यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकः, पुं, (फल + संज्ञायां कन् ।) अस्थिखण्डम् । इति जटाधरः ॥ नागकेशरम् । इति शब्द- चन्द्रिका ॥ काष्ठादिफलकम् । यथा, -- “पाण्डुलेख्येन फलके भूमौ वा प्रथमं लिखेत् । ऊनाधिकन्तु संशोध्यं पश्चात् पत्रे निवेशयेत् ॥” इति व्यवहारतत्त्वे व्यासः ॥ (यथा, मार्कण्डेये । ८७ । ५ । “भृकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् । काली करालवदना विनिष्क्रान्तासिपाशिनी ॥”) रजकपट्टम् । धोपार पाट इति भाषा । यथा, “शाल्मले फलके श्लक्ष्णे निज्याद्बासांसि नेजकः । न च वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥” इति मिताक्षरा ॥

"https://sa.wiktionary.org/w/index.php?title=फलकः&oldid=152491" इत्यस्माद् प्रतिप्राप्तम्