यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षुः, पुं, (भिक्षणशीलः । भिक्ष याचने + “सनाशंसभिक्ष उः ।” ३ । २ । १६८ । इति उः ।) ब्रह्मचार्य्याद्याश्रमचतुष्टयान्तर्गतचतुर्थाश्रमी । आश्रमशब्दोऽयं धर्म्मिपरो धर्म्मपरश्च । इति भरतः ॥ तत्पर्य्यायः । परिव्राट् २ कर्म्मन्दी ३ पाराशरी ४ मस्करी ५ इत्यमरः । २ । ७ । ४२ ॥ परिव्राजकः ६ पराशरी ७ व्रजकः ८ । इति शब्दरत्नावली ॥ तस्य धर्म्मो यथा, -- “भिक्षोर्धर्म्मं प्रवक्ष्यामि तन्निबोधत सत्तमाः । वनाद्गृहाद्वा कृत्वेष्टिं सर्व्ववेदसदक्षिणाम् ॥ प्राजापत्यां तदन्ते तु अग्निमारोप्य चात्मनि । सर्व्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः ॥ सर्व्वारामं परिव्रज्य भिक्षार्थी ग्राममाश्रयेत् । अप्रमत्तश्चरेद्भैक्ष्यं सायाह्ने नातिलक्षितः ॥ रहिते भिक्षुकैर्ग्रामे यात्रामात्रमलोलुपः । भवेत् परमहंसो वा एकदण्डो यमादिकृत् ॥ सिद्धयोगस्त्यजन् देहममृतत्वमिहाप्नुयात् । योगमभ्यस्य मितभुक् परां सिद्धिमवाप्नुयात् ॥ दातातिथिप्रियो ज्ञानी गृही श्राद्धेऽपि मुच्यते ।” इति गारुडे १०३ अध्यायः ॥ * ॥ अपि च । “चतुर्थश्चाश्रमो भिक्षोः प्रोच्यते यो मनी- षिभिः । तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि ॥ पुत्त्रद्रव्यकलत्रेषु त्यक्तस्नेहो नराधिप ! । चतुर्थमाश्रमस्थानं गच्छेन्निर्द्धूतमत्सरः ॥ त्रैवर्णिकांस्त्यजेत् सर्व्वानारम्भानवनीपते ! । मित्रादिषु समो मैत्रः समस्तेष्वेव जन्तुषु ॥ जरायुजाण्डजादीनां वाङ्मनःकर्म्मभिः क्वचित् । युक्तः कुर्व्वीत न द्रोहं सर्व्वसङ्गांश्च वर्जयेत् ॥ एकरात्रस्थितिर्ग्रामे पञ्चरात्रस्थितिः पुरे । तथा तिष्ठेद्यथा प्रीतिर्द्बेषो वा नास्य जायते ॥ प्राणयात्रानिमित्तञ्च व्यङ्गारे भुक्तवज्जने । काले प्रशस्तवर्णानां भिक्षार्थे पर्य्यटेद् गृहान् ॥ कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये । तांस्तु दोषान् परित्यज्य परिव्राण्णिर्म्ममो भवेत् ॥ अभयं सर्व्वसत्त्वेभ्यो दत्त्वा यश्चरते मुनिः । न तस्य सर्व्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥ कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निञ्च मुखे जुहोति । विप्रस्तु भैक्षोपगतैर्हविर्भि- श्चिताग्निना स व्रजति स्म लोकान् ॥ मोक्षाश्रमं यश्चरते यथोक्तं शुचिः सुसङ्कल्पितबुद्धियुक्तिः । अनिन्धनं ज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयति द्बिजातिः ॥” इति बिष्णुपुराणे ३ अंशे ९ अध्यायः ॥ * ॥ बुद्धभेदः । इति जटाधरः ॥ श्रावणीक्षुपः । इति राजनिर्घण्टः ॥ कोकिलाक्षः । इति भाव- प्रकाशः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षु पुं।

संन्यासाश्रमी

समानार्थक:भिक्षु

2।7।3।2।4

महाकुलकुलीनार्यसभ्यसज्जनसाधवः। ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये॥

 : संन्यासी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

भिक्षु पुं।

संन्यासी

समानार्थक:भिक्षु,परिव्राज्,कर्मन्दिन्,पाराशरिन्,मस्करिन्

2।7।41।2।1

समे तु पादग्रहणमभिवादनमित्युभे। भिक्षुः परिव्राट्कर्मन्दी पाराशर्यपि मस्करी॥

सम्बन्धि2 : पलाशदण्डः,वैष्णवदण्डः,कमण्डलुः,मृगचर्मः,भिक्षाद्रव्यम्

 : वाल्मीकिः, विश्वामित्रः, व्यासः, तपस्वी, निर्जितेन्द्रिययतिः, भूमिशायीव्रतिः, निवृत्तरजस्तमोगुणाः, पवित्रः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षु¦ त्रि॰ भिक्ष--उन्।

