यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलश्रुतिः, स्त्री, (फलस्य कर्म्मफलस्य श्रुतिः श्रव- णम् ।) कर्म्मफलश्रवणम् । यथा, -- “फलशुतिरियं नॄणां न श्रेयो रोचनं परम् । श्रेयो विवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥” अपि च । “वेदोक्तमेव कुर्व्वाणो निःसङ्गोऽर्पितमीश्वरे । नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः ॥” इति श्रीभागवते ११ स्कन्धः । इति मलमासतत्त्वम् ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलश्रुति¦ स्त्री श्रु--करणादौ क्तिन्

६ त॰।

१ वैदिककर्मणां फल-प्रतिपादनार्थशब्दे

२ फलश्रवणे च
“फलश्रुतिरियं नॄणांन श्रेयो रोचनं परम्। श्रेयो विवक्षया प्रोक्तं यथाभैषज्यरोचनम्”। अपिच
“वेदोक्तमेव कुर्वाणी निःष-ङ्गोऽर्पितमीश्वरे। नैष्कर्म्यां लभते सिद्धिं रोचनार्थाफलश्रुतिः” भाग॰

११ स्क॰ मल॰ त॰ धृतवचनम्।

"https://sa.wiktionary.org/w/index.php?title=फलश्रुति&oldid=376941" इत्यस्माद् प्रतिप्राप्तम्