यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगन्दरः, पुं, (भगं गुह्यमुष्कमध्यस्थानं दारय- तीति । “दृ + णिच् + पूःसर्व्वयोर्दारिसहोः ।” २ । २ । ४१ । इत्यत्र । “भगे च दारेरिति वक्त व्यम् ।” इति काशिकोक्तेः खच् । “खचि ह्रस्वः ।” ६ । ४ । ९४ । इति ह्रस्वः । मुम्च ।) अपानदेशे व्रणरोगविशेषः । तस्य रूपमाह । “गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पिडकार्त्तिकृत् । भिन्नो भगन्दरो ज्ञेयः स च पञ्चविधो भवेत् ॥” अर्त्तिकृत् पीडाकृत् । पञ्चविधः वातकपैत्तिक- श्लैष्मिकसान्निपातिकशल्यजभेदैः ॥ भगन्दर- शब्दस्य निरुक्तिमाह भोजः । “भगं परिसमन्ताद्यो गुदवस्ती तथैव च । भगवद्दारयेद्यस्मात्तस्मादेष भगन्दरः ॥” भजन्त्यनेनेति भगं मेहनम् । भजन्त्यस्मिन्निति भगं योनिः । अत्र भगशब्देन द्बयमपि कथ्यते । भगवत् योनिवत् ॥ पूर्ब्बरूपादीनि यथा, -- “कटीकपालनिस्तोददाहकण्डुरुजादयः । भवन्ति पूर्ब्बरूपाणि भविष्यति भगन्दरे ॥” कटीकपालमत्र कटीफलकम् ॥ वातिकं शत- पोनकसंज्ञं भगन्दरमाह । “कषायरूक्षैरतिकोपितोऽनिल- स्त्वपानदेशे पिडकां करोति याम् । उपेक्षणात् पाकमुपैति दारुणं रुजाञ्च भिन्नारुणफेनवाहिनीम् ॥ तत्रागमो मूत्रपुरीषरेतसां ब्रणैरनेकैः शतपोनकं वदेत् । दारुणं अतिदारुणात् । व्रणैरनेकैः सूक्ष्ममुखैः । शतपोनकश्चालनी तत्तुल्यम् ॥ पैत्तिकमुष्ट्रग्रीव- संज्ञमाह । “प्रकोपणैः पित्तमतिप्रकोपितं करोति रक्तां पिडकां गुदे गताम् । तदाशुपाकाहिमपूतिवाहिनीं भगन्दरञ्चोष्ट्रशिरोधरं वदेत् ॥” आशुपाकाहिमपूतिवाहिनीम् । शीघ्रपाकाम् उष्मदुर्गन्धवाहिनीञ्च । तदा तं भगन्दरं उष्ट्र- पिष्ट्वा तल्लेपनाद्धन्ति भक्षणाच्च भगन्दरम् । रसः कालाग्रिरुद्रोऽयं गुञ्जैकं मृत्युजिद्भवेत् ॥” कालाग्निरुद्रो रसः ॥ * ॥ इति सारदीपिकायां भगन्दरचिकित्साध्यायः ॥ अपि च । गारुडे १८८ अध्याये । “गुग्गुलुं त्रिफलायुक्तं पीत्वा नश्येत् भग- न्दरः ॥” (अस्य सकारणलक्षणचिकित्सितं यथा, -- क्रिम्यस्थि सूक्ष्मलक्षणनव्यवाय- प्रवाहनान्युत्कटकाश्वपृष्ठैः । गुदस्य पाके पिडका भृशार्त्तिः पक्वप्रभिन्ना तु भगन्दरः स्यात् ॥ विरेचनञ्चैषणपाटनञ्च विशुद्धमार्गस्य च तैलदाहः । स्यात् क्षारमूत्रेण सुपाचितेन छिन्नस्य चास्य व्रणवच्चिकित्सा ॥” इति चरके चिकित्सास्थाने सप्तदशेऽध्याये ॥)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगन्दर पुं।

