बध
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बध, क बन्धे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) क, बाधयति । इति दुर्गा- दासः ॥
बध, ङ निन्दे । बन्धे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) ङ, बीभत्सते खलं लोकः । बधते तत्र त्यादयो न प्रयुज्यन्ते । इति रमानाथः । ‘माबधिष्ठा जटायुं मां सीतां रामाहमैक्षिषि ।’ इति भट्टिः । ६ । ४१ ॥ इति दुर्गादासः ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बध¦ पु॰ हन--घञ्। बधादेशः। हनने प्राणवियोगसाधनेव्यापारे अमरः। बधपदार्थविशेषं बधिभेदश्च प्रा॰ वि॰उक्तो यथा
“अथ बधो निरूप्यते। ननु कोऽयं बधः किं बधित्वं कतिविधं च तत्,? उच्यतेप्राणवियोगफलकव्यापारो बधः तन्नि-ष्पादकत्वञ्च साक्षात्परम्परोदासीनं स्मृतिकारपरिगणितंबधित्वम् अतो नेषुकारादिष्वतिव्याप्तिः तच्च पञ्चविधंस्मृतिस्वरसात् कर्त्ता प्रयोजकोऽनुमन्ता अनुग्राहकोनिमिती चेति यथाह आपस्तम्बः
“प्रयोजयिता अनुमन्ताकर्त्ता चेति सर्वे स्वर्गनरकफलभोक्तारो यो भूय आरभते तस्मिन् फले विशेषः”। अनुग्राहकमाह याज्ञ-वल्क्यः
“चरेद्व्रतमहत्वापि थातार्थञ्चेत् समागतः”। तथा मनुः
“बहूनामेककार्थ्याणां सर्वेषां शस्त्रधारिणाम्। यद्येको घातकस्तर सर्वे ते घातकाः स्मृताः”। भविष्ये
“यद्येकं बहवी विप्रा घ्नन्ति विप्रमनागसम्। तदैषांनिष्कृतिं बच्मि शृणुष्वेकमना गुहु!। तेषां यस्य प्रहा-रेण स विप्रो निधनं गतः। सरस्वतीं प्रतिस्रोतः सञ्च-रेत् पापशुद्धये”। स च द्विविधः। एको बध्यप्रति-रोघकः अन्यः स्वल्पप्रहर्त्ता। निमित्तिनमाह विष्णुः
“अन्यायेन गृहीतस्वो न्यायमर्थयते तु यः। यमुद्दिश्यत्यजेत् प्रार्णास्तमाहुर्ब्रह्मथातकम्”। अत्र नरान्तर-व्यापाराव्यवधानेन बधनिष्पादकः कर्त्ता, यः कर्त्तारंकारयति स प्रयोजकः सोऽपि द्विविधः। एकः स्वतो-ऽप्रवृत्तमेव पदातिं वेतनादिना बधार्थं प्रवर्त्तयति अपरःस्वतः प्रवृत्तमेव मन्त्रोपायोपदेशादिना प्रोत्साहमति। [Page4558-b+ 38] अनुमतिदाता अनुमन्ता। अनुमतिश्च द्विविधा। एकायद्विरोधाद्धननं न सम्भवति तस्य विरोधिनो मया नि-रोधः कर्त्तव्य इति प्रयुक्तिः। अपरा एनं हन्मीति वचनेशक्तस्याप्रतिषेध एव”। हिंसायाः पापाद्यनिष्टजनक-त्वेऽपि बैवहिसाया इष्टफदृजनकत्वात् नानिष्टजन-कता
“यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा। अतस्त्वां घातयिष्यामि तस्पाद्यज्ञे बधोऽबधः” ति॰ त॰। उक्तेः मनुनापि
“या वेदविहिता सा नियतास्मिंश्चराचरे। अहिंसामेव तां बिद्यात् वेदात् धर्मो हि निर्बवौ” उक्तेश्च। अबधः अहिंसा च तज्जन्यपापाजनकत्वेन तद्विरो-धीत्यर्थः। वहूतां रक्षणार्थमेकस्य वधेऽपि पुण्यजनकत्व-मुक्तम्
