यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तम्, क्ली, (भज्यते स्मेति भजसेवायां + कर्म्मणि क्तः ।) अन्नम् । इत्यमरः । २ । ९ । ४८ ॥ अथ भक्तस्य नामानि साधनं गुणाश्च । “भक्तमन्नं तथान्धश्च क्वचित् कूरञ्च कीर्त्तितम् । ओदनोऽस्त्री स्त्रियां भिस्सा दीदिविः पुंसि भाषितः ॥” सुधौतांस्तण्डुलान् स्फीतांस्तोये पञ्चगुणे पचेत् । तद्भक्तं प्रसृतञ्चोष्णं विशदं गुणवन्मतम् ॥ भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लघु । अधौतमसृतं शीतं गुर्व्वरुच्यं कफप्रदम् ॥” इति भावप्रकाशः ॥ हरये निवेदितान्नस्य नित्यं भक्षणे फलं यथा, “ये विप्रा हरये दत्त्वा नित्यमन्नञ्च भुञ्जते । उच्छिष्टभोजनात्तेषां हरेर्दास्यं लभेन्नरः ॥” हरये अदत्त्वा तद्भक्षणे दोषो यथा, -- “न दत्त्वा हरये भक्त्या भुञ्जते चेद्भ्रमादपि । पुरीषसदृशं वस्तु जलं मूत्रसमं भवेत् ॥ * ॥ शूद्रश्चेद्धरिभक्तश्च नैवेद्यभोजनोत्सुकः । आमान्नं हरये दत्त्वा पाकं कृत्वा च खादति ॥” अन्नदानफलं यथा, -- “अन्नञ्च सर्व्वजीविभ्यः पुण्यार्थं दातुमर्हति । दत्त्वा विशिष्टजीविभ्यो विशिष्टं फलमाप्नुयात् ॥ अतो दत्त्वा मानुषेभ्यो लभतेऽष्टगुणं फलम् । ततो विशिष्टशूद्रेभ्यो दत्त्वा तद्द्विगुणं फलम् ॥ दत्त्वान्नं घैश्यजातिभ्यस्ततश्चाष्टगुणं फलम् । दत्त्वान्नं क्षत्त्रियेभ्योऽपि वैश्यानां द्विगुणं भवेत् ॥ क्षत्त्रियाणां शतगुणं विप्रेभ्योऽन्नं प्रदाय च । घिप्राणाञ्च शतगुण शास्त्रज्ञे ब्राह्मणे फलम् ॥ शास्त्रज्ञानां शतगुणं भक्ते विप्रे लभेद्ध्रुवम् । स चान्नं हरये दत्त्वा भुङ्क्ते भक्त्या च सादरम् ॥ विष्णवे भक्तविप्राथ दत्त्वा दातुश्च यत् फलम् । तत् फलं लभते नूनं भक्तब्राह्मणभोजने ॥ भक्त तुष्टे हरिस्तुष्टो हरौ तुष्टे च देवताः । भवन्ति सिक्ताः शाखाश्च यथा मूलनिषे- चनात् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २१ अध्यायः । यो यस्यान्नेन जीवेत स तस्याश्नाति किल्विषम् ॥” “आभीरः कुलमित्रञ्च गोपालो दासनापितौ । एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥ कुशीलवः कुम्भकारः क्षेत्रकर्म्मक एव च । एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्पं पणं बुधैः ॥” इति कौर्म्मे उपविभागे १६ अध्यायः ॥ तस्य मुख्यत्वं पारिभाषिकत्वञ्च यथा, -- “तण्डुलोऽम्ब्वग्निसंयोगाल्लवणयोगेन पिष्टकम् । फलं त्रितयसंयोगादन्नं भवति तत्क्षणात् ॥” इति रामार्च्चनचन्द्रिकाधृतवचनमिति केचित् ॥ (धनम् । यथा, मनौ । ११ । ७ । “यस्य त्रैवार्षिकं भक्तं पर्य्याप्तं भृत्यवृत्तये । अधिकं वापि विद्येत स सोमं पातुमर्हति ॥” “भक्तं धनम् ।” इति तद्भाष्ये मेधातिथिः ।)

