भुक्ति
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भुक्तिः, स्त्री, (भुज् + क्तिन् ।) भोजनम् । इति शब्दरत्नावली ॥ भोगः । यथा, -- “भुक्तिस्त्रिपुरुषी सिद्ध्येदपरेषां न संशयः । अनिर्वृत्ते सपिण्डत्वे सकुल्यानां न सिद्ध्यति ॥ आहर्त्ता शोधयेद्भुक्तिमागमञ्चापि संसदि । तत्सुतो भुक्तिमेवैकां पौत्त्रादिषु न किञ्चन ॥” इति दायतत्त्वम् ॥ (यथा, मनुः । ८ । २५२ । “एतैर्लिङ्गैर्नयेत् सीमां राजा विवदमानयोः । पूर्ब्बभुक्त्या च सततमुदकस्यागमेन च ॥”) रविर्भुक्तिर्यथा, -- “सार्द्धसप्तझसे मेषे वसुः सार्द्धो घटे वृषे । दशैव मकरे द्वन्दे पलानि प्रतिवासरम् । कुलीरसिंहप्रमदातुलालिकार्मुकेषु च । पलान्येकादश तथा रविभुक्तिं प्रचक्षते ॥” इति ज्योतीरत्नमाला ॥ भोगः । दखल इति पारस्यभाषा । स च प्रमाणचतुष्टयान्तर्गतप्रमाणविशेषः । यथा । लिखिताद्यभावे दिव्यमाह याज्ञवल्क्यः । “प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्ति- तम् । एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥” इति व्यवहारतत्त्वम् ॥ तद्विवरणं यथा । अथ भुक्तिः । तत्र याज्ञ- वल्क्यः । “पश्यतोऽब्रुवतो हानिर्भूमेर्व्विंशतिवार्षिकी । परेण भुज्यमानाया धनस्य दशवार्षिकी ॥” विवादमकुर्व्वतः समक्षं भूस्वामिनः परेणा- सपिण्डादिना भुज्यमानाया भूमेर्व्विंशतिवर्ष- निर्वृत्ता स्वत्वहानिः । अत्र लोकव्यवहार- कर्म्मत्वाद्वर्षगणना सावनेन । यथा च विष्णु- धर्म्मोत्तरम् । “सत्राण्युपास्यान्यथ सावनेन लौक्यञ्च यत् स्याद्व्यवहारकर्म्म ॥” तत्रैव । “सावने च तथा मासि त्रिंशत् सूर्य्योदयाः स्मृताः ॥” इति ॥ विशेषयति व्यासः । “वर्षाणि विंशतिं यस्य भूर्भक्ता तु परैरिह । सति राज्ञि समर्थस्य तस्य सेह न सिध्यति ॥” समर्थस्य बालत्वादिदोषरहितस्य । धनस्य दशवर्षनिर्वृत्ता स्वत्वहानिः । तथा च मनु- नारदौ । “यत्किञ्चिद्दशवर्षाणि सन्निधौ प्रेक्षते धनी । भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति ॥” यत्किञ्चिद्धनजातं समक्षमेव प्रीत्यादिव्यति विवाह्य श्रोत्रियैर्भुक्तं राज्ञामात्यैस्तथैव च । सुदीर्घेणापि कालेन तेषां तत्तु न सिद्ध्यति ॥” आपणो विक्रयस्थानम् । विवाह्यो जामाता । इति च व्यवहारतत्त्वम् ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भुक्ति¦ स्त्री भुज--क्तिन्।
१ भोजने
२ रव्यादिग्रहाणां राश्यं-शादिषु गमने
३ भोगे च
“आगमो निष्कलस्तत्र भुक्तिःस्तोकापि यत्र नी” इति स्मृतिः। भुक्तिप्रामाण्य-निर्णयादिकम् आगमशब्दे
६५
४ पृ॰ दृश्यम्। अत्र[Page4675-a+ 38] कत्तिद्भिशेषो वीरमिलाद{??} दर्शितो यथा
“{??}
“स्वागमेन विशुजेन भोगो याति प्रमाण-ताम्। अवि{??}गमो भोगः प्रामाण्यन्नैव गच्छति।{??}गमस्यावि{??}द्धत्वं विरोध्यास्कन्दनं भवेत्”। व्यासः
