यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बधिरः, त्रि, (बध्नाति कर्णमिति । बन्ध + “इषिमदि- मुदीति ।” उणा० १ । ५२ । इति किरच् ।) श्रवणेन्द्रियरहितः । श्रुतिशक्तिहीनः । काला इति भाषा । तत्पर्य्यायः । एडः २ । इत्य- मरः । २ । ६ । ४८ ॥ कल्लः ३ श्रवणापटुः ४ । इति शब्दरत्नावली ॥ उच्चैःश्रवाः ५ । इति संक्षिप्तसारोणादिवृत्तिः ॥ (यथा, मनुः । ११ । ५२ । “एवं कर्म्मविशेषेण जायन्ते सद्बिगर्हिताः । जडमूकान्धबधिराविकृताकृतयस्तथा ॥” बाधिर्य्यनिदानं यथा, -- “यदा शब्दवहं वायुः श्रोत आवृत्य तिष्ठति । शुद्धः श्लेष्मान्वितो वापि बाधिर्य्यं तेन जायते ॥” इति माधवकरः ॥ असाध्यबाधिर्य्यमाह । “बाधिर्य्यं बालवृद्धोत्थं चिरोत्थञ्च विवर्ज्जयेत् ।” इति भावप्रकाशः ॥ * ॥ अस्यौषधम् । “कर्णशूले कर्णनादे बाधिर्य्ये क्षेड एव च । चतुर्ष्वपि च रोगेषु सामात्यं भेषजं स्मृतम् ॥ शृङ्गवेरञ्च मधु च सैन्धवं तैलमेव च । कटूष्णं कर्णयोर्धार्य्यमेतत् स्याद्बेदनापहम् ॥ १ ॥ कर्णशूले कर्णनादे बाधिर्य्ये क्षेड एव च । पूरणं कटुतैलेन हितं वातघ्नमौषधम् ॥ २ ॥ शिखरिक्षारजवारितत्कृतकल्केन साधितं तैलम् । अपहरति कर्णनादं वाधिर्य्यञ्चापि पूरणतः ॥ शिखरी अपामार्गः ॥ ३ ॥ गवां मूत्रेण विल्वानि पिष्ट्वा तैलं विपाचयेत् । सजलञ्च सदुग्धञ्च तद्बाधिर्य्यहरं परम् ॥ क्षीरमत्राजं ग्राह्यम् । बिल्वतैलम् ॥ ४ ॥” इति भावप्रकाशः ॥ यथा च । “शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् । शुष्कं चतुर्गुणं दद्यात्तैलमेतैर्व्विपाचयेत् ॥ बाधिर्य्यं कर्णशूलञ्च पूयस्रावश्च कर्णयोः । क्रिमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् ॥” ५ इति गारुडे १९७ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बधिर पुं।

श्रवणशक्तिहीनः

समानार्थक:एड,बधिर

2।6।48।1।2

स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः। पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्

सम्पाद्यताम्
 
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बधिर¦ त्रि॰ बन्ध--किरच्। श्रोत्रेन्द्रियरहिते श्रवणशक्तिशून्थे। तस्यानंशिता मनुनोक्ता यथा
“अनंशौ क्लीवपतितौजात्यन्धबधिरौ तथा”। ततः अरीहणा॰ चतुरर्थ्यांवुञ्। बाधिरक तन्निकटदेशादौ त्रि॰। ततः दृढा॰ भावे वाइमनिच् पक्षे ष्यञ्। बधिरिमन् पु॰ बाधिर्य्य न॰तद्भावे तन्निदानादि माधवकरेणोक्तं यथा
“यदाशब्दबहं वायुः स्योतसावृत्य तिष्ठति। शुद्धः श्लेष्मा-न्वितो बापि बाधिर्य्यं तेन जायते”।

शब्दसागरः

सम्पाद्यताम्
 
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बधिर¦ mfn. (-रः-रा-रं) Deaf. E. बन्ध् to bind, (the hearing.) aff. किरच्, deriv. irr.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बधिर [badhira], a. Deaf; ध्वनिभिर्जनस्य बधिरीकृतश्रुतेः Śi.13.3; Ms.7.149.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बधिर etc. See. col. 3.

बधिर mf( आ)n. (sometimes written वधिर)deaf RV. etc.

बधिर m. N. of a serpent-demon (son of कश्यप) MBh.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Badhira : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 16, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.

_______________________________
*3rd word in left half of page p43_mci (+offset) in original book.

Mahabharata Cultural Index

"https://sa.wiktionary.org/w/index.php?title=बधिर&oldid=503079" इत्यस्माद् प्रतिप्राप्तम्