यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गलचण्डी, स्त्री, (मङ्गला चासौ चण्डी चेति यद्वा, देषानां मुन्यादिभक्तानां मङ्गलाय दुर्जया- सुरादिमारणे चण्डी अत्यन्तकोपना । मङ्गले- चण्डी दक्षेति वा । अथवा सृष्टौ मङ्गला प्रलये चण्डी । भागवतेऽस्या नामनिरुक्ति- र्यथा, -- “सृष्टौ मङ्गलरूपा च संहारे कोपरूपिणी । तेन मङ्गलचण्डी सा पण्डितैः परिकीर्त्तिता ॥”) दुर्गा । यथा, -- नारायण उवाच । “कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्त्र ! यथागमम् । देवी मङ्गलचण्डी या तदाख्यानं निशामय ॥ तस्याः पूजादिकं सर्व्वं धर्म्मवक्त्वेण यच्छ्रुतम् । श्रुतिसम्मतमेवेष्टं सर्व्वेषां विदुषामपि ॥ दक्षायां वर्त्तते चण्डी कल्याणेषु च मङ्गलम् । मङ्गलेषु च या दक्षा सा च मङ्गलचण्डिका ॥ पूज्यायां वर्त्तते चण्डी मङ्गलेऽपि महीसुतः । मङ्गलाभीष्टदेवी या सा वा मङ्गलचण्डिका ॥ मङ्गलो मनुवंशश्च सप्तद्वीपधरापतिः । तस्य पूज्याभीष्टदेषी तेन मङ्गलचण्डिका ॥ मूर्त्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी । कृपारूपातिप्रत्यक्षा योषितामिष्टदेवता ॥ प्रथमे पूजिता सा च शङ्करेण पुरः पुरा । त्रिपुरस्य वधे घोरे विष्णुना प्रेरितेन च ॥ ब्रह्मन् ! ब्रह्मोपदेशेन दुर्गप्रस्थेन सङ्कटे । आकाशात् पतिते याने दैत्येन पातिते रुषा ॥ ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शङ्करः । सा च मङ्गलचण्डी च बभूव रूपभेदतः ॥ उवाच पुरतः शम्भोर्भयं नास्तीति ते विभो ! । भगवान् वृषरूपश्च सर्व्वेशश्च बभूव ह ॥ युद्धशक्तिस्वरूपाहं भविष्यामि तदाज्ञया । मयामुना च हरिणा सहायेन वृषध्वज ! ॥ जहि दैत्यञ्च शत्रुञ्च सुराणां पदघातकम् । इत्युक्त्वान्तर्हिता देवी शम्भोः शक्तिर्बभूव सा ॥ विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः । मुनीन्द्र ! पतिते दैत्ये सर्व्वे देवा महर्षयः ॥ तुष्टुवुः शङ्करं देवं भक्तिनम्रात्मकन्धराः । सद्यः शिरसि शम्भोश्च पुष्पवृष्टिर्बभूव च । ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम् ॥ ब्रह्मविष्णूपदिष्टश्च सुस्रातः शङ्करः शुचिः । पूजयामास तां शक्तिं देवीं मङ्गलचण्डिकाम् ॥ पाद्यार्घ्याचमनीयैश्च बलिभिर्विविधैरपि । पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने ! ॥ छागैर्मेषैश्च महिषैर्गण्डैमायातिभिस्तथा । वस्त्रालङ्कारमाल्यैश्च पायसैः पिष्टकैरपि ॥ मधुभिश्च सुधाभिश्च पक्वैर्नानाविधैः फलैः । संगीतैर्नर्त्तनैर्वाद्यैरुत्सवैः कृष्णकीर्त्तनैः ॥ ध्यात्वा माध्यन्दिनोक्तेन ध्यानेन भक्तिपूर्ब्बकम् । ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद ! ॥ ओ~ ह्रीं श्रीं क्लीं सर्व्वपूज्ये देवि मङ्गलचण्डिके । हुं हुं फट् स्वाहेत्येवञ्चाप्यैकविंशाक्षरो मनुः ॥ पूज्यः कल्पतरुश्चैव भक्तानां सर्व्वकामदः । दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् । मन्त्रसिद्धिर्भवेद्यस्य स विष्णुः सर्व्वकामदः ॥ ध्यानञ्च श्रूयतां ब्रह्मन् ! वेदोक्तं सर्व्वसम्मतम् ॥ देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् । सर्व्वरूपगुणाढ्याञ्च कोमलाङ्गीं मनोहराम् ॥ श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् । वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥ बिभ्रतीं कवरीभारं मल्लिकामाल्यभूषितम् । विम्बोष्ठीं सुदतीं शुद्धां शश्वत्पद्मनिभाननाम् ॥ ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम् । जगद्धात्रीञ्च दात्रीञ्च सर्व्वेभ्यः सर्व्वसम्पदाम् । संसारसागरे घोरे पोतरूपां वरां भजे ॥ देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ! । प्रयातः सङ्कटग्रस्तो येन तुष्टाव शङ्करः ॥ श्रीशङ्कर उवाच । रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके ! । हारिके विपदां राशिं हर्षमङ्गलदायिके ! ॥ हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके ! । शुभे मङ्गलदक्षे च शुभे मङ्गलचण्डिके ! ॥ मङ्गले मङ्गलार्थे च सर्व्वमङ्गलमङ्गले ! । सतां मङ्गलदे देवि ! सर्व्वेषां मङ्गलालये ! ॥ पूज्ये ! मङ्गलवारे च मङ्गलाभीष्टदेवते ! । पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम् ॥ मङ्गलाधिष्ठातृदेवि ! मङ्गलानाञ्च मङ्गले ! । संसारमङ्गलाधारे मोक्षमङ्गलदायिनि ! ॥ सारे च मङ्गलाधारे पारे च सर्व्वकर्म्मणाम् । प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे ! ॥ स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् । प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः ॥ देव्याश्च मङ्गलं स्तोत्रं यः शृणोति समाहितः । तन्मङ्गलं भवेत् शश्वन्न भवेत्तदमङ्गलम् ॥ प्रथमे पूजिता देवी शिवेन सर्व्वमङ्गला । द्वितीये पूजिता देवी मङ्गलेन ग्रहेण च ॥ तृतीये पूजिता भद्रा मङ्गलेन नृपेण च । चतुर्थे मङ्गले वारे सुन्दरीभिश्च पूजिता ॥ मङ्गले मङ्गलाकाङ्क्षैर्नरैर्मङ्गलचण्डिका । पूजिता प्रतिविश्वेषु विश्वेशपूजिता सदा ॥ ततः सर्व्वत्र संपूज्या सा बभूव सुरेश्वरी । देवादिभिश्च मुनिभिर्मनुभिर्मानवैर्मुने ! ॥ वर्द्धते तत्पुत्त्रपौत्त्रो मङ्गलञ्च दिने दिने ॥” इति ब्रह्मवैवर्त्ते महापुराणे प्रकृतिखण्डे नारा- यणनारदीये मङ्गलचण्डिकोपाख्यानं तत्स्तोत्र- कथनं नाम ४१ अध्यायः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गलचण्डी¦ स्त्री मङ्गले चण्डी दक्षा।

१ देवीभेदे स्वार्थे क। मङ्गलचण्डिकाव्यत्र तन्नामनिरुक्तिः ब्रह्मवै॰ प्र॰

४१ अ॰उक्ता यथा
“दक्षायां वर्त्तते चण्डी कस्याणेषु च मङ्ग-लम्। मङ्गलेषु च या दक्षा सा च मङ्गलचण्डिका। पूज्यायां वर्त्तते चण्डी मङ्गलेऽपि महीसुतः। मङ्गला-भीष्टदेवी या सा वा मङ्गलचण्डिका। मङ्गलो भषु-वंशश्च सप्तद्वीपधरापतिः। तस्य पूज्याभीष्टदेवी तेनमङ्गलचण्डिका”।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गलचण्डी/ मङ्गल--चण्डी f. N. of दुर्गCat. W.

"https://sa.wiktionary.org/w/index.php?title=मङ्गलचण्डी&oldid=312809" इत्यस्माद् प्रतिप्राप्तम्