यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रासादः, पुं, (प्रसीदन्त्यस्मिन्निति । प्र + सद् + “हलश्च ।” ३ । ३ । १२१ । इत्याधारे घञ् । “उपसर्गस्य घञ्यमनुष्ये बहुलम् ।” ६ । ३ । १२२ । इति उपसर्गस्य दीर्घः ।) देवभूभुजां गृहम् । इत्यमरः । २ । २ । ९ ॥ (यथा, देवीभाग- वते । २ । ९ । ४२ । “इत्युक्त्वा सचिवान् राजा कल्पयित्वा सुरक्ष- कान् । कारयित्वाथ प्रासादं सप्तभूमिकमुत्तमम् ॥”) तल्लक्षणादि यथा, -- सूत उवाच । “प्रासादानां लक्षणन्तु वक्ष्ये शौनक ! तच्छृणु । चतुःषष्टिपदं कृत्वा दिग्विदिक्षूपलक्षितम् ॥ चतुष्कोणं चतुर्भिश्च द्बाराणि सूर्य्यसंख्यया । चत्वारिंशाष्टभिश्चैव भित्तीनां कल्पना भवेत् ॥ ऊर्द्धक्षेत्रसमा जङ्घा जङ्घार्द्धद्बिगुणं भवेत् । गर्भविस्तारविस्तीर्णा शुकाघ्रा च विधीयते ॥ तत्त्रिभागेण कर्त्तव्या पञ्चभागेन वा पुनः । निर्गमस्तु शुकाघ्राया उच्छ्रयः शिखरार्द्धगः ॥ चतुर्धा शिखरं कृत्वा त्रिभागे वेदिबन्धनन् । चतुर्थे पुनरस्यैव कण्ठमामलसारकम् ॥ * ॥ अथवापि समं वास्तुं कृत्वा षोडशभागिकम् । तस्य मध्ये चतुर्भागमादौ गर्भन्तु कारयेत् ॥ भागद्वादशकां भित्तिं ततस्तु परिकल्पयेत् । चतुर्भागेण भित्तीनामुच्छ्रयः स्यात् प्रमाणतः ॥ द्बिगुणः शिखरोच्छ्रायो भित्त्युच्छ्रायाच्च मानतः । शिखरार्द्धस्य चार्द्धेन विधेयास्तु प्रदक्षिणाः ॥ चतुर्द्दिक्षु तथा ज्ञेयो निर्गमस्तु तथा बुधैः । पञ्चभागेन संभज्य गर्भमानं विचक्षणः ॥ भागमेकं गृहीत्वा तु निर्गमं कल्पयेत् पुनः । गर्भसूत्रसमो भागादग्रतो मुखमण्डपः ॥ एतत् सामान्यमुद्दिष्टं प्रासादस्य हि लक्षणम् । लिङ्गमानमथो वक्ष्ये पीठो लिङ्गसमो भवेत् ॥ द्बिगुणेन भवेद्गर्भः समन्ताच्छौनक ! ध्रुवम् । तद्बिधा च भवेद्भित्तिर्जङ्घा तद्विस्तरार्द्धगा ॥ द्बिगुणं शिखरं प्रोक्तं जङ्घायाश्चैव शौनक ! । पीठं गर्भावरं कर्म्म तन्मानेन शुकाघ्रकाम् ॥ निर्गमस्तु समाख्यातः शेषं मूलवदेव तु । लिङ्गमानः स्मृतो ह्येष द्वारमानमथोच्यते ॥ * ॥ कराग्रं वेदवत् कृत्वा द्वारं भागाष्टकं भवेत् । विस्तरेण समाख्यातं द्विगुणं वेच्छया भवेत् ॥ द्वारषत् पीठमध्ये तु शेषं शुषिरकं भवेत् । पादिकं शेषिकं भित्तिर्द्वारार्द्धेन परिग्रहात् ॥ तद्बिस्तारसमा जङ्घा शिखरं द्विगुणं भवेत् । श्रीवृक्षकादयश्चाष्टौ मध्यमाश्च उदाहृताः । तथा सिंहादयः पञ्च कनिष्ठाः शुभदा मताः ॥” इति विश्वकर्म्मप्रकाशे ५ अध्यायः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रासाद पुं।

देवानां_राज्ञां_च_गृहम्

समानार्थक:प्रासाद

2।2।9।3।2

वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः। हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रासाद¦ पु॰ प्रसीदत्यस्मिन् प्र + सद--आधारे घञ् दीर्घः। देवनृपयोर्गृहे अमरः देवगृहशब्दे

३६

७८ पृ॰ दृश्यम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रासादः [prāsādḥ], [प्रसीदत्यस्मिन् प्र + सद् आधारे घञ् दीर्घः]

A palace, mansion, any large palatial building; भिक्षुः कुटीयति प्रासादे Sk.; Me.66.

A royal mansion.

A temple, shrine.

A raised platform for spectators.

Terrace; ततो दुर्योधनगृहं प्रासादैरुपशोभितम् Mb.12.44.6.-Comp. -अङ्गनम् the court-yard of a palace or temple.-आरोहणम् entering or going up into a palace. -कुक्कुटः a tame pigeon. -गर्भः an inner apartment in a palace.-तलम् the surface or flat roof of a palace. -पृष्ठः a balcony on the top of a palace; अथ प्रासादपृष्ठे सुखोपविष्टानां राजपुत्राणां ...... H. -प्रतिष्ठा the consecration of a temple.-प्रस्तरः the flat roof of a house. -मण्डना a kind of orpiment. -शायिन् a. sleeping in a palace. -शिखरः, -शृङ्गम् the spire or pinnacle of a palace or temple, a turret; प्रासादशिखरस्थो$पि काकः किं गरुडायते Pt.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रासाद/ प्रा--साद See. s.v.

प्रासाद m. (for प्र-स्lit. " sitting forward " , sitting on a seat in a conspicuous place ; See. Pa1n2. 6-3 , 122 )a lofty seat or platform for spectators , terrace S3a1n3khS3r. Mn.

प्रासाद m. the top-story of a lofty building Ka1d.

प्रासाद m. a lofty palatial mansion (approached by steps) , palace , temple AdbhBr. MBh. Ka1v. etc.

प्रासाद m. (with Buddhists) the monks' hall for assembly and confession MWB. 426.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--ety. that which pleases the mind; generally a palace. वा. 8. १२७; ३५. 4; ३९. ३६; ४०. 9.

"https://sa.wiktionary.org/w/index.php?title=प्रासाद&oldid=503021" इत्यस्माद् प्रतिप्राप्तम्