यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारतवर्षम्, क्ली, (भारतं भरतसम्बन्धि वर्षमिति ।) जम्बुद्वीपस्य नववर्षान्तर्गतवर्षविशेषः । यथा, -- “हिमाह्वं दक्षिणं वर्षं भरताय ददौ पिता । तस्माच्च भारतं वर्षं तस्य नाम्ना महात्मनः ॥” तस्य नव भागा यथा, -- “भारतस्यास्य वर्षस्य नवभेदान्निबोध मे । समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥ इन्द्रद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान् । नागद्वीपस्तथा सौम्यो गान्धर्व्वो वारुणस्तथा ॥ अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः । योजनानां सहस्रं वै द्वीपोऽयं दक्षिणोत्तरात् ॥ पूर्ब्बे किराता यस्यान्ते पश्चिमे यवनाः स्मृताः । ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चान्तःस्थिता द्विज ! ॥ इज्यायुद्धबणिज्याद्यैः कर्म्मभिः कृतपावनाः । तेषां संव्यवहारश्च एभिः कर्म्मभिरिष्यते ॥ स्वर्गापवर्गप्राप्तिश्च पुण्यं पापञ्च वै तथा । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्व्वतः ॥ बिन्ध्यश्च पारिपात्रश्च सप्तैवात्र कुलाचलाः । तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥ विस्तारोच्छ्रयिणो रम्या विपुलाश्चित्रसानवः । कोलाहलः सवैभ्राजो मन्दरो दर्दुराचलः ॥ वातन्धमो वैद्युतश्च मैनाकः सुरसस्तथा । तुङ्गप्रस्थो नामगिरिर्गोधनः पाण्डुराचलः ॥ पुष्पवीर्य्यजयन्तौ च रेवतोऽर्व्वुद एव च । ऋष्यमूकः सगोमन्तः कूटशैलः कृतस्मरः ॥ श्रीपर्व्वतश्चकोरश्च शतशोऽन्येऽल्पपर्व्वताः । तैर्विमिश्रा जनपदा म्लेच्छाश्चार्य्याश्च भागशः । तैः पीयन्ते सरिच्छ्रेष्ठा यास्ताः सम्यङ्निबोध मे ॥ गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापगा । यमुना च शतद्रुश्च वितस्तैरावती कुहूः ॥ गोमती धूतपापा च बाहुदा च दृषद्वती । विपाशा देविका वङ्क्षुर्विशाला गण्डकी तथा । कौशिकी चापरा विप्र ! हिमवत्पादनिःसृताः ॥ वेदस्मृतिर्वेतसिनी रात्रिघ्नी सिन्धुरेव च । वेण्वा च स्यन्दना चैव सवानीरा मही तथा ॥ पारा चर्म्मण्वती लूपी विदिशा वेत्रवत्यपि । तेनाजनाभे स्मृतिमज्जन्मनः स्या- द्वर्षे हरिर्यद्भजतां शं तनोति ॥” श्रीशुक उवाच । जम्बूद्वीपस्य च राजन्नुपद्बीपा- नष्टौ हैक उपदिशन्ति सागरात्मजैरश्वान्वेषण इमां महीं परितो निखनद्भिरुपकल्पितान् । तद्यथा । स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्त्तनो रमणको नन्दहरिणः पाञ्चजन्यः सिंहलो लङ्केति । एवं तव भारतोत्तमजम्बुद्वीपवर्षविभागो यथोप- देशमुपवर्णितः ।” इति श्रीभागवते महापुराणे ५ स्कन्धे द्वीपवर्षवर्णनं नाम १९ अध्यायः ॥ (विष्णुपुराणे च । २ अंशे ३ अध्याये । “उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तत् भारतं नाम भारती यत्र सन्ततिः ॥ १ ॥ नवयोजनसाहस्रो विस्तारोऽस्य महामुने ! । कर्म्मभूमिरियं स्वर्गमपवर्गञ्च गच्छताम् ॥” २ ॥ अपरञ्च । “अतः संप्राप्यते स्वर्गो मुक्तिमस्मात् प्रयान्ति वै । तिर्य्यक्त्वं नरकञ्चापि यान्त्यतः पुरुषा मुने ! ॥ ४ ॥ इतः स्वर्गश्च मोक्षश्च मध्यमन्तश्च गम्यते । नखल्वन्यत्र मर्त्त्यानां कर्म्मभूमौ विधीयते ॥” ५ ॥ अपि च । “चत्वारि भारते वर्षे युगान्यत्र महामुने ! । कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित् ॥ १९ ॥ तपस्तप्यन्ति मुनयो जुह्वते चात्र यज्विनः । दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥” २० ॥ “अत्रापि भारतं श्रेष्ठं जम्बुद्वीपे महामुने ! । यतो हि कर्म्मभूरेषा ततोऽन्या भोगभूमयः ॥ २२ ॥ अत्र जन्म सहस्राणां सहस्रैरपि सत्तम ! । कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥ २३ ॥ गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागे । स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥ २४ ॥ कर्म्माण्यसङ्कल्पिततत्फलानि संन्यस्य विष्णौ परमात्मभूते । अवाप्य तां कर्म्म महीमनन्ते तस्मिल्लयं येत्वमलाः प्रयान्ति ॥ २५ ॥ जानीम नैतत् क्व वयं विलीने स्वर्गप्रदे कर्म्मणि देहबन्धम् । प्राप्स्याम धन्याः खलु ते मनुष्या ये भारते नेन्द्रियविप्रहीनाः ॥” २६ ॥)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारतवर्ष¦ पुंन॰ जम्बुद्वीपान्तर्गते वर्षभेदे जम्बुद्वीपशब्दो

३०

४६ पृ॰ दृश्यम्।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारतवर्ष/ भारत--वर्ष n. = तं वर्षम्above ,

"https://sa.wiktionary.org/w/index.php?title=भारतवर्ष&oldid=503220" इत्यस्माद् प्रतिप्राप्तम्