भक्तः, त्रि, (भजते स्मेति । भजसेवायां + क्तः ।) तत्परः । इति हेमचन्द्रः ॥ (यथा, महा- भारते । १ । १७३ । १४ । “न त्वां दृष्ट्वा पुनरन्यां द्रष्टुं कल्याणि ! रोचये । प्रसीद वशगोऽहन्ते भक्तं मां भज भाविनि ! ॥” पूज्यविषयकानुरागो भक्तिस्तद्वांश्च ।) अथ श्रीभगवद्भक्तलक्षणानि । लिङ्गपुराणे । “व्रतकर्म्मगुणज्ञानभोगजन्मादिमत्स्वपि । शैवेष्वपि च कृष्णस्य भक्ताः सन्ति तथा तथा ॥ श्रीभागवते एकादशस्कन्धे । उत्तमभक्ता यथा, “ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनेन भावेन ते मे भक्ततमा मताः ॥” मध्यमभक्तो यथा, -- “ईश्वरे तदधीने वा वालिशेषु द्बिषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥” प्राकृतभक्तो यथा, -- “अर्च्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥” इति श्रीहरिभक्तिविलासः ॥ अपि च । “भक्तानां लक्षणं ब्रूहि भक्तानुग्रहकातर ! । येषां स्पर्शनसन्दर्शात् सद्यः पूतो नराधमः ॥ हरिभक्तिविहीनाश्च महाहङ्कारसंयुताः । स्वप्रशंसारता धूर्त्ताः शठाश्च साधुनिन्दकाः ॥ पुनन्ति सर्व्वतीर्थानि येषां स्नानावगाहनात् । येषाञ्च पादरजसा पूता पादोदकान्मही ॥ येषां सन्दर्शनं स्पर्शं देवा वाञ्छन्ति भारते । सर्व्वेषां परमो लाभो वैष्णवानां समागमः ॥ न ह्यग्नयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन विष्णुभक्तः क्षणादहो ! ॥ सौतिरुवाच । महालक्ष्मीवचः श्रुत्वा लक्ष्मीकान्तश्च सस्मितः । निगूढतत्त्वं कथितुमृषिश्रेष्ठोपचक्रमे ॥ श्रीनारायण उवाच । भक्तानां लक्षणं लक्ष्मि ! गूढं श्रुतिपुराणयोः । पुण्यस्वरूपं पापघ्नं सुखदं भक्तिमुक्तिदम् । सारभूतं गोपनीयं न वक्तव्यं खलेषु च ॥ भक्तत्यागे दोषो यथा, -- “ब्रह्महत्या गुरोर्घातो गोवधः स्त्रीवधस्तथा । तुल्यमेभिर्महापापं भक्तत्यागादुदाहृतम् ॥ भजन्तं भक्तमत्याज्यमदुष्टं त्यजतः मुखम् । नेह नामुत्र पश्यामि तस्मात् शक्त ! दिवं व्रज ॥” इति मार्कण्डेयपुराणे हरिश्चन्द्रोपाख्यानम् ॥ (कृतविभागः । यथा, लीलावत्याम् । “भक्तो हरः शुध्यति यद्गुणः स्यात् ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्त नपुं।

सिद्धान्नम्

समानार्थक:भिस्सा,भक्त,अन्ध,अन्न,ओदन,दीदिवि,कशिपु

2।9।48।2।2

पूपोऽपूपः पिष्टकः स्यात्करम्भो दधिसक्तवः। भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री सदीदिविः॥

अवयव : भक्तोद्भवमण्डः,भक्तसिक्तकान्नावयवः

 : मुन्यन्नविशेषः, स्थालीसंस्कृतान्नादिः, केशकीटाद्यपनीयशोधितोन्नः, दग्धोदनः

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्त¦ पुंन॰ भज--क्त।

१ अन्ने ओदने अमरः।

२ भक्तियुक्ते

३ तदात्मके ततपरे

४ विभक्ते कृतभागे च त्रि॰
“भक्तो हरःशुध्यति यद्गुणः स्यात्” लीला। अन्नपाकप्रकारस्त-द्गुणश्च मावप्र॰ उक्तो यथा
“सुधोतांस्तण्डुलान् स्फीतांस्तोये पञ्चगुणे पचेद्। [Page4617-b+ 38] तद्भक्तं प्रशृतञ्चोष्णं विशदं गुणवन्मतम्। भक्तं वह्नि-करं पथ्यं तर्पणं रोचनं लथु। अधौतमशृतं शीतंगुर्वरुच्यं कफप्रदम्”। भक्तियुक्तलक्षणादिकं तद्भेदश्च मुक्ताफले उक्तं यथा
“सकृन्मनः कृष्णपदारविन्दयोर्निवेशितं तद्गुणरागि यै-रिह”
“ते भक्ताः इति लक्षणं स च नबधाहासादिनववि-धरसास्वादमूलकत्वेन नवविधत्वात्”। रसभेदे भक्तविशेषाःमुक्ताफले दर्शिताः यथा
“तस्य तत् खेलनं दृष्ट्वा गोप्यःप्रेमपरिप्लुताः। व्रोडिताः प्रेक्ष्य चान्योऽन्यं जातहासान निर्ययुः” भाग॰