१ भिक्षाकारके

२ चतुर्थाश्रमे पु॰

३ तद्वतिच। तदाश्रमे अधिकारिणश्च आश्रमशब्दे उक्ताः। त-द्धर्माः नि॰ सि॰ उक्ता यथा
“अथ यतिधर्माः प्रातरुत्थाय व्रह्मणस्पते इति जपित्वादण्डादीनि मृदञ्च निधाय मूत्रपुरीषयोर्गृहस्थचतुर्गुणंशौचं कृत्वाचम्य पर्वद्वादशीवर्जं प्रणवेन दन्तधावनंकृत्वा तेनैव मृदा बहिःकटिं प्रक्षाल्य जलतर्पणवर्जंस्नात्वा पुनर्जङ्घे प्रक्षाल्य वस्त्रादीनि गृहीत्वा मार्ज-नान्तं कृत्वा केशवादिनमोन्तनामभिस्तर्पयित्वा ओं भू-स्तर्पयामीत्यादि व्यस्तसमस्तव्याहृतिभिर्महर्जनस्तर्पया-मीति तर्पयेत्।
“ओं भूः स्वाहेति स्वाहाशब्दान्तैः स्वधा-शब्दान्तैश्चैभिरेव पुनस्तर्पयेदिति केचित्। तत आत्तम्या-ञ्जलिना प्रणवेन जलमादाय व्याहृतिभिरुद्धृत्य गायत्र्यात्रिः क्षिप्त्वा गायत्रीं जपेत्। उदिते सूर्य्ये प्रणवेन व्या-हतिभिर्वार्घ्यं त्रिर्दत्त्वा मित्रस्य चर्षणीत्याद्यैः पूर्वोक्तसौरीभिरिदं विष्णुस्त्रिर्देवो ब्रह्मजज्ञानमिति चोपस्थायसर्वभूतेभ्यो नम इति प्रदक्षिणमावर्त्तते ततो नत्वा
“आ-दित्याय विद्महे सहस्राक्षाय धीमहि। तन्नः सूर्य्यः प्र-चोदयादिति” त्रिर्जपेत्। एवं त्रिकालं विष्णुपूजां ब्रह्मयज्ञञ्च कुर्य्यात्। अथ भिक्षा। विधूमे सन्नमुसले व्यङ्गारेभुक्तवज्जने। काले पराह्णभूयिष्ठे नित्यं भिक्षां यति-श्वरेत्” इत्युक्ते काले उद्वयमिति चतसृभिरादित्यमुपस्थायतनैक्यं ध्यात्वा आकृष्णेनेति प्रदक्षिणं कृत्वा ये तेपन्थान इति जप्त्वा
“योऽसौ विष्ण्वाख्य आदित्ये पुरुषो-ऽन्तर्हृदि स्थितः। सोऽहं नारायणोदेव इति ध्यात्वामणम्य तम्”। त्रितण्डं दक्षिणे त्वङ्गे ततः सन्धायबाहुना। पात्रं वामकरे क्षिप्त्वा श्लेषयद्दक्षिणेन त्विति” बोधायनोक्तदिशा त्रीन् पञ्च सप्त वा गृहान् गत्वा भवत्-पूर्वं भिक्षां याचित्वा
“पूर्णमसि पूर्णं{??}सचिरन्नं{??}[Page4670-b+ 38] व्याहृदितिभिः सूर्य्यादिदेवेभ्यो भूतेभ्यश्च भूमौ क्षिप्त्वाभुक्त्वा प्रणवेन षोडश प्राणायामान् कुर्य्यादिति संक्षेपः। गौतमव्याख्यायां भृगुः।
“यतिहस्ते जलं दत्त्वा भैक्ष्यंदद्यात् पुनर्जलम्। भैक्ष्यं पर्वतमात्रं स्यात् तज्जलं सा-गरोपमम्”। अत्र सर्वत्र मूलं माधवापरार्कमदनरत्न-स्मृत्यर्थसारादौ ज्ञेयम्। कण्वः
“एकरात्रं वसेद्ग्रामेनगरे पञ्चरात्रकम्। वर्षाभ्योऽन्यत्र वर्षासु मासांस्तुचतुरो वसेत्”। जावालश्रुतौ
“शून्यागारे देवगृहतृण-कुटीवल्मीकवृक्षमूलकुलालशालाग्निहोत्रगृहनदीपुलिन-गिरिकुहरनिर्झरस्थण्डिलेष्वनिकेतनः” इति। मात्स्ये
“अष्टौ मासान् विहारः स्याद् यतीनां संयतात्मनाम्। एकत्र चतुरोमासान् वार्षिकान्निवसेत् पुनः। अवि-मुक्तपविष्टानां विहारस्तु न विद्यते”। अत्रिः
“भिक्षा-टनं जपं स्नानं ध्यानं शौचं सुरार्चनम्। कर्त्तव्यानिषडेतानि सर्वथा नृपदण्डवत्। मञ्चकं शुक्लवस्त्रञ्च स्त्री-कथां लौल्यमेव च। दिवास्वापञ्च यानञ्च यतीनांपतनानि षट्। आसनं पात्रलोभश्च सञ्चयः शिष्यसंग्रहः। दिबास्वापो वृथाजल्पो यतेर्बन्धकराणि षट्”। दक्षः
“नाध्येतव्यं न वस्तव्यं न श्रोतव्यं कथञ्चन। यति-पात्राणि मृद्वेणुदार्वलाबूमयानि च”। मदमनरत्नेअत्रिः
“पित्रर्थं कल्पितं पूर्वमन्नं देवादिकारणात्। वर्ज-येत् तादृशीं भिक्षां परबाधाकरीं तथा”। वृहस्पतिः
“न तीर्थवासी नित्यं स्वान्नोपवासपरो यतिः। न चाध्य-यनशीलः स्यान्न व्याख्यानपरो भवेत्”। एतद्वेदार्थभिन्न-परम्। अत्रिः
“स्नानं सुरार्चनं ध्यानं प्राणायामो बलि-स्तुतिः भिक्षाटनं जपः सन्ध्या त्यागः कर्मफलस्य च”। एते धर्मा मिता॰ प्रायेणोक्तास्तद्वाक्यञ्चाश्रमशब्देदृश्यम्।

