यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयानकः, पुं, (बिभेत्यस्मादिति । भी + “आनकः शीङ्भियः ।” उणा० । ३ । ८२ । इति आनकः ।) व्याघ्रः । राहुः । रसविशेषः । इति मेदिनी । के, २०५ ॥ स तु शृङ्गाराद्यष्टरसान्तर्गतषष्ठरसः । तस्य लक्षणं यथा, -- “भयानको भयस्थायिभावः कालाधिदैवतः । स्त्री नीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः ॥ यस्मादुत्पद्यते भीतिस्तदत्रालम्बनं मतम् । चेष्टा घोरतरास्तस्य भवेदुद्दीपनं पुनः ॥ अनुभावोऽत्र वैवर्ण्यं गद्गदस्वरभाषणम् । प्रलयस्वेदरोमाञ्चकम्पदिक्प्रेक्षणादयः ॥ जुगुप्सावेगसंमोहसंत्रासग्लानिदीनताः । शङ्कापस्मारसंभ्रान्तिमृत्य्वाद्या व्यभिचारिणः ॥” उदाहरणं यथा, -- “नष्टं बर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा- मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ॥” इति साहित्यदर्पणे ३ परिच्छेदः ॥

भयानकः, त्रि, (भी + आनकः ।) भयङ्करः । इत्यमरः । १ । ७ । २० ॥ (यथा, भगवद्- गीतायाम् । ११ । २७ । “वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥”

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयानक पुं।

नवरसेष्वेकः

समानार्थक:शृङ्गार,वीर,करुणा,अद्भुत,हास्य,भयानक,बीभत्स,रौद्र

1।7।17।1।6

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः। बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

भयानक वि।

भयानकरसः

समानार्थक:भैरव,दारुण,भीषण,भीष्म,घोर,भीम,भयानक,भयङ्कर,प्रतिभय

1।7।20।1।6

दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्. भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयानक¦ पु॰ बिभेत्यस्मात् भी--आनक।

१ व्याघ्रे

२ राहौ

३ रसभद च मेदि॰।

४ मयङ्करे त्रि॰।

५ भीतेः अपादानेअमरः। तद्रसलक्षणादि सा॰ द॰ उक्तं यथा
“भयानको भयस्थायिभावः कालाधिदैवतः। स्त्री-नीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः। यस्माद् उत्-पद्यते भीतिस्तदत्रालम्बनं मतम्। चेष्टा घोरतरास्तस्यभवेद्दीपनं पुनः। अनुभावोऽत्र वैवर्ण्यं गद्गदस्वर-भाषणम्। प्रलयस्त्रेदरोमाञ्चकम्पदिक्प्रेक्षणादयः। जुगुप्सावेग मोहसंत्रासग्लानिदीनताः। शङ्काप-स्मारसंभ्रान्तिमृत्य्वाद्या व्यभिचारिणः”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयानक¦ mfn. (-कः-की-कं) Frightful, formidable, terrific. n. (-कं) Terror. m. (-कः)
1. RA4HU or the personified ascending node.
2. A tiger.
3. One of the nine sentiments in poetry, or the sentiment of terror, as excited by poetical or dramatic composition. E. भी to fear, आनक Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयानक [bhayānaka], a. [विभेत्यस्मात्, भी-आनक्; Uṇ.3.82] Fearful, horrible, terrible, frightful; किमतः परं भयानकं स्यात् U.2; Śi.17.2; दंष्ट्राकरालानि भयानकानि Bg.11.27.

कः A tiger.

N. of Rāhu.

The sentiment of terror, one of the eight or nine sentiments in poetry; भयानको भयस्थायिभावः कालाधिदैवतः S. D.; see under रस.-कम् Terror, fear.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयानक mf( आ)n. (prob. fr. भयानfor भयमान)fearful , terrible , dreadful , formidable MBh. Ka1v. etc.

भयानक n. terror (?) W.

भयानक m. the sentiment of , terror (as one of the 9 रसs in poetical or dramatic composition) Sa1h. Prata1p. etc.

भयानक m. a tiger L.

भयानक m. राहुor the ascending node personified L.

"https://sa.wiktionary.org/w/index.php?title=भयानक&oldid=503193" इत्यस्माद् प्रतिप्राप्तम्