१० ।

१२ अ॰ तथाच हासे गोप्य सम्भोगशृ-ङ्गारे गोप्यादयस्तत्र दर्शिताः। विप्रलम्भशृङ्गारेऽपि गोप्यस्तत्र दर्शिताः।
“अन्तर्गृहगताः काश्चिद्गोप्योऽलब्धविनि-र्गमाः। इत्यादितद्भावनायुक्ता दध्युर्मीलितलोचनाः। दुः-सहप्रेष्ठविरहतीव्रतापधुताशुभाः। ध्यानप्राप्ताच्युताश्लेष-निर्वृत्त्या क्षीणमङ्गलाः। तमेव यरमात्मान जार-बुद्ध्याऽपि सङ्गताः। जहुर्गुणमयं देहं सद्यः प्रक्षीण-बन्धनाः। अन्यानि रासपञ्चाध्यायीवाक्यानि तत्रोदा-हृतानि दृश्यानि। करुणरमेऽर्जुनादयः। बाक्यानितत्र दृश्यानि। रौद्ररसे हिरण्यकशिपुशिशुपालादयः। भायानकरसे कंसादयः। वीभत्सरसे पुरूरवाः पिङ्गला-दयश्च। शान्तरसे नारदादयः। अद्भुतरसे श्रीदाम-ब्रह्मादयः। वीररसे बलिप्रभृतयः। तत्र दानवीरे बलिःधर्मवीरसे कविप्रभृतयः। युद्धवीरे शिशुपालादयः। ए-तेषां मूलवाक्यानि तत्र दृश्यानि। अधिकं भक्तिशब्दे दृश्यम्
“भक्तानां लक्षणं लक्ष्मि! गूढं श्रुतिपुराणयोः। पुण्य-स्वरूपं पापघ्नं सुखदं भक्तिमुक्तिदम्। सारमूतं गोप-नीयं न वक्तव्यं खलेषु च। गुरुवक्त्राद्विष्णुमन्त्रो यस्यकर्णे विशत्यलम्। वेदवेदाङ्गवेदान्तास्तं पवित्रं वदन्तिहि। पुरुषाणां शतं पूर्वं पूतं तज्जन्ममात्रतः। स्वर्गस्थंनरकस्थ वा मुक्तिमाप्नोति तत्क्षणात्। यैः कैश्चिद् यत्रवा जन्म लब्धं येषु च जन्तुषु च। जीवन्मुक्तास्ते चपूता यान्ति काले हरेः पदम्। मद्भक्तियुक्तो मत्पूजा-नियुक्तो मद्गुणाश्रितः। मद्गुणश्लाघनीयश्च सन्निविष्टश्चसन्ततम्। सगद्गदः साश्रुनेत्रः स्वात्मविश्रुत एव च। न वाञ्छति सुखं मुक्ति सालोक्यादिचतुष्टयम्। ब्रह्म-त्वममरत्वं वा तद्वाञ्छा मम सेवने। इन्द्रत्वञ्च मनुत्वञ्चदेवत्वञ्च सुदुर्लभम्। स्वर्गराज्यादिभोगांञ्च स्वप्ने च न हिवाञ्छ्रात। ब्रह्माण्डानि विनश्यन्ति देवा ब्रह्मादयस्तथा। [Page4618-a+ 38] कल्याणभक्तियुक्तश्च मद्भक्तो न प्रणश्यति। भ्रमन्ति भारतेभक्ता लब्ध्वा जन्म सुदुर्लभम्। तेऽपि यान्ति महीं पूत्वापरं तीर्थं ममालयम्” ब्रह्मवै॰ प्र॰

५ अ॰।
“रति कृष्ण-कथायाञ्च यस्याश्रु पुलकोद्गमः। मनो निमग्नं यस्यैव समक्तः कथितो बुधैः। पुत्रदारादिकं सर्वं जानाति श्री-हरेरपि। आत्मना मनसा वाचा स भक्तः कथितोबुधैः। दयास्ति सर्वभूतेषु सर्वं कृष्णमयं जगत्। योजानाति महाज्ञानी स भक्तो वैष्णवीत्तमः” ब्रह्मवै॰ जन्म॰

