यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मज्जा, [न्] पुं, (मज्जति अस्थिष्विति । मस्ज् + “श्वन् उक्षन् पूषन् प्लीहन् क्लेदन् स्नेहन् मूर्द्धन् मज्जन्नित्यादि ।” उणा० । १ । १५८ । इति कनिन् निपात्यते च ।) वृक्षादेरुत्तमस्थिरभागः । सार इति ख्यातः । इत्यमरभरतौ ॥ फलमज्जगुणो यथा, -- “यस्य यस्य फलस्येह वीर्य्यं भवति यादृशम् । तस्य तस्यैव वीर्य्येण मज्जानमभिनिर्द्दिशेत् ॥” इति राजवल्लभः ॥ अस्थिमध्यस्थस्नेहविशेषः । तत्पर्य्यायः । कौशिकः २ शुक्रकरः ३ अस्थिस्नेहः ४ अस्थिसम्भवः ५ । इति हेमचन्द्रः । ६ । १९ ॥ अस्थिसारः ६ तेजः ७ बीजम् ८ अस्थिजम् ९ जीवनम् १० देहसारः ११ । इति राजनिर्घण्टः ॥ अथ मज्जस्वरूप- माह । “अस्थि यत् स्वाग्निना पक्वं तस्य सारो द्रवो घनः । यः स्वेदवत् पृथग्भूतः स मज्जेत्यभिधीयते ॥” अथ मज्जस्थानमाह । “स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तरे स्थितः ।” इति भावप्रकाशः ॥ अस्य गुणाः । “बलशुक्ररसश्लेष्ममेदोमज्जविवर्द्धनः । मज्जा विशेषतोऽस्थ्नाञ्च बलकृत् स्नेहने हितः ॥” इति चरकः ॥ मज्जाशब्द आबन्तोऽपि । यथा । शणातसी- मूलकशिग्रुसिद्धैः पियालमज्जासहितैस्त्विति सुश्रुतः ॥ द्बयमेवाह त्रिकाण्डे भागुरिः ॥ “लज्जावद्राजवन्मज्जा मांससारास्थिसारयोः ।” इत्यमरटीकायां भरतः ॥

मज्जा, स्त्री, (मज्जतीति । मस्ज् + अच् । अजादित्वात् टाप् ।) अस्थिसारः । इत्यमर- टीकायां भरतः ॥ अस्य गुणाः । वातनाशि- त्वम् । बलपित्तकफप्रदत्वम् । मांसतुल्यगन्धरूप- त्वञ्च । कुम्भीरमहिषमज्जागुणाः । मधुरत्वम् । बृंहणत्वम् । बल्यत्वञ्च । मज्जसत्त्वगुणौ यथा । शैत्यम् । उष्णत्वञ्च । इति राजवल्लभः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मज्जा¦ स्त्री मस्ज--अच् टाप्।

१ अस्थिसारे

२ वृक्षादेः सारांशेच हेम॰।
“भल्लातकी मूलकशिग्रुसिद्धैः प्रियालमल्ला-सहितैः” सुश्रुतः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मज्जा¦ f. (-ज्जा) Marrow, pith, sap. E. मज्जन् marrow and अच्-टाप् aff.: see मज्जन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मज्जा [majjā], [मस्ज्-अच् टाप्]

The marrow of the bones and flesh.

The pith of plants.

Comp. जम् semen virile.

a kind of bdellium (भूमिजगुग्गुल). -मेहः a disease of urinary organs. -रजस् n.

a particular hell.

bdellium. -रसः semen virile. -सारः a nutmeg.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मज्जा f. id. S3Br. MaitrUp. Hariv. (See. निर्मज्ज).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ति. Br. IV. ४४. ९०.

"https://sa.wiktionary.org/w/index.php?title=मज्जा&oldid=434491" इत्यस्माद् प्रतिप्राप्तम्