यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागवतम्, क्ली, (भगवतो भगवत्या वेदम् । भगवत् + तस्येदमित्यण् ।) अष्टादशपुराणान्तर्गतमहा- पुराणविशेषः । स च वेदव्यासकृतद्बादशस्कन्ध- द्बात्रिंशत्त्रिशताध्यायसमन्विताष्टादशसहस्र- श्लोकसंख्याक-भगवन्माहात्म्यवर्णन-प्रधानको ग्रन्थः । यथोक्तं मत्स्यपुराणे पुराणदानप्रस्तावे । “यत्राधिकृत्य गायत्त्रीं वर्ण्यते धर्म्मविस्तरः । वृत्रासुरवधोपेतं तद्भागवतमिष्यते ॥ लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् । प्रौष्ठपद्यां पौर्णमास्यां स याति परमं पदम् ॥ अष्टादशसहस्राणि पुराणं तत् प्रकीर्त्तितम् ॥” पुराणान्तरे च । “ग्रन्थोऽष्टादशसाहस्रो द्वादशस्कन्धसम्मितः । हयग्रीवब्रह्मविद्या यत्र वृत्रवधस्तथा ॥ गायत्त्र्या च समारम्भस्तद्वै भागवतं विदुरिति ॥” पद्मपुराणे च अम्बरीषं प्रति गोतमवचनम् ॥ “अम्बरीष ! शुकप्रोक्तं नित्यं भागवतं शृणु । पठस्व स्वमुखेनापि यदीच्छसि भवक्षयमिति ॥” इति श्रीभागवतटीकायां श्रीधरस्वामी ॥ (तत्र तावत् पुराणेषु भागवतद्वयं प्रसिद्धम् । एकं महापुराणान्तर्गतमपरमुपपुराणान्तगतम् । लोकेऽप्युपलम्भो द्वयोर्देवीभागवतनाम्ना विष्णु- भागवतनाम्ना चास्त्येव । तत्रैकं महापुरा- णान्तर्गतमन्यदुपपुराणान्तर्गतमित्यपि निर्व्वि- वादमेव । तथापि किं देवीभागवतं महापुराण- मन्यदुपपुराणमथवा विष्णुभागवतं महापुराण- मन्यदुपपुराणमिति संशये केचित् विष्णुभाग- वतमेव महापुराणमिति वदन्ति । केचित् देवीभागवतमेव महापुराणमिति वदन्ति । तत्र प्रथमपक्षैकदेशिनः केचिदुपपुराणेषु द्बितीयं भागवतं नास्त्येव महापुराणेष्वेवैकं भागवतं प्रसिद्धम् । तच्च विष्णुभागवतमेव न देवीभागवतम् । देवीभागवतन्तु निर्मूलमेवेति वदन्ति । द्वितीवपक्षैकदेशिनोऽपि विष्णुभाग- वतं वोपदेवकृतमिति वदन्ति । वस्तुतस्तूभयो- रपि पुराणयोः पुराणमतभेदेन महापुराणत्व- मुपपुराणत्वञ्च । ननु महापुराणेष्वेवैकं भाग- वतं प्रसिद्धम् । नतूपपुराणेषु द्वितीयमस्तीति चेन्न । कूर्मगरुडपाद्मादिषूपपुराणेषु द्वितीयस्य स्पष्टपरिगणनात् । तथाहि हेमाद्रौ दानप्रस्तावे कूर्मपुराणेऽष्टादशपुराणान्युक्त्वा, -- “अन्यान्युप्रपुराणानि मुनिभिः कथितानि तु । आद्यं सनत्कुमारोक्तं नारसिंहमतः परम् ॥” इत्यादि ॥ “पराशरोक्तं प्रवरं तथा भागवताह्वयम् ॥” इति । तथा गारुडे तत्त्वरहस्ये द्वितीयांशे धर्म्मकाण्डे प्रथमाध्याये प्रथमतो महापुराणानां सात्त्वि- कादिभेदेन विभागमुक्त्वा लघुपुराणानां सात्त्वि- कादिभेदेन विभागप्रदर्शनपरे ग्रन्थेऽप्युक्तम् । इति वचनेनेश्वरप्रेरणां विनापि गृहागतमेव । अस्मिंश्च वचने भागवतपदेन विष्णुभागवतस्य ग्रहणं बन्ध्यापुत्त्रोपममेव । तत्र मुख्यत्वेन सर- स्वत्याविर्भावस्यासत्त्वात् । विष्णुभागवते द्वितीय- स्कन्धे । “पाद्मं कल्पमथो शृणु ।” इति वचनेन स्वमुखेनैव स्वस्य पाद्मकल्पकथाश्रयत्वस्योक्त- त्वात् । तद्विरोधाच्च न च पाद्मकल्प एव सार- स्वतः । सरस्वान् समुद्रस्तस्माज्जातं कमलं सार- स्वतं तस्य कल्प इति व्यत्पत्त्येति वाच्यम् । “पद्मकल्पस्य वृत्तान्तं तत्र यस्मादुदाहृतम् । तस्मात् पाद्मं समाख्यातम् ॥” इति पूर्ब्बोदाहृतशिवपुराणवचनेन । “एतदेव यदा पाद्ममभूद्धैरण्मयं जगत् । तद्वृत्तान्ताश्रयं तद्बत् पाद्ममित्युच्यते बुधैः ॥ पाद्मं तत् पञ्चपञ्चाशत्सहस्राणीह कथ्यते ॥” इति मत्स्यपुराणवचनेन । “सारस्वतस्य कल्पस्य मध्ये येस्युर्नरामराः ।” इति वचनेन च पाद्मकल्पसारस्वतकल्पयोः पृथक्कथनात् । किञ्च सारस्वतकल्पपाद्मकल्पयो- रेकत्वे पद्मकल्पस्य प्रतिपादकं पुराणद्वयं पाद्मं भागवतञ्चेत्येव वदेत् किञ्च पद्मकल्पस्य वृत्तान्त- मित्यत्राभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुता इति न्यायेन पूर्ब्बं बुद्ध्यारूढं प्रसिद्धं पाद्मशब्दं विहायाप्रसिद्धं सारस्वतशब्दं पाद्मशब्दस्य वाचकं कृत्वा सारस्वतपदघटितकल्पने प्रयो- जनाभावः । किञ्च सरस्वत्यास्तथा कल्प इत्यादेः । पूर्ब्बोक्तस्य सारस्वतपदनिरुक्त्यर्थकस्य वचनसमूहस्य विरोधश्च । न च पाद्मकल्प- सारस्वतकल्पयोः पृथक्त्वे त्रिंशत्कल्पेषु मत्स्य- पुराणान्तिमाध्याये कीर्त्तितेषु सारस्वतपदेन पाद्मस्य ग्रहणं न स्यादिति वाच्यम् । प्रभास- खण्डे त्रिंशत्कल्पेषु विष्णुजकल्पार्चिषकल्पसुपु- मान्कल्पानां ग्रहणेऽपि तेषां कल्पानां यथा मात्स्यान्तिमाध्याये न ग्रहणं तथा पाद्मस्यापि न ग्रहणमित्यस्य तुल्यत्वात् । यदि तेषां पर्य्याय- त्वेन कुत्रचिदन्तर्भावः क्रियते तर्ह्यस्यापि कुत्र- चिदन्तर्भावोऽस्तु अतएव विष्णुभागवतस्य प्रबन्धटीकाकारेण पितृकल्पे एव पूर्ब्बार्द्धान्ते पद्मस्योद्भवात् पितृकल्पपदेन पाद्मसंग्रहो वेदि- तव्य इत्युक्तम् । पुराणकल्पकथनप्रस्तावे सार- स्वतकल्पपाद्मकल्पयोः पृथक्त्वकरणेन सारस्वत- पदेन पाद्मस्य सर्व्वथा न ग्रहणम् । वस्तुतस्तु त्रिंशत्कल्पा ब्रह्मणस्त्रिंशत्तिथ्यात्मकाः त्रिंश- त्तिथिषु प्रतिपदादिषूत्पद्यन्ते । भूर्भुवःसुवः भूर्भूवःसुव इत्यादयस्त्रयस्त्रिंशत्कल्पाः । पाद्मा- दयश्च वायुपुराणोक्ता दिनकल्पा ब्रह्मणः प्रति दिवसेषूत्पद्यन्ते इति दिनकल्पतिथिकल्पानां सुतरां भेदात्तिथिकल्पेषु दिनकल्पानां पाद्मा- दीनां न ग्रहणमिति सिद्धान्तः ।

