यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरकुण्डलम्, क्ली, (कुण्डलम् मकर इवेत्युप- मितसमासः ।) मकराकृतिकर्णभूषणम् । यथा, “वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः । महाकिरीटकटकः स्फुरन्मकरकुण्डलः ॥” इति श्रीभागवते ६ स्कन्धे ४ अध्यायः ३७ श्लोकः ॥ स्फुरती मकरकुण्डले यस्य सः । इति तट्टी- कायां श्रीधरस्वामी ॥

"https://sa.wiktionary.org/w/index.php?title=मकरकुण्डलम्&oldid=155241" इत्यस्माद् प्रतिप्राप्तम्