४ बुद्धभेदे जटा॰

५ श्रावणीक्षुपे राजनि॰।

६ कोकिलाक्षे भावप्र॰

७ उपनिषद्भेदे च।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षु¦ m. (-क्षुः) The mendicant; the Hindu who has entered the fourth order and subsists wholly upon alms.
2. The fourth order of the Hindus.
3. A Baudd'ha mendicant. E. भिक्ष् to beg, aff. उन् | [Page531-b+ 60]

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षुः [bhikṣuḥ], [भिक्ष्-उन्]

A beggar, mendicant in general; भिक्षां च भिक्षवे दद्यात् Ms.3.94.

A religious mendicant, a Brāhmaṇa in the fourth order of his religious life (when he quits his house and family and lives only on alms), a Sannyāsin.

The fourth order stage in the religious life of a Brāhmaṇa (संन्यास).

A Buddhist mendicant. -Comp. -चर्या begging, a mendicant's life.-भावः monk-hood, priest-hood. -सङ्घः a society of Buddhist mendicants. -सङ्घाती old or tattered clothes (चीवर). -सूत्रम् a collection of rules for mendicants; P.IV.3.11.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षु m. a beggar , mendicant , religious -mmendicant ( esp. a Brahman in the fourth आश्रमor period of his life , when he subsists entirely on alms) Mn. MBh. etc. (See. RTL. 55 n. 1 )

भिक्षु m. a Buddhist mendicant or monk Katha1s. Lalit. (See. MWB. 55 )

भिक्षु m. a partic. बुद्धL.

भिक्षु m. Asteracantha Longifolia L.

भिक्षु m. Sphaerantus Mollis L.

भिक्षु m. N. of an आङ्गिरस(author of RV. x , 117 ) RAnukr.

भिक्षु m. of a son of भोजRa1jat.

भिक्षु m. of a poet Cat.

भिक्षु n. N. of an उपनिषद्(See. भिक्षुको-पनिषद्) ,

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(मार्ग) taught by नारद to the children of दक्ष; फलकम्:F1:  भा. VI. 5. ३६.फलकम्:/F duties of. फलकम्:F2:  M. ४०. 1, 5.फलकम्:/F
(II)--(see also Yati) main व्रतस् five; and sup- plementary, five; main:--ध्यानम्, समाधि of the senses, begging at seven houses, silence and release from sangha. Supplementary:--Purity in conduct, discipline (vinaya) शौचम्, non-retaliation and सम्यक्दर्शनम्, besides non theft, Brahmacarya, non-covetousness, ahimsa, non-anger, service to the Guru, medicated food, daily study, alms, resig [page२-561+ २९] nation, generosity, etc., becomes one with ब्रह्मा for observing such dharma. Br. II. 7. १७९; वा. 8. १८६-7; १६. १८-9; ५९. २५; १०५. २५; Vi. III. 9. २४-42.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhikṣu, ‘beggar,’ is a term not found in Vedic literature. The begging of the Brahmacārin is quite a different thing from the duties of the Bhikṣu in the later system of the Āśramas (religious stages of life), when the Brahmin in the last stage of his life, after leaving his home and family, lives on alms alone. See 1. Brāhmaṇa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=भिक्षु&oldid=503233" इत्यस्माद् प्रतिप्राप्तम्