भागवतः, त्रि, (भगवान् हरिः भगवती दुर्गा वास्य देवतेति । भगवत् + “सास्य देवता ।” ४ । २ । २४ । इति अण् ।) भगवद्भक्तः । तस्य लक्षणम् । यथा, “सर्व्वदेवान् परित्यज्य नित्यं भगवदाश्रयः । रतस्तदीयसेवायां स भागवत उच्यते ॥” इति पाद्मोत्तरखण्डे ९९ अध्यायः ॥ * ॥ स च यमदूतैस्त्याज्यः । यथा, -- “ये तु भागवता लोके तच्चित्तास्तत्परायणाः । पूजयन्ति सदा विष्णुं ते च त्याज्याः सुदूरतः ॥” इति वह्निपुराणे दूतान् प्रति यमवचनम् ॥ स्कान्दे श्रीमार्कण्डेयभगीरथसंवादे । “दशमीशेषसंयुक्तं दिनं वैष्णववल्लभम् । ह्युपासते महीपाल ! ते वै भागवता नराः ॥ प्राणात्यये न चाश्नन्ति दिनं प्राप्य हरेर्नराः । कुर्व्वन्ति जागरं रात्रौ सदा भागवता हि ते ॥ उपोष्य द्बादशीं शुद्धां रात्रौ जागरणान्विताम् । पाद्मोत्तरखण्डे । “तापादिपञ्चसंस्कारी नवेज्याकर्म्मकारकः । अर्थपञ्चकविद्विप्रो महाभागवतो हि सः ॥ एकान्तेन सदा विष्णौ यस्माद्देवे परायणाः । तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ॥” एकादशस्कन्धे । “ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनन्यभावेन ते वै भागवता मताः ॥ न कामकर्म्मबीजानां यस्य चेतसि सम्भवः । वासुदेवैकनिलयः स वै भागवतोत्तमः ॥” स्कान्दे । “यस्य कृच्छ्रगतस्यापि केशवे रमते मनः । न विच्युता च भक्तिर्वै स वै भागवतो नरः ॥ आपद्गतस्य यस्येह भक्तिरव्यभिचारिणी । नान्यत्र रमते चित्तं स वै भागवतो नरः ॥” हरियोगेश्वरोत्तरे । “विसृजति हृदयं न यस्य साक्षा- द्धरिरवशाभिहितोऽप्यघौघनाशः । प्रणयरसनया धृताङ्घ्रिपद्मः स भवति भागवतप्रधान उक्तः ॥” मध्यममाह तत्रैव । “ईश्वरे तदधीनेषु वालिशेषु द्विषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥” कनिष्ठस्तत्रैव । “अर्च्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥” इति श्रीहरिभक्तिविलासे १० विलासः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागवत¦ त्रि॰ भगवतः भगवत्या वा इदम् सोऽस्य देवता वाअण्। भगवतः भगवत्या वा

