यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तिः, स्त्री, (भज्यते इति । भज + क्तिन् ।) विभागः । सेवा । इति मेदिनी । ते, ३९ ॥ गौणवृत्तिः । भङ्गी । (अनुरागविशेषः । पूज्ये- ष्वनुरागो भक्तिरित्युपदेशः ॥ ईश्वरे परानुरक्तिः । “अथातो भक्तिजिज्ञासा सा परानुरक्ति- रीश्वरे ।” इति शाण्डिल्यसूत्रम् ॥ उपासना ॥ परमेश्वरविषये परमप्रेम । उपास्याकारा- कारितचित्तवृत्त्यावृत्तिरूपा परिपक्वनिदिध्या- सनाख्या श्रवणमननाभ्यासफलभूता अनुरक्तिः ॥ “नहीष्टदेवात् परमस्ति किञ्चित् ।” इति बुद्धि- पूर्ब्बिका चित्तवृत्तिः । सा च परमप्रीत्यधीना ॥ यथा, विष्णुपुराणे । १ । २० । १८-१९ । “नाथ ! योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि । या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥” प्रेमभक्तिर्यथा, -- “सम्यङ्मसृणितस्वान्तो ममत्वातिशयाङ्कितः । भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥” इति भक्तिरसामृतसिन्धौ पूर्ब्बविभागः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तिः [bhaktiḥ], f. [भज्-क्तिन्]

Separation, partition, division.

A division, portion, share.

(a) Devotion, attachment, loyalty, faithfulness; तद्भक्तिसंक्षिप्तबृहत्प्रमाणमारुह्य कैलासमिव प्रतस्थे Ku.7.37; R.2.63; Mu.1.15. (b) Faith, belief, pious faith.

Reverence, service, worship, homage.

Texture, arrangement; भवति विरलभक्तिर्म्लानपुष्पोपहारः R.5.74; मणिमरीचिरचितेन्द्रचापभक्तयः विद्याधरपतयः Nāg.5.

Decoration, ornament, embellishment; सुकृतेहामृगाकीर्णं सूत्कीर्णं भक्तिभिस्तथा Rām.2.15.35; आबद्धमुक्ताफलभक्तिचित्रे Ku.7.1,94; R.13.55.75;15.3. अधिरुह्य स वज्रभक्तिचित्रम् (आसनम्) Bu. Ch.5.44.

An attribute.

The being part of, belonging to.

A figurative sense, secondary sense; भक्त्या निष्क्रयवादः स्यात् MS.4.4.28 (भक्त्या here seems to have been used as an indeclinable); cf. also MS.8.3.22.

Predisposition (of body to any disease). -Comp. -गम्य a. accessible by devotion. -गन्धि a. one who has only a small measure of devotion; भक्तिगन्धिरमुनाकलि कर्णः N.21. 32. -चित्रम् drawings; बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् Rām.7.15.38.

छेदः a coloured streak, lines of painting or decoration; भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य Me.19.

distinguishing marks of devotion to Viṣṇu.-ज्ञ a. faithfully attached. -नम्र a. making a humble obeisance. -पूर्वम्, -पूर्वकम् ind. devoutly, reverentially. -भाज् a.

devout, fervid.

firmly attached or devoted, faithful, loyal. -मार्गः the way of devotion;i. e. devotion to god, regarded as the way to the attainment of final emancipation and eternal bliss (opp. to कर्ममार्ग and ज्ञानमार्ग). -योगः loving faith, loyal devotion; स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः Vikr.1.1.

रसः a sense of devotion.

a sentiment of devotion; भक्तिरसस्यैव हास्यशृङ्गारकरुणरौद्रभयानकबीभत्सशान्ताद्भुतवीररूपेणा- नुभवाद् व्यासादिभिर्वर्णितस्य विष्णोर्विष्णुभक्तानां वा चरितस्य नव- रसात्मकस्य श्रवणादिना जनितश्चमत्कारो हि भक्तिरसः Muktāvalī.-रागः affection, deep devotion. -वादः assurance of attachment.

"https://sa.wiktionary.org/w/index.php?title=भक्तिः&oldid=286021" इत्यस्माद् प्रतिप्राप्तम्