यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ष्यम्, त्रि, (भक्ष्यते इति । भक्ष + ण्यत् ।) भक्षि- तव्यम् । भक्षणीयम् । यथा । ‘प्रतिपदि कुष्माण्डं न भक्ष्यम् । दशम्यां कलम्बी न भक्ष्या ।’ इति स्मृतिसर्व्वस्वम् ॥ अपि च, हितोपदेशे । “मासमेकं नरो याति द्वौ मासौ मृगशूकरौ । अहिरेकदिनं याति अद्य भक्ष्यो धनुर्गुणः ॥” (भक्ष्यद्रव्याणि तेषां गुणादिकञ्च यथा, -- “वक्ष्याम्यतःपरं भक्ष्यान् रसवीर्य्यविपाकतः । भक्ष्याः क्षीरकृतावल्या वृष्या हृद्याः सुगन्धिनः ॥ अदाहिनः पुष्टिकराः दीपनाः पित्तनाशनाः ॥ तेषां प्राणकरा हृद्या घृतपूराः कफावहाः । वातपित्तहरा वृष्या गुरवो रक्तमांसलाः ॥ वृंहणा गौडिकाभक्ष्या गुरवोऽनिलनाशनाः । अदाहिनः पित्तहराः शुक्रलाः कफवर्द्धनाः ॥ मधुमस्तकसंयावाः पूपा ह्येते विशेषतः । गुरवो वृंहणाश्चैव मोदकास्तु सुदुर्ज्जराः ॥ रोचनो दीपनः स्वर्य्यः पित्तघ्नः पवनापहः । गुरुर्भृ ष्टतमश्चैव सट्टकः प्राणवर्द्धनः ॥ हृद्यः सुगन्धिर्मधुरः स्निग्धः कफकरो गुरुः । वातापहस्तृप्तिकरो बल्यो विष्यन्दनः स्मृतः ॥ वृंहणा वातपित्तघ्ना भक्ष्या वल्यास्तु सामिताः । हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः ॥ मुद्गादिवेशवाराणां पूर्णा विष्टम्भिनो मताः । वेसवारैः सपिशितैः सम्पूर्णा गुरुवृं हणाः ॥ पाललाः श्लेष्मजननाः शष्कुल्यः कफपित्तलाः । वीर्य्योष्णाः पैष्टिका भक्ष्याः कफपित्त प्रकोपणाः ॥ विदाहिनो नातिवला गुरवश्च विशेषतः । वैदला लघवो भक्ष्याः कषायासृष्टमारुताः ॥ विष्टम्भिनः पित्तसमाः श्लेष्मध्ना भिन्नवर्च्चसः । बल्या वृष्यास्तु गुरवो विज्ञेया माषसाधिताः ॥ कूर्च्चिका विकृता भक्ष्या गुरवो नातिपित्तलाः । विरूढककृता भक्ष्या गुरवोऽनिलपित्तलाः ॥ विदाहोत्क्लेशजनना रूक्षा दृष्टिप्रदूषणाः । हृद्याः सुगन्धिनो वृष्या लघवो धृतपाचिताः ॥ वातपित्तहरावल्या वर्णदृष्टिप्रसादनाः । विदाहिनस्तैलकृता गुरवः कटुपाकिनः ॥ उष्णा मारुतदृष्टिघ्नाः पित्तलास्त्वक्प्रदूषणाः । फलमांसेक्षुविकृतितिलमाषोपसंस्कृताः ॥ भक्ष्या बल्यास्तु गुरवो वृं हणा हृदयप्रियाः । कपालाङ्गारपक्वास्तु लघवो वातकोपनाः ॥ सुपक्वास्तनवश्चापि भूयिष्ठं लघवो मताः । सकिलाटादयो भक्ष्या गुरवः कफवर्द्धनाः ॥” “आप्तान्वितमसंकीर्णं शुचिकार्य्यं महानसम् ॥ तत्राप्तैर्गुणसम्पन्नमन्नं भक्ष्यं सुसंस्कृतम् । शुचौ देशे सुसंगुप्तं समुपस्थापयेद्भिषक् ॥” “घृतं कार्ष्ण्यायसे देयं पेया देया तु राजते ॥ फलानि सर्व्वभक्ष्यांश्च प्रदद्याद्वैदलेषु च । परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत् ॥ प्रद्रवाणि रसांश्चैव राजतेषूपहारयेत् । कट्वराणि खडांश्चैव सर्व्वान् शैलेषु दापयेत् ॥ काचस्फटिकपात्रेषु शीतलेषु शुभेषु च । दद्याद्वैदूर्य्यपात्रेषु रागषाडवसट्टकान् ॥ पुरस्ताद्विमले पात्रे मुविस्तीर्णे मनोरमे । सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ॥ फलानि सर्व्वभक्ष्यांश्च परिशुष्कानि यानि च । तानि दक्षिणपार्श्बे तु भुञ्जानस्योपकल्पयेत् ॥ प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः । खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ॥ सर्व्वान् गुडविकारांश्च रागषाडवसट्टकान् । पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ॥ एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् ।” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)

"https://sa.wiktionary.org/w/index.php?title=भक्ष्यम्&oldid=153661" इत्यस्माद् प्रतिप्राप्तम्