१ भक्ते,

२ तयोः सम्बन्धिनि च
“भग्नाः कृषेर्भागवता भवन्ति” उद्भटः। तयोः सम्बन्धि-गुणवर्णने

३ महापुराणे

४ उपपुराणे च न॰
“यैर्न श्रुतंप्रागवतं पुराणम्” भाग॰। भागवतञ्च महापुराणभेदःउपपुराणभेदो वा उपपुराणशब्दे विस्तरेणं दर्शितः। नारदीयपु॰ महापुराणप्रतिपाद्यविषयोक्तौ ये विषयाउक्तास्ते नान्यत्रेति विष्ण भागवतस्यैव महापुराणत्व-मित्येके उपपुराणशब्दे अन्यमतं दृश्यम्। विष्णुभागवतप्रतिपाद्यविषयाश्च नार॰ पु॰

४ अ॰

९६ उक्ता यथा
“मरीचे! शृणु वक्ष्यामि वेदव्यासेन यत् कृतम्। श्रीमद्-भागवतं नाभ पुराणं ब्रह्मसम्मितम्। तदष्टादशसाहस्रंकीर्त्तितं पापनाशनम्। सुरपादपरूपोऽयं स्कन्धै-[Page4649-b+ 38] र्द्वादशभिर्युतः। भगवानेव विपेन्द्र! विश्वरूपी समी-रितः” तस्य प्रथमस्कन्धे।
“तत्र तुप्रथमे स्कन्धे सूत-र्षीणां समागमः। व्यासस्य चरितं पुण्यं पाण्डवानांतथैव च। पारीक्षितसुपाख्यानमितीदं समुदाहृतम्”। द्वितीयस्कन्धे
“परीक्षिच्छुकसंवादे सृतिद्वयनिरूपणम्। ब्रह्मनारदसंवादेऽवतारचरितामृतम्। पुराणलक्षणञ्चैवसृष्टिकारणसम्भवः। द्वितीयोऽयं समुदितः स्कन्धोव्यासेन धीमता”। तृतीयस्कन्धे
“चरितं विदुरस्याथमैत्रेयेणास्य सङ्गमः। सृष्टिप्रकरणं पश्चाद् ब्रह्मणःपरमात्मनः। कापिलं साङ्ख्यमप्यत्र तृतीयोऽयमुदा-हृतः”। चतुर्थस्कन्धे
“सत्याश्चरितमादौ तु ध्रुवस्यचरितं ततः। पृथोः पुण्यसमाख्यानं ततः प्राचीनवर्हिषः। इत्येष तूर्य्यो गदितो विसर्गे स्कन्ध उत्तमः”। पञ्चमस्कन्धे
“प्रियव्रतस्य चरितं तद्वंश्यानाञ्च पुण्यदम्। ब्रह्माण्डान्तर्गतानाञ्च लोकानां वर्णनन्तत। नरक-स्थितिरित्येष संस्थाने पञ्चमो मतः”। षष्ठस्कन्धे
“अजा-मिलस्य चरितं दक्षसृष्टिनिरूपणम्। वृत्राख्यानं ततःपश्चान्मरुतां जन्म पुण्यदम्। षष्ठोऽयमुदितः स्कन्धो व्या-सेन परिपोषणे” सप्तमस्कन्धे
“प्रह्लादचरितं पुण्यंवर्णाश्रमनिरूपणम्। सप्तमी गदितो वत्स! वासनाकर्म-कीर्त्तने”। अष्टमस्कन्धे।
“गजेन्द्रमोक्षणाख्यानं म-न्वन्तरनिरूपणम्। समुद्रमथनञ्चैव बलिवैभवबन्धनम्। मतस्यावतारचरितमष्टमोऽयं प्रकीर्त्तितः”। नवमस्कन्धे
“सूर्य्यवंशसमाख्यानं सोमवंशनिरूपणम्। वंश्यानुचरितेप्रोक्तो नवमोऽयं महामते!”। दशमस्कन्धे
“कृष्णस्यबालचरितं कौमारञ्च व्रजस्थितिः। कैशोरं मथुरा-स्थानं यौवनं द्वारकास्थितिः। भूभारहरणञ्चात्रनिरोधे दशमः स्मृतः”। एकादशस्कन्धे
“नारदेन तुसंवादो वसुदेवस्य कीर्त्तितः। यदोश्च दत्तात्रेयेण श्रीकृष्णे-नोद्धवस्य च। यादवानां मिथोऽन्तश्च मुक्तावेकादशःस्मृतः। द्वादशस्कन्धे
“भविष्यकलिनिर्देशो मोक्षोराज्ञः परीक्षितः। वेदशाखाप्रणयनं मार्कण्डेयतपःस्मृतम्। सौरी विभूतिरुदिता सात्त्वती च ततः परम्। पुराणसंङ्ख्याकथनमाश्रये द्वादशो ह्ययम्। इत्येवं क-थितं वत्स! श्रीमद्भागवतं तव”। तत्कलश्रुतिः
“वक्तुः श्रोतुश्चोपदेष्टुरनुमोदितुरेव च। साहाय्यकर्त्तु-र्गदितं भक्तिभुक्तिविमुक्तिदम्। प्रौष्ठपद्यां पूर्णिमायांहेमसिंहसमाचितम्। देयं भागवतायेदं द्विजाय[Page4650-a+ 38] प्रीतिपूर्वकम्। संपूज्य वस्त्रहेमाद्यैर्भगवद्भक्तिमिच्छता। योऽप्यनुक्रमणीमेतां श्रावयेच्छृणुयात्तथा। स पुराणश्रवणजं प्राप्नोति फलमुत्तमम्”। विस्तरस्तु भाग॰