“सागमो दीर्घकालश्च विच्छेदापरवोज्झितः। प्रत्यर्थि-सन्निधानश्च परिभोगोऽपि पञ्चधा”। विच्छेदोऽन्तरायः उपरव आक्रीशस्ताभ्यामुज्झितो रहितः। यद्वा-च्छेदो व्यवधानन्तद्विगमवान् विच्छेदो निरन्तर इतियावत्। अपरवो वर्जनविषयोरवः। मदीयं क्षेत्रादित्वया किमिति भुज्यते इति प्रतिषेधः अपशब्दस्यवर्जनार्थत्वात् तेनोज्झितः। नारदः
“सम्भोगंकेवलं यस्तु कीर्त्तयेन्नागमं क्वचित्। भोगच्छलाप-देशेन विज्ञेयः स तु तस्करः। विदामानेऽपि लिखितेजीवत्स्वपि हि साक्षिषु। विशेषतः स्थावराणां यत्रभुक्तन्न तत् स्थिरम्”। दानविक्रयादेरुपभोगसापेक्षस्यैवस्वत्वोत्पादकत्वात् कियान् भोगलवोऽप्यवश्यं तत्रा-पेक्ष्यते इत्याशङ्कायामुपपत्तिरुक्ता विज्ञानेश्वराचार्य्यैः।
“दानादेः परस्वत्वापादने परकर्त्तृकस्वीकारापेक्षाऽवश्य-म्भावनीया। स्वीकारश्च त्रिविघो मानसो वाचिकः का-यिकश्च। ममेदमित्यध्यबसायो मानसः। ममेदमित्या-द्यभिलापो वाचिकः। उपादानाभिमर्शनादिरूपेणानेकप्रकारकः कायिकः। तत्र मानसं विना स्वत्वासम्भवात्स त्वावश्यक एव। दानविशेषपुरस्कारेण शब्दप्रयोग-विशेषनियमहस्तादिर्शनादिचेष्टाविशेषनियमाच्चवाचिकक। यिकावप्यावश्यकावित्यवसीयते। तत्र हिरण्यव-{??}वादौ दातृकर्त्तृकजलत्यागादनस्तरमेव प्रतिग्रहीतु-रुपादानादिसम्भवात् त्रिविधोऽपि व्यापारः सम्प-द्यते। क्षेत्रादौ तु फलोपभोगं विना कायिकस्वीकारास-म्भवादल्पेनाप्युपभोगेनावश्यम्भवितव्यमन्यथा दानविक्रयादेःसम्पूर्णता न भवत्युत्तरकालीनाङ्गीकाराभावात्। तेनतत्सहितादागमान्तराद्विकल आगमो दुर्बलो भवति। एतच्च द्वयोरागमयोः पूर्वापरभावानवगमे तदपगमेतु स्वल्पभोगविकलोऽपि प्राक्तन एवागमो बलवान्। पूर्वण दानादिना स्वत्वागमे दानद्यन्तरासम्भवात्। नचैवन्तस्य क्षेत्रादेर्मध्य{??}पत्तिः पूर्वस्याम्यापगमादुत्तर-स्वाम्यानुत्षत्तेश्चेति वाच्यम्। प्रतिश्रुतन्यायेनापेक्षणीयखत्वस्य सत्त्वात् पूर्वखाम्यसत्त्वेऽपि राज्ञैव प्रतिगृही-त्यादेंः कापिकरवेकारम्यनि{??}प्रतिपक्षस्य सम्पादनीयत्वात्” [Page4675-b+ 38]
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भुक्ति¦ f. (-क्तिः)
1. Eating.
2. Possession, fruition, usufruct.
3. Food.
4. The diurnal motion of a planet. E. भुज् to eat, aff. क्तिन् |
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भुक्तिः [bhuktiḥ], f. [भुज्-क्तिन्]
Eating, enjoyment; भुक्तिं मुक्तिं च विन्दति Rāmarakṣā Stotra. 12.
(In law) Possession, fruition; प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम् Y.2.22; Pt.3.94.
Food.
The daily motion of a planet.
A limit. -Comp. -पात्रम् a food-dish. -प्रदः a kind of plant (मुद्ग). -वर्जित a. not allowed to be enjoyed.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भुक्ति f. enjoyment , eating , consuming , A1s3vGr2. Pan5cat.
भुक्ति f. fruition , possession , usufruct Mn. Ya1jn5. Ka1v.
भुक्ति f. food , victuals Ka1v. Ra1jat.
भुक्ति f. (in astron. ) the daily motion of a planet Su1ryas. (See. पक्ष-भ्)
भुक्ति f. a limit MW.