु च आर्षप्राकृतप्रयोगः प्रायशो दृश्यते ॥ कानिचित् विशेषलक्ष्याणि प्राकृतचन्द्रिकायामुक्तानि । यथा, -- “तच्चार्षं मागधी शौरसेनी पैशाचिकी तथा । चूलिका पैशाचिकञ्चापभ्रंशश्चेति षड्विधम् ॥ महाराष्ट्रोद्भवां भाषां प्रकृष्टं प्राकृतं विदुः । आकरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ॥” नाटकादौ उत्तमस्यापि नायकादेः कदाचितु मत्तादिदोषोपहतस्य प्राकृतकथनं नैव दोषाय । यदुक्तं तत्रैव । “ऐश्वर्य्यादिप्रमत्तस्य दारिद्रोपप्लुतस्य च । उत्तमस्यापि पठतः प्राकृतं नैव दूष्यति ॥ क्रीडार्थं नृपतेरिष्टं प्राकृतञ्च द्बिजन्मनाम् । भरतेनोदितं प्राज्यमबाधितमिदं वचः ॥” नाटकादौ बालस्त्रीवृद्धादीनामगुणान्वितानां प्राकृतकथनमेव युक्ततरम् । यथाह भरद्वाजः । “गाथासु तु महाराष्ट्र्या अन्या नाट्याश्रया मताः । बालस्त्रीवृद्धभिक्षूणां श्रावकव्याजलिङ्गिनाम् । ग्रहोपसृष्टमत्तानां प्राकृतं षण्डरूपिणाम् ॥” * ॥ प्रलयविशेषे, पुं । यथा, विष्णुपुराणे । १ । ७ । ३८ -- ३९ । “नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिकी द्विज ! । नित्यश्च सर्व्वभूतानां प्रलयोऽयं चतुर्व्विधः ॥ ब्राह्मो नैमित्तिकस्तत्र यच्छेते जगतः पतिः । प्रयाति प्राकृते चैव ब्रह्माण्डं प्रकृतौ लयम् ॥”)
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राकृत पुं।
नीचः
समानार्थक:विवर्ण,पामर,नीच,प्राकृत,पृथग्जन,निहीन,अपसद,जाल्म,क्षुल्लक,चेतर,इतर
2।10।16।1।4
विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः। निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राकृत¦ त्रि॰ प्रकृष्टमकृतमपकार्य्यं यस्य।
१ नीचे। प्रकृतेरयम्अण्।
२ प्रकृतिसम्बन्धिनि। प्रकृत्या स्वभावेन निर्वृत्तःअण्।
३ स्वभावसिद्धे
“बभूव प्राकृतः शिशुः” भाग॰
१० । प्रकृतेः संस्कृतशब्दात् आगतः अण्।
४ नाट-कादौ प्रसिद्धे अपभ्रंशशब्दभेदे अमरः। प्राकृतभा-धायाः संस्कृतशब्दप्रकृतिकत्वात् तथात्वं प्राकृतकङ्केश्व-स्वादौ वररुच्यादिप्रणीते ग्रन्वेऽस्य विस्तरो दृश्यः। स्वभावतः सिद्धयोः
५ मित्रामित्रयोः। स्वदेशानन्तरदेश-वर्त्ती नृपः प्राकृतः शत्रुः सन्निकृष्टविषयग्राहित्वस-म्भवात्तस्य तथात्वम् तत्रानन्तरविषयस्थो नृपः प्राकृतंमित्रं मध्यवर्त्तिनृपविषयस्य उभयोः जिघृक्षासम्भवात्तथात्वम्।
“स्याताममित्रौ मित्रे च सहजप्राकृतावपि” माघ
२ यसर्गश्लोकव्याख्याने मल्लिनाथः।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राकृत¦ mfn. (-तः-ता-तं) Low, common, vulgar, thence especially appli- cable to a provincial and peculiar dialect of the Sanskrit language.