१२ उपसंहाराध्याये दृश्या। भगवद्भक्तरूपभागवतलक्षणं यथा भाग॰

११ स्क॰।
“सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः। भूतानि भग-यत्यात्मन्येष भागवतोत्तमः। न यस्य स्तपर इतिवित्तेष्वात्मनि वा भिदा। सर्वभूतसमः शान्तः स वै भाग-वतोत्तमः”। हरियोगेश्वरोत्तरे
“गृहीत्वापीन्द्रियै-रर्थान् यो न द्वेष्टि न काङ्क्षति। विष्णोर्मायामिदंपश्यन् स वै भागवतोत्तमः”। वृहन्नारदीये
“शिवे चपरमेशाने विष्णौ च परमात्मनि। समबुद्ध्या प्रवर्त्तन्तेते वै भागवतोत्तमाः”। स्कान्दे
“येषां भागवतं शास्त्रंसदा तिष्ठति सन्निधौ। पूजयन्ति च ये नित्यं ते स्युर्भा-गवता नरा। येषां भागवतं शास्त्रं जीवितादधिकंभवेत्। महामागवताः श्रेष्ठा विष्णुना कथिता नराः”। लैङ्गे
“भोजनाच्छादनं सर्वं यथा शक्त्या ददाति यः। विष्णु भक्तस्य सततं स वै भागवतः स्मृतः”। गारुडे
“येन सर्वात्मना विष्णुमक्त्या भावो निवेशितः। वैष्ण-वेषु कृतात्मत्वान् महाभागवती हि सः”। वृहन्नार-दीये
“तुलसीकाननं दृष्ट्वा ये नमस्कुर्वते नराः। तत्-काष्ठाङ्कितकर्णाये ते वै भागबतोत्तमाः। तुलसीगन्ध-माघ्राय सन्तोषं कुर्वते तु ये। तन्मूलमृद्धृता यैश्चते वै मागवतीत्तमाः”। स्कान्दे
“मत्कथां कुरुते यस्तुमत्कथासु शृणोति च। हृष्यते मत्कथायाञ्च स वैमागवतोत्तमः”। वृहन्नारदीये
“मन्मानसाश्च सद्भक्तामद्भक्तजनलीलुपाः। तन्नामश्रवणासक्तास्ते वै भागवतो-त्तमाः। येऽभिनन्दन्ति नामानि हरेः शृण्वन्ति ह-र्षिताः। रोमाञ्चितशरीराश्च ते वै भागवतीत्तमाः। अन्येषामुदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः। हरिनामपरा ये च ते वै भागवतोत्तमाः”। स्कान्दे
“येऽर्चयन्तिसदा विष्णुं यज्ञेश वरदं हरिम्। देहिनः पुण्य-कर्माणः सदा भागवता हि ते”। लैङ्गे
“विष्णुक्षेत्रेशुभान्येव करोति स्नेहसंयुतः। प्रतिमाञ्च हरेर्नित्यंपूजयेत् प्रत्यतात्मवान्। विष्णुभक्तः स विज्ञेयः कर्मणामनसा गिरा। नारायणपरा नित्यं भूप! भागवतोहि सः” पद्मोत्तरस्वण्डे
“तापादिप{??}स्कारी नवेज्याकर्मत्मारकः।{??}द्विप्र! महाभागवती हि सः। [Page4650-b+ 38] एकान्तेन सदा विष्णौ यस्माद्देवे परायणाः। तस्मा-देकान्तिनः प्रोक्तास्तद्भागवतचेतसः” भाग॰

