यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डकः, पुं, (मण्डेन कृतः इति । मण्ड + संज्ञायां कन् ।) पिष्टकविशेषः । मा~डा इति हिन्दी भाषा ॥ यथा, -- “गोधूमा धवला धौताः कुट्टिताः शोषितास्ततः । प्रोक्षिता यन्त्रनिष्पिष्टाश्चालिताः समिताः स्मृताः ॥ वारिणा कोमलां कृत्वा समितां साधु मर्द्दयेत् । हस्तचालेन या तस्या लोप्त्री सम्यक् प्रसारयेत् ॥ अधोमुखघटस्यैतद्बिस्तृतं प्रक्षिपेद्बहिः । मृदुना वह्निना साध्यः सिद्धो मण्डक उच्यते ॥” लोप्त्री लेची इति लोके । “दुग्धेन साज्यखण्डेन मण्डकं भक्षयेन्नरः । अथवा सिद्धमांसेन सतक्रवटकेन वा ॥” तस्य गुणाः । “मण्डको वृंहणो वृष्यो बल्यो रुचिकरो भृशम् । पाकेऽपि मधुरो ग्राही लघुर्द्दोषत्रयापहः ॥” इति भावप्रकाशः ॥ (माधवीलता । तत्पर्य्यायो । यथा, -- “माधवी स्यात्तु वासन्ती पुण्ड्रको मण्डकोऽपि च । अतिमुक्तो विमुक्तश्च कामुको भ्रमरोत्सवः ॥” इति च भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) गीताङ्गविशेषः । यथा, -- “जयप्रियः कलापश्च कमलः सुन्दरस्तथा । मङ्गलो वल्लभश्चेति मण्डकाः षट् प्रकीर्त्तिताः ॥ जयप्रियो हंसताले लघुमध्ये यदा गुरुः । ऊनविंशत्यक्षरैर्युक्तो रसे वीरे स वर्त्तते । लघुर्गुरुर्लघुर्यत्र हंसतालः स उच्यते ॥ १ ॥ कलापो रङ्गतालेन युक्तो रौद्ररसे हि सः । द्वाविंशत्यक्षरैर्युक्तो लघुरादौ गुरुद्वयम् । लघुरादौ गुरुद्बन्द्बं रङ्गताल इतीरितः ॥ २ ॥ लघुद्वन्द्वं गुरुश्चैकोऽनिलोऽत्र संगणात्मकः । पञ्चविंशत्यक्षरैः स्यात् कमलः शान्तहास्ययोः ॥ ३ गुरुरेको लघुद्वन्द्वं त्रिपुटे भगणात्मके । अष्टाविंशत्यक्षरैस्तु शृङ्गारे सुन्दरे मतः ॥ ४ ॥ आदौ गुरुर्लघुर्मध्ये प्लुतोऽन्ते भृङ्गतालके । एकविंशत्यक्षरैस्तु वीरे मङ्गलमण्डकः ॥ ५ ॥ षट्पितापुत्त्रके ताले गलसागलगात्मके । चतुस्त्रिंशदक्षरोऽयं वल्लभो रौद्रके रसे ॥ ६ ॥ इति सङ्गीतदामोदरः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डक¦ पु॰ भाव॰ उक्ते पिष्टकभेदे कृतान्नशब्दे

२१

८१ पृ॰दृश्यम् सङ्गीतदामो॰ उक्ते गीताङ्गभेदे यथा
“जयप्रियः कलापश्च कमलः सुन्दरस्तथा। मङ्गलो वल्लभ-श्चेति मण्डकाः षट् प्रकीर्त्तिताः। जयप्रियो हंसतालेसघुमध्ये यदा गुरुः। ऊनविंशाक्षरैर्युक्तो रसे वीरे सवर्त्तते। लघुर्गुरुर्लघुर्यत्र हंसतालः स उच्यते

१ । कलापोरङ्गतालेन युक्तो रौद्ररसेहि सः। द्वाविंशत्यक्षरैर्युक्तालघुरादौ गुरुद्वयम्। लघुरादौ गुरुद्वन्द्वं रङ्गतालइतीरितः

२ । लघुद्वन्द्वं गुरुश्चैकोऽनिलोऽत्र सगणा-त्मकः। पञ्चविंशत्यक्षरैः स्यात् कमलः शान्तहास्ययोः

३ । गुरुरेको लघुद्वन्द्वं त्रिपुटे भगणात्मके। अष्टाविंशत्यक्ष-रैस्तु शृङ्गारे सुन्दरे मतः

४ । आदौ गुरुर्लघुर्मध्येप्लुतोऽन्ते भृङ्गतालके। एकरिंशत्यक्षरैस्तु वीरे मङ्गल-मण्डकः

५ । षड्मितापुत्रके ताले गलसागजगात्मके। चतुस्त्रिंशदक्षरोऽयं वल्लभो रौद्रके रसे

६ । ”

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डकः [maṇḍakḥ], 1 A kind of baked flour.

A very thin kind of cake (Mar. मांडे); पयःस्मिता मण्डकमण्डनाम्बरा N. 16.17.

A particular musical air.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डक ( ifc. , with f( इका). ) , rice-gruel Hariv.

मण्डक m. a sort of pastry or baked flour Pan5cat. S3ukas. Bhpr. (See. मण्ठक)

मण्डक m. a partic. musical air Sam2gi1t. (See. id. )

मण्डक m. pl. N. of a people VP. (See. मन्दक).

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAṆḌAKA I : One of the sons born to the Yakṣa Maṇibhadra of his wife Puṇyajanī.


_______________________________
*9th word in right half of page 474 (+offset) in original book.

MAṆḌAKA II : A place of habitation of Purāṇic fame in ancient India. (Śloka 43, Chapter 9, Bhīṣma Parva).


_______________________________
*10th word in right half of page 474 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मण्डक&oldid=434541" इत्यस्माद् प्रतिप्राप्तम्