भगन्दररोगः

समानार्थक:भगन्दर

2।6।56।1।4

व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगन्दराः। श्लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः। अश्मरी मूत्रकृच्छ्रं स्यात्पूर्वे शुक्रावधेस्त्रिषु॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगन्दर¦ पु॰ भगं गुह्ममुष्कमध्यस्थानं दारयति दृ--णिच्--खश् मुम्खचि ह्रस्वश्च। स्वनामख्याते रोगभेदे। भावप्र॰ तन्नि-दाननिरुक्त्यादिकमुक्तं यथा
“अथ भगन्दरस्य पूर्वरूपसहितं स्वरूपमाह।
“कटीक-पालयोस्तोददाहकण्डूरुजादयः। भवन्ति पूर्वरूपाणिभविष्यति भगन्दरे। गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतःपीडकार्त्तिकृत्। भिन्नो भगन्दरो ज्ञेयः स च पञ्च-विधो भवेत्”। आर्त्तिकृत् पीडाकृत्। पञ्चविधः वाति-कपैत्तिकश्लैष्मिकसान्निपातिकशल्यजभेदैः। अथ गन्दर-शब्दस्य निरुक्तिमाह भोजः
“भगन्दरः समन्ताच्च गुदंवस्तिं तथैव च। भगवद्दारयेद्यस्मात् तस्मादेष भग-न्दरः”। भजन्त्यनेनेति भगो मेहनम्। भजन्त्यस्मिन्नितिभगं योनिः। अत्र भगशब्देन द्वयमपि कथ्यते। भगवत् योनिवत्। अथ वातिकं शतपोनकसंज्ञं भग-न्दरमाह।
“कषायरूक्षैरतिकोपितोऽनिलस्त्वपानदेशे पि-डकां करोति याम्। उपेक्षणाद्वातमुपैति दारुणंरुजा च भिन्नारुणफेनवाहिनीम्। तत्रागमो मूत्रपुरीष-रेतसां व्रणैरनेकैः शतपोनकं वदेत्”। दारुणम् अति-दारुणरुक्। व्रणैरनेकैः सूक्ष्ममुखैः। शतपोनकं शत-पोनकश्चालनी तत्तुल्यम्। अथ पैत्तिकमुष्ट्रग्रीवसंज्ञमाह
“प्रकोपणैः पित्तमतिप्रकोपितं करोति रक्तां पिडकांगुदे गताम्। तदाशुपाकां हिमपूतिवाहिनीं भगन्दरंचोष्ट्रशिरोधरं वदेत्”। आशुपाकां हि मपूतिवाहिनींशीघ्रपाकामुष्ट्रदुर्गन्धवाहिनीं च। तदा भगन्दरमुष्ट्र-शिरीधरं वदेत्। उष्ट्रग्रीवसंज्ञा च पिडकागलेनवक्रतयोष्ट्रग्रीवाकत्वेन। अथ श्लैष्मिकं परिस्राविसंज्ञ-माह।
“कण्डूयनो घनस्रावी कठिनो मन्दवेदनः। श्वेतावभासः कफजः परिस्रावी भागन्दरः”। कठिनःपिडकावस्थायाम्। परिस्रावी निरन्तरस्रावशीलः। अथ सान्निपातिकं शम्बूकावर्त्तसंज्ञमाह।
“बहुवर्णरुजास्रावा पिडका गोस्तनोपमा। शम्बूकावर्त्तगतिकः शम्बू-कावर्त्तकीमतः” बहुवर्णरुजास्रावा बहुशब्दो वर्णा-दिभिः प्रत्येकं संवध्यते गतिः स्रावमार्गः। अथ शल्यज-मुन्मार्गसंज्ञमाह।
“क्षताद्गतिः पायुगता विवर्द्धतेह्युपेक्षणात् स्यः कृमयो विदार्य्य ते। प्रकर्वते मार्गमने-कधामुखैर्व्रणैस्तमुन्मार्गभगन्दरं वदेत्”। क्षतात् कण्ट-कादिना नखेन कण्डूयनादिना वाऽभिघातात्। गतिःस्रावः उन्मार्गभन्दरम् एतस्य तिर्य्यककृतभार्गैः पुरी-[Page4632-a+ 38] षादिनिर्गमादुन्मर्गसंज्ञ”। कष्टसाध्यमसाध्यञ्चाह
“घोराःसाधयितुं दुःखा सर्व एव भगन्दराः। तेष्वसाध्यस्त्रिदो-षोत्थः क्षतजश्च विशेषतः। वातमूत्रपुरीषाणि वक्रञ्चकृमयस्तथा। भगन्दरात् स्रवन्तस्तु नाशयन्ति तमातुरम्”।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगन्दर¦ m. (-रः) Fistula in ano. E. भग the vulva, दृ to divide, aff. खश् |

"https://sa.wiktionary.org/w/index.php?title=भगन्दर&oldid=286856" इत्यस्माद् प्रतिप्राप्तम्