यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रम, इर् चाले । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।) इर् अभ्रमत् अभ्रमीत् । इति दुर्गादासः ॥

भ्रम, भ य चाले । इति कविकल्पद्रुमः ॥ (दिवा०- पर०-सक०-सेट् ।) भ य भ्राम्यति । इति दुर्गादासः ॥

भ्रम, उ ज ण चाले । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सेट् ।) उ भ्रमित्वा भ्रान्त्वा । ज भ्रामः भ्रमः । ज्वलादित्वाण्णप्रत्ययेऽपि जनबध इत्यादिना ह्रस्वे भ्रम इत्येव । तेन ज्वलादावस्य पाठो निष्फल इति धातुप्रदीपा- दयः । वस्तुतस्तु । ज्वलादिपाठसामर्थ्यान्न ह्रस्वः । ण भ्रेमतुः बभ्रमतुः । य भ्रम्यति भ्रमति । चाल इह पादविहरणम् । “न जाने को हेतुर्भ्रमति विपिने भिक्षुक इव ।” भ्रेमुः शिलोच्चयान् भीमानित्यत्र गत्यर्थविवक्षया सकर्म्मकत्वम् । इति दुर्गादासः ॥

भ्रमः, पुं, (भ्रमु अनवस्थाने इति । भ्रम + भावे घञ् ।) मिथ्याज्ञानम् । (यथा, राजतरङ्गि- ण्याम् । ३ । ४२३ । “देवो जगाद तं भद्र ! कोऽयं ते मनसि भ्रमः ॥”) तत्पर्य्यायः । भ्रान्तिः २ मिथ्यामतिः ३ । इत्य- मरः । १ । ५ । ४ । अम्बुनिर्गमः । कुन्दः । (यथा, रघौ । ६ । ३२ । “अवन्तिनाथोऽयमुदग्रबाहु- र्विशालवक्षास्तनुवृत्तमध्यः । आरोप्य चक्रभ्रममुष्णतेजाः त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥” “चक्रभ्रमं चक्राकारशस्त्रोत्तेजनयन्त्रम् । भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दाख्ये शिल्पियन्त्रके ॥” इति तट्टीकायां मल्लिनाथः ॥) भ्रमणम् । इति मेदिनी । मे, २० ॥ (यथा, कथासरित्सागरे । २७ । ४६ । “एवं किलोक्त्वा व्यसृजत् तं भ्रमाय बणिक्- सुतम् ।”) न्यायमते भ्रमस्य नामान्तरं अप्रमा । भ्रमो- द्विविधः । विपर्य्यासः संशयश्च । आद्यो यथा । देहे आत्मबुद्धिः । शङ्खादौ पीततामतिः । सा निश्चयरूपा । द्वितीयो यथा । किंस्विन्नरो वा स्थाणुर्वा इत्यादिबुद्धिः । तस्य कारणम् । पित्तदूरत्वमोहभयादिनानाविधदोषः । यथा, “अप्रमा च प्रमा चेति ज्ञानं द्विविधमुच्यते । तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता ॥ तत्प्रपञ्चो विपर्य्यासः संशयोऽपि प्रकीर्त्तितः । आद्यो देहे यात्मबुद्धिः शङ्खादौ पीततामतिः ॥ भवेन्निश्चयरूपा सा संशयोऽथ प्रदर्श्यते । किंस्विन्नरो वा स्थाणुर्व्वेत्यादिबुद्धिस्तु संशयः ॥ तदभावप्रकारा धीस्तत्प्रकारा तु निश्चयः । स संशयो भवेद् या धीरेकत्राभावभावयोः ॥ साधारण्यादिधर्म्मस्य ज्ञानं संशयकारणम् । दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् ॥ पित्तदूरत्वादिरूपो दोषो नानाविधः स्मृतः ।” इति भाषापरिच्छेदः । १२७ -- १३२ ॥ (भ्रमणशीले, त्रि ॥ यथा, ऋग्वेदे । ६ । ६ । ४ । “अधभ्रमस्त उर्व्विया विभाति यातयमानो अधिसानुपृश्नेः ॥” “भ्रमो भ्रमणशीलो ज्वालासमूहः ॥” इति तद्भाष्ये सायनः ॥ रोगविशेषः । तद्यथा, -- “मूर्च्छा पित्ततमःप्राया रजःपित्तानिलाद्भ्रमः । चक्रवद्भ्रमतो गात्रं भूमौ पतति सर्व्वदा । भ्रमरोग इति ज्ञेयो रजःपित्तानिलात्मकः ॥” इति वैद्यकमाधवकृतरुग्विनिश्चये मूर्च्छाधिकारे ॥ तथाचास्य चिकित्सा ॥ “शतावरी बलामूलद्राक्षासिद्धं पयः पिबेत् । ससितं भ्रमनाशाय बीजं वाट्यालकस्य च ॥ पिबेद्दुरालभाक्वाथं सघृतं भ्रमशान्तये । त्रिफलायाः प्रयोगो वा प्रयोगः पयसोऽपि वा ॥ इति वैद्यकचक्रपाणिसंग्रहे मूर्च्छाद्यधिकारे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रम पुं।