१ अ॰। त्रिविधभक्तलक्षणं यथा
“भक्तानां त्रिविधा-नाञ्च लक्षणं श्रूयतामिति। तृणशय्यारतो भक्तो मन्नामगुणकीर्त्तिषु। मनोनिवेशयेत् त्यक्त्वा संसारसुखकारणम्। दास्यं विना नहीच्छेत्तु सालोक्यादिचतुष्टयम्। नैवनिर्वाणमुक्तिञ्च सुधापानमभोप्सितम्। ध्यायते मत्पदा-ब्जञ्च पूजयेद्भक्तिभावतः। श्रीहेतुकास्तस्य देवा सङ्कल्पर-हितस्य च। सर्वसिद्धिं न वाञ्छन्ति तेऽणिमादिकमीपसी-तम्। ब्रह्मत्वममरत्वञ्च सुरत्वं सुखकारणम्। वञ्छन्तिनिश्चलां भक्तिं मदीयामतुलामपि। स्त्रीपुंविभेदो ना-स्त्येव सर्वजीवेषु भिन्नता। तेषां सिद्धेश्वराणाञ्च पवराणांब्रजेश्वर!। क्षुत्पिपासादिकां निद्रां लोभमोहादिकंरिपुम्। त्यक्त्वा दिवानिशं माञ्च ध्यायते च दिगम्बरः। स मद्भक्तोत्तमोनन्द! श्रूयतां मध्यमादिकम्। नासक्तःकर्मसु गृहो पूर्वप्राक्तनतः शुचिः। करोति सततञ्चैवपूर्वकर्मनिकृन्तनम्। न करोत्यपरं यत्नात् सङ्कल्परहि-तश्च सः। सर्वं कृष्णस्य यत्किञ्चिन्नाह कर्त्ता च कर्मणः। कर्मणा मनसा वाचा सततं चिन्तयेदिति। न्यूनभक्तश्चतन्न्यूनः स च प्राकृतिकः स्मृतः। यमं वा यम-दूतं वा स्वप्नेन च न पश्यति। पुरुषाणां सहस्रञ्चपूर्वं भक्तः समुद्वरेत्। पुंसां शतं मध्यमञ्च तच्चतुर्थञ्चप्राकृतः। भक्तश्च त्रिविधस्तात! कथितश्च तवाग्रतः” इतितत्रैव

८४ च॰। भावे क्त।

५ भजने न॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Attached or attentive to, devoted to, engrossed by.
2. Served, worshipped.
3. Dressed, cooked.
4. Distributed.
5. Divided.
6. Loyal. n. (-क्तं)
1. Boiled-rice.
2. Food.
3. Any edible grain boiled with water.
4. A share. m. (-क्तः) A follower, a votary. E. भज् to serve, &c. aff. क्त |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्त [bhakta], p. p. [भज्-क्त]

Distributed, allotted, assigned; वामहस्ताहृतं चान्नं भक्तं पर्युषितं च यत् Mb.12.36.31.

Divided.

Served, worshipped.

Engaged in, attentive to.

Attached or devoted to, loyal, faithful; मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु Bg.9.34.

Dressed, cooked (as food).

Forming a part of, belonging to.

Loved, liked (at the end of comp.).-क्तः A worshipper, adorer, devotee, votary, faithful attendant; भक्तो$सि मे सखा चेति Bg.4.3;7.23;9.31; भक्तानां त्रिविधानां च लक्षणं श्रूयतामिति । तृणशय्यारतो भक्तो मन्नाम- गुणकीर्तिषु । मनो निवेशयेत् त्यक्त्वा संसारसुखकारणम् ॥ Brav. P.

क्तम् A share, portion.

Food; वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् Rām.5.36.41; भक्तं भुक्तं ततः किम् Bh.3. 74; also meal; तथैव सप्तमे भक्ते भक्तानि षडनश्नता Ms.11.16; चतुर्थभक्तक्षपणं वैश्ये शूद्रे विधीयते Mb.13.16.

Boiled rice; गन्धेन स्फुरता मनागनुसृतो भक्तस्य सर्पिष्मतः U.4.1.

Any eatable grain boiled with water.

Adoration, worship.

The grain; यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये Ms.11.7; Mb.12.165.5 (भक्तं एकाहपर्याप्तं धान्यम् Nīlakaṇṭha).

The wages, remuneration (वेतन); Mb. 13.23.7. -Comp. -अग्रः, -ग्रम् a refectory; Buddh.-अभिलाषः desire of food, appetite. -उद्भवः gruel

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्त भक्तिetc. See. p.743.

भक्त mfn. distributed , assigned , allotted RV. etc.

भक्त mfn. divided Su1ryas.

भक्त mfn. ( ifc. )forming part of , belonging to Pa1n2. Sch.

भक्त mfn. ( ifc. )loved , liked Pa1n2. 4-2 , 54

भक्त mfn. served , worshipped W.

भक्त mfn. dressed , cooked ib.

भक्त mfn. engaged in , occupied with , attached or devoted to , loyal , faithful , honouring , worshipping , serving( loc. gen. acc. or comp. ) MBh. Ka1v. etc.

भक्त m. a worshipper , votary ( esp. as N. of a division of the शाक्तs) IW. 523 n. 1

भक्त n. food or a meal Mn. MBh. etc.

भक्त n. boiled rice Uttarar.

भक्त n. any eatable grain boiled with water

भक्त n. a vessel L.

भक्त n. a share , portion MW.

"https://sa.wiktionary.org/w/index.php?title=भक्त&oldid=285773" इत्यस्माद् प्रतिप्राप्तम्