“एकस्य यत्र निधने प्रवृत्ते इष्टकारिणः। बहूनांभवति क्षेमं तस्य पुण्यप्रदो बधः। रुक्मस्तेयी सुरापश्चब्रह्महा गुरुतल्पगः। आत्मानं घातयेद्यस्तु तस्य पुण्य-प्रदो बधः” कालिका॰
२० अ॰। ब्रह्महन्तृबधेऽपि न राज्ञोदोषः प्रा॰ वि॰ स्थितः
“तथा नाततायिबधे दोषो हन्तुर्र्मवतिकश्चन” स्मृतेः आततायिबधेऽपि नानिष्टफलमिति यथायथंबोध्यम्।
बध¦ संयमने चु॰ उ॰ सक॰ सेट्। बाधयति--ते अबीबधत्--त।
बध¦ निन्दायां बन्धने च भ्वादि॰ आत्म॰ सक॰ सेट्। बीभत्सतेअवीभत्सिष्ट। निन्दनेऽर्थे एव स्वार्थे सन् बन्धने तु नतेन तत्र बधते अबधिष्ट इत्येव।
बध¦ पु॰ बुध--क।
१ पण्डिते, बृहस्पतिभार्य्यायां तारायांचन्द्रेण जनिते
२ पुत्रे तस्य रोहिण्या प्रतिपालनात्रौहिणेयत्वम्।
३ ग्रहभेदे। तस्योत्पत्तिकथा शिववरेणतस्य ग्रहरूपत्वप्राप्तिकथा च काशीख॰
१५ अ॰।
“बृहस्पतेःसवै भार्य्यामैश्वर्य्यमदमोहितः। पुरोहितस्यापि गुरोर्भ्रातु-राङ्गिरसस्य वै। जहार तरसा ताराम्” इत्युपक्रमे।
“ददावाङ्गिरसे तारां स्वयमेव पितामहः। अथान्त-र्गर्भमालोक्य तारां प्राह बृहस्पतिः। मदीयायां न तेयोनौ गर्भो धार्य्यः कथञ्चन। ईषिकास्तम्भमासाद्य सा गर्भंचोत्ससर्ज ह। जातमात्रः स भगवान् देवानामाक्षि-पद्वपुः। ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः। सत्यं व्रहि सुतः कस्य सोमस्याथ बृहस्पतेः। पृच्छ्य-माना यदा देवैर्नाह ताराऽतिसत्रपा। तदा तां शप्तु-मारब्धः कुमारः सोऽतितेजसा। तन्निवार्य्य तदा ब्रह्मातारां पप्रच्छ संशयम्। प्रोवाच प्राञ्जलिः सा त सोमस्येतिपितामहम्। तदा स मूर्द्ध्यूपाध्राय तारागर्भं प्रजा-पतिः। बुध इत्यकरोन्नाम तस्य बालस्य धीमतः। ततःस सर्वदेवेभ्यस्तेजोरूपबलाधिकः। बुधः सोमं समा-पृच्छ्य तपसे कृतनिश्चयः। जगाम काशीं निर्वाणराशिंविश्वेशपालिताम्। तत्र लिङ्ग प्रतिष्ठाप्य स्वनाम्ना तुबुधचूरम्। तपश्चचार चात्य ग्रमुग्र संशीलयन् हृदि”। इति तत्तप उक्तं तत्तपसा च तुष्टेन शिवेनोक्तं यथा
“रौहिणेय! महाभाग! सौम्य! सौम्यवचोनिधे!। नक्षत्रलोकादुपरि तव लोको भविष्यति। मध्ये सर्वंग्रहाणाञ्च सपर्य्यां लप्स्यसे पराम्”। बुधग्रहस्यकक्षाभगणादिकं खगोलशब्दे दृश्यम्।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बध¦ r. 1st cl. (वीभत्सते)
1. To bind or tie.
2. To hate, to despise, to loathe.
3. To suffer change or affection of the mind. r. 1st and 10th cls. (बधति-बाधयति-ते)
1. To tie, to bind.
2. To kill.
बध¦ m. (-धः)
1. Killing, slaughter, slaying, murder.
2. A killer, a slau- ghter. E. बध् substituted for हन् to kill, aff. घञ् |