अतस्मित्तज्ज्ञानम्

समानार्थक:भ्रान्ति,मिथ्यामति,भ्रम,विभ्रम

1।5।4।2।5

मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम्. समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः॥

पदार्थ-विभागः : , गुणः, बुद्धिः

भ्रम पुं।

जलनिस्सरणजालकम्

समानार्थक:भ्रम,जलनिर्गम

1।10।7।1।3

चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः। कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

भ्रम पुं।

भ्रमणम्

समानार्थक:भ्रम,भ्रमि

3।2।9।1।7

ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ। स्फातिर्वृद्धौ प्रथाख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रम¦ चलने भ्वा॰ पर॰ अक॰ सेट्। भ्रमति कौटिल्ये इरित्। अभ्रमत् अभ्रमीत्। बभ्राम कणा॰ भ्रेमतुः बभ्रतुः।

भ्रम¦ चलने दिवा॰ पर॰ सक॰ सेट् शमा॰। भ्राम्यति अभ्रमीत्।

भ्रम¦ भ्वा॰ पर॰ अक॰ सेट्। भ्रमति अभ्रमीत् फणा॰ भ्रेमतुःबभ्रमतुः चङि न ह्रस्वः। ज्वला॰ भ्रमः भ्रामः।

भ्रम¦ पु॰ भ्रम--घञ्।

१ मिथ्याज्ञाने (अन्यथाभूतस्य वस्तुनो-ऽन्यथारूपेण ज्ञाने)

२ जलनिर्गमस्थाने

३ कुन्दे (कुंद)

४ भ्रमणे च मेदि॰। भ्रमश्च तद्वति तत्प्रकारकज्ञानम्। व्यधिकरणप्रकाराच्छिन्नविषयताशालिज्ञानम्। यत्प्रका-रिका या विषयता तत्प्रकारव्यधिकरणविषयताकज्ञानम्। स्वप्रकारव्यधिकरणविषयताकज्ञानम्। स्वव्यधिकरणप्र-कारावच्छिन्नविषयताप्रतियोगिज्ञानम्” (चि॰) तदभाव-वन्निरूपिततन्निष्ठविषयताप्रतियोगिताकतदभाववति तत्-सम्बन्धेन तद्धर्मविशिष्टतन्निरूपितवैशिष्ट्यविषयताशासिज्ञानम्। विशेष्यितासम्बन्धेन तत्तद्व्यक्तित्वावच्छिन्नप्रतियो-तिताकतदभाववदवच्छिन्ना या तद्व्यक्तिप्रकारिता त-[Page4709-a+ 38] च्छालिज्ञानम्। (मू॰ मा॰)
“मिथ्याज्ञानापरपर्य्यायोऽयंनिश्चयः” (गौ॰ वृ॰) अतस्मिंस्तद्ग्रहः (भा॰ प॰)। तद-भाववति तत्प्रकारकं ज्ञानम् यथा शुक्तौ इदं रजतम्इति ज्ञानम्। (त॰ प्र॰) भ्रमो द्विविधः। विपर्य्यासःसंशयश्च। तद्धेतवश्च दोषा दोषशब्दे

३७

६३ पृ॰ दृश्याः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रम¦ m. (-मः)
1. Whirling, going, round.
2. Straying, roaming.
3. Error, ignorance, mistake, misapprehension.
4. A whirlpool, an eddy
5. A drain, a water-course.
6. A lathe, a potter's wheel, &c. E. भ्रम् to go round, aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमः [bhramḥ], [भ्रम्-घञ्]

Moving or roaming about, roving.

Turning round, whirling, revolving.

Circular motion, rotation.

Straying, deviating.

An error, a mistake, misapprehension, delusion; शुक्तौ रजतमिति ज्ञानं भ्रमः; भ्रमं संमोहमावर्तमभ्यासाद्विनिवर्तयेत् Mb.12.274.7; भ्रमो द्विविधः विपर्यासः संशयश्च T. S.

Confusion, perplexity, embarrassment.

An eddy, a whirlpool.

A potter's wheel.

A grind-stone.

A lathe.

Giddiness.

A fountain, watercourse; भ्रमागतैरम्बु- भिरम्बुराशिः Śi.3.38.

An umbrella.

A circle.-Comp. -आकुल a. confused. -आसक्तः a sword-cleaner, an armourer.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रम m. ( ifc. f( आ). )wandering or roaming about , roving over or through( comp. ) Katha1s.

भ्रम m. moving about , rolling (as of the eyes) Ra1jat.

भ्रम m. turning round , revolving , rotation( acc. with दा= to swing) MBh. Su1ryas. Hcat.

भ्रम m. a whirling flame RV.

भ्रम m. a whirlpool , eddy Prab.

भ्रम m. a spring , fountain , watercourse L.

भ्रम m. a potter's wheel Sa1m2khyak.

भ्रम m. ( v.l. मि) , a grindstone(See. comp. )

भ्रम m. a gimlet or auger L.

भ्रम m. a circle A1ryabh.

भ्रम m. giddiness , dizziness Sus3r.

भ्रम m. confusion , perplexity , error , mistake( ifc. mistaking anything for) Hariv. Ka1v. Ra1jat. etc.

"https://sa.wiktionary.org/w/index.php?title=भ्रम&oldid=503299" इत्यस्माद् प्रतिप्राप्तम्