११ स्कान्दे
“ज्ञात्वा ज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः। भजन्त्यनन्यभावेन ते वै भागवता मताः। न कामकर्म-वीजानां यस्य चेतसि सम्भवः। वासुदेवैकनिलयः सवै भागवतोत्तमः”। स्कान्दे
“यस्य कृच्छ्रगतस्यापि केशवेरमते मनः। न विच्युता च भक्तिर्वै स वै भागवतोनरः। आपद्गतस्य यस्येह भक्तिरव्यभिचारिणी। नान्यत्र रमते चित्तं स वै भागवतो नरः”। हरियो-गेश्वरे
“विसृजति हृदयं न यस्य साक्षाद्धरिरवशाभिहितोऽप्यथौघनाशः। प्रणयरसनयाधृताङ्घिपद्मः स भवतिभागवतप्रधान उक्तः” हरिभक्तिविलासे

१० वि॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागवत¦ f. (-ती) Adj.
1. Relating to or worshipping of VISHN4U or KRISH- N4A.
2. Holy, sacred. m. (-तः) A devotee of the said deity. n. (-तं) Name of one of the eighteen Pura4nas.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागवत [bhāgavata], a. (-ती f.) [भगवतः भगवत्या वा इदं सो$स्य देवता वा अण्]

Relating to or worshipping Viṣṇu.

Pertaining to a god; कौमारादाचरेत् प्राज्ञो धर्मान् भागवतानिह

Holy, divine, sacred. -तः A follower or devotee of Viṣṇu or Kṛiṣṇa. -तम् N. of one of the 18 Purāṇas.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागवत/ भाग--वत See. s.v.

भागवत mf( ई)n. (fr. भग-वत्)relating to or coming from भगवत्i.e. विष्णुor कृष्ण, holy , sacred , divine MBh. Hariv. Pur.

भागवत m. a follower or worshipper of -BhBhagavati or विष्णुib. (See. IW. 321 , 1 )

भागवत m. N. of a king VP.

भागवत n. N. of a पुराण(See. भागवत-प्).

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Vajramitra and father of Deva- भूति: ruled for ३२ years. भा. XII. 1. १८; Br. III. ७४. १५४; Vi. IV. २४. ३५-6.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHĀGAVATA : One of the eighteen famous Purāṇas. Gāyatrī is the main theme of this Purāṇa and based on it it dwells on the greatness of Dharma (duty) and states about the dharmas of Sārasvatakalpa. (See under Purāṇa).


_______________________________
*3rd word in right half of page 112 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भागवत&oldid=503211" इत्यस्माद् प्रतिप्राप्तम्