बद्धगुदम्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बद्धगुदम्, क्ली, (बद्धं गुदं पायुर्येन ।) उदररोग- विशेषः । तस्य निदानं यथा, -- “यस्यान्त्रमन्नैरुपलेपिभिर्व्वा बालाश्मभिर्वा पिहितं यथावत् । सञ्चीयते तस्य मलः सदोषात् शनैः शनैः सङ्करवच्च नाड्याम् ॥ निरुध्यते तस्य गुदे पुरीषं निरेति कृच्छ्रादपि चाल्पमल्पम् । हृन्नाभिमध्ये परिवृद्धिमेति तस्योदरं बद्धगुदं वदन्ति ॥” इति माधवकरः ॥ * ॥ तस्य चिकित्सा यथा । “स्निग्ध स्विन्नस्याभ्यक्त- स्याधो नाभेर्वामतश्चतुरङ्गुलमपहाय रोम- राज्या उदरं पाटयित्वा चतुरङ्गुलप्रमाण- मन्त्राणि निष्कृष्य निरीक्ष्य बद्धगुदस्यान्त्रप्रति- रोधकरमश्मानं बालं वापोह्य मलजातं वा ततो मधुसर्पिर्भ्यामभ्यज्यान्त्राणि यथास्थानं स्थापयित्वा वाह्यं व्रणमुदरस्य सीव्येत् द्बिव्रणी- योक्तेन विधानेन च रोपयेत् ।” इति सुश्रुते चिकित्सितस्थाने १४ अध्यायः ॥ (तथास्य- सकारणलक्षणम् । “पक्षवालैः सहान्नेन भुक्तैर्बद्धायने गुदे । उदावर्त्तस्तथार्शोभिरन्त्रसंमूर्च्छनेन वा ॥ अपानी मार्गसंरोधात् हत्वाग्निं कुपितोऽनिलः । वर्च्चःपित्तकफान् रुद्ध्वा जनयत्युदरं ततः ॥” तस्य रूपाणि । “तृष्णादाहज्वरमुखतालुशोषोरुसादकासंश्वास- दौर्ब्बल्यारोचकाविपाकवर्च्चोमूत्रसङ्गाध्मानच्छर्दि- क्षवथुशिरोहृन्नाभिगुदशूलान्यपिचोदरं मूढवातं स्थिरमरुणनीलराजीसिरावनद्धमवाजिकं वा प्रायो नाभ्युपरिगोपुच्छवदभिनिर्व्वर्त्तयति इत्येतत् बद्धगुदोदरमिति विद्यात् ॥” तथास्य चिकित्सा । “स्विन्नाय बद्धोदरिणे मूत्रं तीक्ष्णौषधान्वितम् । सतैललवणं दद्यात् निरूहं सानुवासनम् ॥” इति चरके चिकित्सितस्थाने त्रयोदशेऽध्याये ॥)