यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूपालः, पुं, (भुवं पालयतीति । पालि रक्षणे + “कर्म्मण्यण् । ३ । २ । १ । इत्यण् ।) राजा । इति शब्दमाला ॥ (यथा, मार्कण्डेये । १८ । ३ । “यदर्थं गृह्यते शुल्कं तदनिंष्पादयन् वृथा । पण्यानां द्वादशं भागं भूपालाय बणिग्जनः ॥” सोमपालस्य पुत्त्रः । यथा, राजतरङ्गिण्याम् । ८ । ३४९५ । “सोमपालात्मजो भूभृद् भूपालः प्राकृत- स्तथा ॥”)

"https://sa.wiktionary.org/w/index.php?title=भूपालः&oldid=154735" इत्यस्माद् प्रतिप्राप्तम्