यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धम्, त्रि, (बध्यते स्म इति । बन्ध + कर्म्मणि क्तः ।) बन्धनयुक्तम् । बा~धा इति भाषा । तत्पर्य्यायः । सन्दानितम् २ मूर्णम् ३ उद्धितम् ४ सन्दितम् ५ सितम् ६ । इत्यमरः । ३ । १ । ९५ ॥ निग- डितम् ७ नद्धम् ८ कीलितम् ९ यन्त्रितम् १० संयतम् ११ । इति हेमचन्द्रः ॥ (यथा, मनुः । ९ । ३०८ । “वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते । तथा पापान्निगृह्णीयात् व्रतमेतद्धि वारुणम् ॥” तथा च मेघदूते । ७९ । “तन्मध्ये च स्फटिकफलका काञ्चनीवासयष्टि- र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ॥” तथा च शाकुन्तले २ अङ्के । “छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ॥”)

"https://sa.wiktionary.org/w/index.php?title=बद्धम्&oldid=152771" इत्यस्माद् प्रतिप्राप्तम्