2. Natural.
3. Belonging to or derived from the philosophical Pra- kriti4, illusory, material, &c. m. (-तः) A low man or one following a degraded profession. n. (-तं) Any dialect not Sanskrit, it is espe- cially spoken by the female characters and the inferior personages of plays, E. प्रकृति nature, and अण् aff., or प्र pre-eminently and अकृत not made.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राकृत [prākṛta], a. (-ता, -ती f.) [प्रकृतेरयं प्रकृत्या निर्वृत्तो वा अण्]
Original, natural, unaltered, unmodified; स्याताममित्रौ मित्रे च सहजप्राकृतावपि Śi.2.36 (see Malli, thereon).
Usual, common, ordinary.
Uncultivated, vulgar, unrefined, illiterate; प्राकृत इव परिभूयमानमात्मानं न रुणत्सि K.146; Bg.18.28.
Insignificant, unimportant; trifling; Mu.1.
Derived from Prakṛiti, q. v.; प्राकृतो लयः 'reabsorption into Prakṛiti'; विमुञ्चेत् प्राकृतान् ग्रामांस्तान् मुक्त्वा$मृतमश्नुते Mb.12.24.12.
Provincial, vernacular (as a dialect); see below.
तः A low man, an ordinary or vulgar man. कार्षापणं भवेद्दण्डयो यत्रान्यः प्राकृतो जनः Ms.8.336.
A kind of fever; वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात् Mādhava; (see -ज्वरः) -तम् A vernacular or provincial dialect derived from and akin to Sanskrit; प्रकृतिः संस्कृतं तत्र भवं तत आगतं च प्राकृतम् Hemachandra. (Many of these dialects are spoken by the female characters and inferior personages of Sanskrit plays and are usually divided into 4 dialects: शौरसेनी, माहाराष्ट्री, अपभ्रंश and पैशाची); तद्भवस्तत्समो देशीत्यनेकः प्राकृत- क्रमः Kāv.1.33; also 34, 35; त्वमप्यस्मादृशजनयोग्ये प्राकृतमार्गे प्रवृत्तो$सि Vb.1.
Resolution or reabsorption into प्रकृति; the dissolution of the universe.
A particular ritual or यज्ञ; Bhāg.1.84.52. -Comp. -अरिः a natural enemy, i. e. the ruler of an adjacent country; see Malli. on Śi.2.36. -उदासीनः a natural neutral; i. e. a ruler whose dominions lie beyond those of the natural ally. -ज्वरः a common or ordinary fever. -प्रलयः complete dissolution of the universe. -मानुषः a common or ordinary man. -मित्रम् a natural ally; i. e. a ruler whose dominions lie immediately beyond those of the natural enemy (i. e. whose country is separated from the country with which he is allied by that of another).
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राकृत/ प्रा--कृत See. s.v.
प्राकृत mf( आ, or ई)n. (fr. प्र-कृति)original , natural , artless , normal , ordinary , usual S3Br. etc.
प्राकृत mf( आ, or ई)n. low , vulgar , unrefined Mn. MBh. etc.
प्राकृत mf( आ, or ई)n. provincial , vernacular , Prakritic Vcar.
प्राकृत mf( आ, or ई)n. (in सांख्य) belonging to or derived from प्रकृतिor the original element
प्राकृत mf( आ, or ई)n. (in astron. ) N. of one of the 7 divisions of the planetary courses (according to पराशरcomprising the नक्षत्रs स्वाति, भरणी, रोहिणीand कृत्तिका)
प्राकृत m. a low or vulgar man Mn. viii , 338 MBh. etc.
प्राकृत m. (with or scil. लय, प्रलयetc. ) resolution or reabsorption into प्रकृति, the dissolution of the universe Pur.
प्राकृत n. any provincial or vernacular dialect cognate with Sanskrit ( esp. the language spoken by women and inferior characters in the plays , but also occurring in other kinds of literature and usually divided into 4 dialects , viz. शौरसेनी, माहाराष्ट्री, अपभ्रंशand पैशाची) , Ka1v. Katha1s. Ka1vya7d. etc.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
PRĀKṚTA : A Yakṣa. He became very rich within twelve days. (Śloka 19, Chapter 134, Vana Parva).
_______________________________
*11th word in left half of page 599 (+offset) in original book.
Vedic Rituals Hindi
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राकृत वि.
(प्रकृत + अण्) साधारण (वाचन), मा.श्रौ.सू. 9.3.1.3।